Templesinindiainfo

Best Spiritual Website

Vidya Gita Lyrics in Hindi

Vidya Geetaa in Hindi:

॥ विद्यागीता ॥
त्रिपुरा रहस्ये ज्ञानखण्डे
अथ विंशोध्यायः ।
अत्र ते वर्तयिष्यामि पुरा वृत्तं श्रुणुष्व तत् ।
पुरा ब्रह्मसभामध्ये सत्यलोकेऽतिपावने ॥ १ ॥

ज्ञानप्रसङ्गः समभूत् सूक्ष्मात्सूक्ष्मविमर्शनः ।
सनकाद्या वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ २ ॥

भृगुरत्रिरङ्गिराश्च प्रचेता नारदस्तथा ।
च्यवनो वामदेवश्च विश्वामित्रोऽथ गौतमः ॥ ३ ॥

शुक्रः पराशरो व्यासः कण्वः काश्यप एव च ।
दक्षः सुमन्तुः शङ्खश्च लिखितो देवलोऽपि च ॥ ४ ॥

एवमन्ये ऋषिगणा राजर्षिप्रवरा अपि ।
सर्वे समुदितास्तत्र ब्रह्मसत्रे महत्तरे ॥ ५ ॥

मीमांसां चक्रुरत्युच्चैः सूक्ष्मात्सूक्ष्मनिरूपिणैः ।
ब्रह्माणं तत्र पप्रच्छुरृषयः सर्व एव ते ॥ ६ ॥

भगवन् ज्ञानिनो लोके वयं ज्ञातपरावराः ।
तेषां नो विविधा भाति स्थितिः प्रकृतिभेदतः ॥ ७ ॥

केचित् सदा समाधिस्थाः केचिन्मीमांसने रताः ।
अपरे भक्तिनिर्मग्नाश्चान्ये कर्मसमाश्रयाः ॥ ८ ॥

व्यवहारपरास्त्वेके बहिर्मुखनरा इव ।
तेषु श्रेयान् हि कतम एतन्नो वक्तुमर्हसि ॥ ९ ॥

स्वस्वपक्षं वयं विद्मः श्रेयांसमिति वै विधे ।
इति पृष्टोऽवदद् ब्रह्मा मत्वाऽनाश्वस्तमानसान् ॥ १० ॥

मुनीन्द्रा नाहमप्येतद्वेद्मि सर्वात्मना ततः ।
जानीयादिममर्थं तु सर्वज्ञः परमेश्वरः ॥ ११ ॥

तत्र यामोऽथ सम्प्रष्टुमित्युक्त्वा तत्र तैरयौ ।
सङ्गम्य देवदेवेशं विष्णुनाभिसमागतम् ॥ १२ ॥

पप्रच्छ ऋषिमुख्यानां प्रश्नं तं लोकसृड्विधिः ।
प्रश्नं निशम्य च शिवो ज्ञात्वा विधिमनोगतम् ॥ १३ ॥

मत्वाऽनाश्वस्तमनस ऋषीन् देवो व्यचिन्तयत् ।
किञ्चिदुक्तं मयाऽत्रापि व्यर्थमेव भवेन्ननु ॥ १४ ॥

स्वपक्षत्वेन जानीयुरृषयोऽश्रद्धया युताः ।
इति मत्वा प्रत्युवाच देवदेवो महेश्वरः ॥ १५ ॥

श्रुणुध्वं मुनयो नाहमप्येतद्वेद्मि सुस्फुटम् ।
अतो विद्यां भगवतीं ध्यायामः परमेश्वरीम् ॥१६ ॥

तत्प्रसादान्निगूढार्थमपि विद्मस्ततः परम् ।
इत्युक्ता मुनयः सर्वे विधिविष्णुशिवैः सह ॥ १७ ॥

दध्युर्विद्यां महेशानीं त्रिपुरां चिच्छरीरिणीम् ।
एवं सर्वैरभिध्याता त्रिपुआरा चिच्छरीरिणी ॥ १८ ॥

