Templesinindiainfo

Best Spiritual Website

Vichakhnu Gita Lyrics in Hindi

Vichakhnu Geetaa in Hindi:

॥ विचख्नुगीता ॥
अध्यायः २५७
भी
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥ १ ॥

छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम् ।
गोग्रहे यज्ञवातस्य प्रेक्षमाणः स पार्थिवः ॥ २ ॥

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥ ३ ॥

अव्यवस्थित मर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥ ४ ॥

सर्वकर्म स्वहिंसा हि धर्मात्मा मनुरब्रवीत् ।
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ ५ ॥

तस्मात्प्रमानतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ ६ ॥

उपोष्य संशितो भूत्वा हित्वा वेद कृताः श्रुतीः ।
आचार इत्यनाचाराः कृपणाः फलहेतवः ॥ ७ ॥

यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्धिश्य मानवाः ।
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ ८ ॥

मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् ।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥ ९ ॥

कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ।
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ १० ॥

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।
यच्चापि किं चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ ११ ॥

य्
शरीरमापदश्चापि विवदन्त्यविहिंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥ १२ ॥

भी
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १३ ॥

॥ इति विचख्नुगीता समाप्ता ॥

Also Read:

Vichakhnu Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vichakhnu Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top