आविरासीच्चिदाकाशमयी शब्दमयी परा ।
अभवद् मेघगम्भीरनिःस्वनो गगनाङ्गणे ॥ १९ ॥

वदन्त्वृषिगणाः किं वो ध्याता तद्द्रुतमीहितम् ।
मत्पराणां हि केषाञ्चिन्न हीयेताभिवाञ्छितम् ॥ २० ॥

इति श्रुत्वा परां वाणीं प्रणेमुर्मुनिपुङ्गवाः ।
ब्रह्मादयोऽपि तदनु तुष्टुवुर्विविधैः स्तवैः ॥ २१ ॥

अथ प्रोचुरृषिगणा विद्यां तां त्रिपुरेश्वरीम् ।
नमस्तुभ्यं महेशानि श्रीविद्ये त्रिपुरेश्वरि ॥ २२ ॥

अशेषोत्पादयित्री त्वं स्थापयित्री निजात्मनि ।
विलापयित्री सर्वस्य परमेश्वरि ते नमः ॥ २३ ॥

अनूतना सर्वदाऽसि यतो नास्ति जनिस्तव ।
नवात्मिका सदा त्वं वै यतो नास्ति जरा तव ॥ २४ ॥

सर्वाऽसि सर्वसाराऽसि सर्वज्ञा सर्वहर्षिणी ।
असर्वाऽसर्वगाऽसाराऽसर्वज्ञाऽसर्वहर्षिणी ॥ २५ ॥

देवि भूयो नमस्तुभ्यं पुरस्तात् पृष्ठतोऽपि च ।
अधस्तादूर्ध्वतः पार्श्वे सर्वतस्ते नमो नमः ॥ २६ ॥

ब्रूहि यत्तेऽपरं रूपमैश्वर्यं ज्ञानमेव च ।
फलं तत्साधनं मुख्यं साधकं सिद्धमेव च ॥ २७ ॥

सिद्धेस्तु परमां काष्ठां सिद्धेषूत्तममेव च ।
देव्येतत् क्रमतो ब्रूहि भूयस्तुभ्यं नमो नमः ॥ २८ ॥

इत्यापृष्टा महाविद्या प्रवक्तुमुपचक्रमे ।
दयमाना ऋषिगणे स्पष्टार्थं परमं वचः ॥ २९ ॥

श्रुणुध्वमृषयः सर्वं प्रवक्ष्यामि क्रमेण तत् ।
अमृतं ह्यागमाम्भोधे समुद्धृत्य ददामि वः ॥ ३० ॥

यत्र सर्वं जगदिदं दर्पणप्रतिबिम्बवत् ।
उत्पन्नं च स्थितं लीनं सर्वेषां भासते सदा ॥ ३१ ॥

यदेव जगदाकारं भासतेऽविदितात्मनाम् ।
यद्योगिनां निर्विकल्पं विभात्यात्मनि केवलम् ॥ ३२ ॥

गम्भीरस्तिमिताम्भोधिरिव निश्चलभासनम् ।
यत् सुभक्तिऐरतिशयप्रीत्या कैतववर्जनात् ॥ ३३ ॥

स्वभावस्य स्वरसतो ज्ञात्वापि स्वाद्वयं पदम् ।
विभेदभावमाहृत्य सेव्यतेऽत्यन्ततत्परैः ॥ ३४ ॥

अक्षान्तःकरणादीनां प्राणसूत्रं यदान्तरम् ।
यदभाने न किञ्चित् स्याद्यच्छास्त्रैरभिलक्षितम् ॥ ३५ ॥

परा सा प्रतिभा देव्याः परं रूपं ममेरितम् ।
ब्रह्माण्डानामनेकानां बहिरूर्ध्वे सुधाम्बुधौ ॥ ३६ ॥

मणिद्वीपे नीपवने चिन्तामणिसुमन्दिरे ।
पञ्चब्रह्ममये मञ्चे रूपं त्रैपुरसुन्दरम् ॥ ३७ ॥

अनादिमिथुनं यत्तदपराख्यमृषीश्वराः ।
तथा सदाशिवेशानौ विधिविष्णुत्रिलोचनाः ॥ ३८ ॥

गणेशस्कन्ददिक्पालाः शक्तयो गणदेवताः ।
यातुधानाः सुरा नागा यक्षकिम्पुरुषादयः ॥ ३९ ॥

पूज्याः सर्वा मम तनूरपराः परिकीर्तिताः ।
मम मायाविमूढास्तु मां न जानन्ति सर्वतः ॥ ४० ॥

पूजिताऽहमेव सर्वैर्ददामि फलमीहितम् ।
न मत्तोऽन्या काचिदस्ति पूज्या वा फलदायिनी ॥ ४१ ॥

यथा यो मां भावयति फलं मत् प्राप्नुयात्तथा ।
ममैश्वर्यमृषिगणा अपरिच्छिन्नमीरितम् ॥ ४२ ॥

अनपेक्ष्यैव यत्किञ्चिद् अहमद्वयीचिन्मयी ।
स्फुराम्यनन्तजगदाकारेण ऋषिपुङ्गवाः ॥ ४३ ॥

तथा स्फुरन्त्यपि सदा नात्येम्यद्वैतचिद्वपुः ।
एतन्मे मुख्यमैश्वर्यं दुर्घटार्थविभावनम् ॥ ४४ ॥

ममैश्वर्यं तु ऋषयः पश्यध्वं सूक्ष्मया दृशा ।
सर्वाश्रया सर्वगता चाप्यहं केवला स्थिता ॥ ४५ ॥

स्वमायया स्वमज्ञात्वा संसरन्ती चिरादहम् ।
भूयो विदित्वा स्वात्मानं गुरोः शिष्यपदं गता ॥ ४६ ॥

नित्यमुक्ता पुनर्मुक्ता भूयो भूयो भवाम्यहम् ।
निरुपादानसम्भारं सृजामि जगदीदृशम् ॥ ४७ ॥

इत्यादि सन्ति बहुधा ममैश्वर्यपरम्पराः ।
न तद् गणयितुं शक्यं सहस्रवदनेन वा ॥ ४८ ॥

श्रुण्वन्तु सङ्ग्रहाद् वक्ष्ये मदैश्वर्यस्य लेशतः ।
जगद्यात्रा विचित्रेयं सर्वतः सम्प्रसारिता ॥ ४९ ॥

मम ज्ञानं बहुविधं द्वैताद्वैतादिभेदतः ।
परापरविभेदाच्च बहुधा चापि तत्फलम् ॥ ५० ॥

द्वैतज्ञानं तु विविधं द्वितीयालम्बनं यतः ।
ध्यानमेव तु तत्प्रोक्तं स्वप्नराज्यादिसम्मितम् ॥ ५१ ॥

तच्चापि सफलं ज्ञेयं नियत्या नियतं यतः ।
अपरं चापि विविधं तत्र मुख्यं तदेव हि ॥ ५२ ॥

प्रोक्तमुख्यापरमयं ध्यानं मुख्य फलक्रमम् ।
अद्वैतविज्ञानमेव परविज्ञानमीरितम् ॥ ५३ ॥

मामनाराध्य परमां चिरं विद्यां तु श्रीमतीम् ।
कथं प्राप्येत परमां विद्यामद्वैतसंज्ञिकाम् ॥ ५४ ॥

तदेवाद्वैतविज्ञानं केवला या परा चितिः ।
तस्याः शुद्धदशामर्शो द्वैतामर्शाभिभावकः ॥ ५५ ॥

चित्तं यदा स्वमात्मानं केवलं ह्यभिसम्पतेत् ।
तदेवानुविभातं स्याद् विज्ञानमृषिसत्तमाः ॥ ५६ ॥

श्रुतितो युक्तितो वापि केवलात्मविभासनम् ।
देहाद्यात्मावभासस्य नाशनं ज्ञानमुच्यते ॥ ५७ ॥

तदेव भवति ज्ञानं यज्ज्ञानेन तु किञ्चन ।
भासमानमपि क्वापि न विभायात् कथञ्चन ॥ ५८ ॥

तदेवाद्वैतविज्ञानं यद्विज्ञानेन किञ्चन ।
अविज्ञातं नैव भवेत् कदाचिल्लेशतोऽपि च ॥ ५९ ॥

सर्वविज्ञानात्मरूपं यद्विज्ञानं भवेत् खलु ।
तदेवाद्वैतविज्ञानं परमं तापसोत्तमाः ॥ ६० ॥

जाते यादृशविज्ञाने संशयाश्चिरसम्भृताः ।
वायुनेवाभ्रजालानि विलीयन्ते परं हि तत् ॥ ६१ ॥

कामादिवासनाः सर्वा यस्मिन् सन्ति न किञ्चन ।
स्युर्भग्नदंष्ट्राहिरिव तद्विज्ञानं परं स्मृतम् ॥ ६२ ॥

विज्ञानस्य फलं सर्वदुःखानां विलयो भवेत् ।
अत्यन्ताभयसम्प्राप्तिर्मोक्ष इत्युच्यते फलम् ॥ ६३ ॥

भयं द्वितीयसङ्काल्पादद्वैते विदिते दृढम् ।
कुतः स्याद् द्वैतसङ्कल्पस्तमः सूर्योदये यथा ॥ ६४ ॥

ऋषयो न भयं क्वापि द्वैतसङ्कल्पवर्जने ।
अतो यत्फलान्यत् स्यात्तद्भयं सर्वथा भवेत् ॥ ६५ ॥

अन्तवत्तु द्वितीयं स्याद् भूयो लोके समीक्षणात् ।
सान्ते भयं सर्वथैवाभयं तस्मात् कुतो भवेत् ॥ ६६ ॥

संयोगो विप्रयोगान्तः सर्वथैव विभावितः ।
फलयोगोऽपि तस्माद्धि विनश्येदिति निश्चयः ॥ ६७ ॥

यावदन्यत् फलं प्रोक्तं भयं तावत्प्रकीर्तितम् ।
तदेवाभयरूपं तु फलं सर्वे प्रचक्षते ॥ ६८ ॥

यदात्मनोऽनन्यदेव फलं मोक्षः प्रकीर्तितः ।
ज्ञाता ज्ञानं ज्ञेयमपि फलं चैकं यदा भवेत् ॥ ६९ ॥

तदा हि परमो मोक्षः सर्वभीतिविवर्जितः ।
ज्ञानं विकल्पसङ्कल्पहानं मौढ्यविवर्जितम् ॥ ७० ॥

ज्ञातुः स्वच्छात्मरूपं तदादावनुपलक्षितम् ।
उपलक्षक एवातो गुरुः शास्त्रं च नेतरत् ॥ ७१ ॥

एतदेव हि विज्ञेयस्वरूपमभिधीयते ।
ज्ञातृज्ञानज्ञेयगतो यावद् भेदोऽवभासते ॥ ७२ ॥

तावज्ज्ञाता ज्ञानमपि ज्ञेयं वा न भवेत् क्वचित् ।
यदा भेदो विगलितो ज्ञात्रादीनां मिथः स्थितः ॥ ७३ ॥

तदा ज्ञात्रादिसम्पत्तिरेतदेव फलं स्मृतम् ।
ज्ञात्रादिफलपर्यन्तं न भेदो वस्तुतो भवेत् ॥ ७४ ॥

व्यवहारप्रसिद्ध्यर्थं भेदस्तत्र प्रकल्पितः ।
अतोऽपूर्वं लभ्यमत्र फलं नास्त्येव किञ्चन ॥ ७५ ॥

आत्मैव मायया ज्ञातृज्ञानज्ञेयफलात्मना ।
यावद्भाति भवेत्तावत् संसारो ह्यचलोपमः ॥ ७६ ॥

यदा कथञ्चिदेतत्तु भायाद् भेदविवर्जितम् ।
संसारो विलयं यायाच्छिन्नाभ्रमिव वायुना ॥ ७७ ॥

एवंविधमहामोक्षे तत्परत्वं हि साधनम् ।
तत्परत्वे तु सम्पूर्णे नान्यत् साधनमिष्यते ॥ ७८ ॥

अपूर्णे तत्परत्वे तु किं सहस्रसुसाधनैः ।
तस्मात्तात्पर्यमेव स्यान्मुख्यं मोक्षस्य साधनम् ॥ ७९ ॥

तात्पर्यं सर्वथैतत्तु साधयामीति संस्थितिः ।
यस्तात्पर्येण संयुक्तः सर्वथा मुक्त एव सः ॥ ८० ॥

दिनैर्मासैर्वत्सरैर्वा मुक्तः स्याद्वाऽन्यजन्मनि ।
बुद्धिनैर्मल्यभेदेन चिरशीघ्रव्यवस्थितिः ॥ ८१ ॥

बुद्धौ तु बहवो दोषाः सन्ति सर्वार्थनाशनाः ।
यैर्जनाः सततं त्वेवं पच्यन्ते घोरसंसृतौ ॥ ८२ ॥

तत्राद्यः स्यादनाश्वासो द्वितीयः कामवासना ।
तृतीयो जाड्यता प्रोक्ता त्रिधैवं दोषसङ्ग्रहः ॥ ८३ ॥

द्विविधः स्यादनाश्वासः संशयश्च विपर्ययः ।
मोक्षोऽस्ति नास्ति वेत्याद्यः संशयः समुदाहृतः ॥ ८४ ॥

नास्त्येव मोक्ष इत्याद्यो भवेदत्र विपर्ययः ।
एतद्द्वयं तु तात्पर्ये मुख्यं स्यात् प्रतिबन्धकम् ॥ ८५ ॥

विपरीत निश्चयेन नश्येदेतद् द्वयं क्रमात् ।
अत्रोपायो मुख्यतमो मूलच्छेदो न चापरः ॥ ८६ ॥

अनाश्वासस्य मूलं तु विरुद्धतर्कचिन्तनम् ।
तत्परित्यज्य सत्तर्कावर्तनस्य प्रसाधने ॥ ८७ ॥

विपरीतो निश्चयः स्याद् मूलच्छेदनपूर्वकः ।
ततः श्रद्धासमुदयादनाश्वासः प्रणश्यति ॥ ८८ ॥

कामादिवासना बुद्धेः श्रवणे प्रतिबन्धिका ।
कामादिवासनाविष्टा बुद्धिर्नैव प्रवर्तते ॥ ८९ ॥

लोकेऽपि कामी काम्यस्य सदा ध्यानैकतत्परः ।
पुरःस्थितं न पश्येच्च श्रोत्रोक्तं श्रुणुयान्न च ॥ ९० ॥

कामादिवासितस्यैवं श्रुतं चाश्रुतसम्मितम् ।
कामादिवासनां तस्माज्जयेद् वैराग्यसम्पदा ॥ ९१ ॥

सन्ति कामक्रोधमुखा वासनास्तु सहस्रशः ।
तत्र कामो मूलभूतस्तन्नाशे नहि किञ्चन ॥ ९२ ॥

ततो वैराग्यसंयोगाद् नाशयेत् कामवासनाम् ।
आशा हि कामः सम्प्रोक्त एतन्मे स्यादिति स्थिता ॥ ९३ ॥

शक्येषु स्थूलभूता सा सूक्ष्माऽशक्येषु संस्थिता ।
दृढवैराग्ययोगेन सर्वां तां,प्रविनाशयेत् ॥ ९४ ॥

तत्र मूलं काम्यदोषपरामर्शः प्रतिक्षणम् ।
वैमुख्यं विषयेभ्यश्च वासना नाशयेदिति ॥ ९५ ॥

यस्तृतीयो बुद्धिदोषो जाड्यरूपो व्यवस्थितः ।
असाध्यः सोऽभ्यासमुखैः सर्वथा ऋषिसत्तमाः ॥ ९६ ॥

येन तात्पर्यतश्चापि श्रुतं बुद्धिमनारुहेत् ।
तज्जाड्यं हि महान् दोषः पुरुषार्थविनाशनः ॥ ९७ ॥

तत्रात्मदेवतासेवामृते नान्यद्धि कारणम् ।
सेवायास्तारतम्येन जाड्यं तस्य हराम्यहम् ॥ ९८ ॥

जाड्याल्पानल्पभावेन सद्यो वा परजन्मनि ।
भवेत्तस्य फलप्राप्तिर्जाड्यसंयुक्तचेतसः ॥ ९९ ॥

सर्वसाधनसम्पत्तिर्ममैव प्रणिधानतः ।
उपयाति च यो भक्त्या सर्वदा मामकैतवात् ॥ १०० ॥

स साधनप्रत्यनीकं विधूयाशु कृती भवेत् ।
यस्तु मामीश्वरीं सर्वबुद्धिप्रसरकारिणीम् ॥ १०१ ॥

अनादृत्य साधनैकपरः स्याद् मूढभावतः ।
पदे पदे विहन्येत फलं प्राप्येत वा न वा ॥ १०२ ॥

तस्मात्तु ऋषयो मुख्यं तात्पर्यं साधनं भवेत् ।
एवं तात्पर्यवानेव साधकः परमः स्मृतः ॥ १०३ ॥

तत्र मद्भक्तियुक्तस्तु साधकः सर्वपूजितः ।
सिद्धिरात्मव्यवसितिर्देहानात्मत्वभावना ॥ १०४ ॥

आत्मत्वभावनं नूनं शरीरादिषु संस्थितम् ।
तदभावनमात्रं तु सिद्धिर्मौढ्यविवर्जितम् ॥ १०५ ॥

आत्मा व्यवसितः सर्वैरपि नो केवलात्मना ।
अत एव तु सम्प्राप्ता महानर्थपरम्परा ॥ १०६ ॥

तस्मात् केवलचिन्मात्रं यद् देहाद्यवभासकम् ।
तन्मात्रात्मव्यवसितिः सर्वसंशयनाशिनी ॥ १०७ ॥

सिद्धिरित्युच्यते प्राज्ञैर्नातः सिद्धिरनन्तरा ।
सिद्धयः खेचरत्वाद्या अणिमाद्यास्तथैव च ॥ १०८ ॥

आत्मविज्ञानसिद्धेस्तु कलां नार्हन्ति षोडशीम् ।
ताः सर्वास्तु परिच्छिन्नाः सिद्धयो देशकालतः ॥ १०९ ॥

इयं स्यादपरिच्छिन्नाः स्वात्मविद्या शिवात्मिका ।
स्वात्मविद्यासाधनेषु ताः सर्वाः सुप्रतिष्ठिताः ॥ ११० ॥

आत्मविद्याविधावेतास्त्वन्तरायप्रयोजकाः ।
किं ताभिरिन्द्रजालात्मसिद्धितुल्याभिरीहितम् ॥ १११ ॥

यस्य साक्षाद् ब्रह्मपदमपि स्यात्तृणसम्मितम् ।
कियन्त्येताः सिद्धयो वै कालक्षपणहेतवः ॥ ११२ ॥

तस्मात् सिद्धिर्नेतरा स्यादात्मविज्ञानसिद्धितः ।
ययाऽत्यन्तशोकनाशो भवेदानन्दसान्द्रता ॥ ११३ ॥

सैव सिद्धिर्नेतरा तु मृत्युग्रासविमोचिनी ।
इयमात्मज्ञानसिद्धिर्विविधाभ्यासभेदतः ॥ ११४ ॥

बुद्धिनैर्मल्यभेदाच्च परिपाकविभेदतः ।
संक्षेपतस्तु त्रिविधा चोत्तमा मध्यमाऽधमा ॥ ११५ ॥

लोके द्विजानामृषयः पठितश्रुतिसम्मिता ।
मेधया च महाभ्यासाद् व्यापारशतसङ्कुला ॥ ११६ ॥

अप्यस्खलितवर्णा या पठिता श्रुतिरुत्तमा ।
समाहितस्य व्यापारेऽसमाहितस्य चान्यदा ॥ ११७ ॥

पूर्ववद्याऽप्यस्खलिता पठिता मध्यमा श्रुतिः ।
या सदा ह्यनुसन्धानयोगादेव भवेत्तथा ॥ ११८ ॥

पठिता श्रुतिरत्यन्तास्खलिता त्वधमा हि सा ।
एवमेवात्मविज्ञानसिद्धिरुक्ता त्रिधर्षयः ॥ ११९ ॥

या महाव्यवहारेषु प्रतिसन्धानवर्जने ।
अन्यदा तद्वर्जने वा सर्वदा प्रतिसन्धितः ॥ १२० ॥

अन्यूनाधिकभावा स्यात्सोत्तमा मध्यमाऽधमा ।
अत्रोत्तमैव संसिद्धेः परा काष्ठा निरूपिता ॥ १२१ ॥

स्वप्नादिष्वप्यवस्थासु यदा स्यात्परमा स्थितिः ।
विचारक्षणतुल्येव सिद्धिः सा परमोत्तमा ॥ १२२ ॥

सर्वत्र व्यवहारेषु यत्नात् संस्कारबोधतः ।
यदा प्रवृत्तिः सिद्धेः सा परा काष्ठा समीरिता ॥ १२३ ॥

अयत्नेनैव परमे स्थितिः संवेदनात्मनि ।
अव्याहता यदा सिद्धिस्तदा काष्ठां समागता ॥ १२४ ॥

व्यवहारपरो भावान् पश्यन्नपि न पश्यति ।
द्वैतं तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ १२५ ॥

जागरादौ व्यवहरन्नपि निद्रितवद् यदा ।
स्थितिस्तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ १२६ ॥

एवं सिद्धिमनुप्राप्तः सिद्धेषूत्तम उच्यते ।
व्यवहारपरो नित्यं न समाधिं विमुञ्चति ॥ १२७ ॥

कदाचिदपि मेधावी स सिद्धेषूत्तमो मतः ।
ज्ञानिनां विविधानां च स्थितिं जानाति सर्वदा ॥ १२८ ॥

स्वानुभूत्या स्वान्तरेव स सिद्धेषूत्तमो मतः ।
संशयो वापि कामो वा यस्य नास्त्येव लेशतः ॥ १२९ ॥

निर्भयो व्यवहारेषु स सिद्धेषूत्तमो मतः ।
सर्व सुखञ्च दुःखञ्च व्यवहारञ्च जागतम् ॥ १३० ॥

स्वात्मन्येवाभिजनाति स सिद्धेषूत्तमो मतः ।
अत्यन्तं बद्धमात्मानं मुक्तं चापि प्रपश्यति ॥ १३१ ॥

यः स्वात्मनि तु सर्वात्मा स सिद्धेषूत्तमो मतः ।
यः पश्यन् बन्धजालानि सर्वदा स्वात्मनि स्फुटम् ॥ १३२ ॥

मोक्षं नापेक्षते क्वापि स सिद्धेषूत्तमो मतः ।
सिद्धोत्तमोऽहमेवेह न भेदस्त्वावयोः क्वचित् ॥ १३३ ॥

एतद्वा ऋषयः प्रोक्तं सुस्पष्टमनुयुक्तया ।
एतन्मयोक्तं विज्ञाय न क्वचित् परिमुह्यति ॥ १३४ ॥

इत्युक्त्वा सा परा विद्या विरराम भृगुद्वह ।
श्रुत्वैतदृषयः सर्व सन्देहमपहाय च ॥ १३५ ॥

नत्वा शिवादीन् लोकेशान् जग्मुः स्वं स्वं निवेशनम् ।
विद्यागीता मयैषा ते प्रोक्ता पापौघनाशिनी ॥ १३६ ॥

श्रुता विचारिता सम्यक् स्वात्मसाम्राज्यदायिनी ।
विद्यागीताऽत्युत्तमेयं साक्षाद्विद्यानिरूपिता ॥ १३७ ॥

पठतां प्रत्यहं प्रीता ज्ञानं दिशति सा स्वयम् ।
संसारतिमिराम्भोधौ मज्जतां तरणिर्भवेत् ॥ १३८ ॥

इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे
विद्यागीतानाम विंशतितमोऽध्यायः ॥

Also Read:

Vidya Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vidya Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top