Templesinindiainfo

Best Spiritual Website

1000 Names of Nateshwara | Sahasranama Stotram Uttara Pithika Lyrics in Hindi

Nateshvara Sahasranama Stotrasya Uttarapithika in Hindi:

॥ नटेश्वरसहस्रनामस्तोत्रस्य उत्तरपीठिका ॥

श्रीगणेशाय नमः ।

श्रीचिदम्बरनटेश्वर सहस्रनामस्तोत्रस्य उत्तरपीठिका ॥

इति ते कथितं देवि नटराजस्य सुन्दरम् ।
नाम्नां सहस्रमत्यन्तं गोप्यं नेदं प्रकाशयेत् ॥ १ ॥

सर्वसिद्धिकरं पुण्यं सर्वविद्याविवर्धनम् ।
सम्पद्प्रदमिदं नृणां सर्वापद्घ्नमघापहम् ॥ २ ॥

अभिचार प्रयोगादि महाकृत्य निवारणम् ।
अपस्मार महाव्याधि ज्वरकुष्ठादि नाशनम् ॥ ३ ॥

अत्युत्पाद भयक्षोभ क्षुद्रशान्तिद कारणम् ।
कूश्माण्ड रुद्र वेताल शाकिन्यादि भयापहम् ॥ ४ ॥

स्मरणादेव जन्तूनां ब्रह्महत्यादि नाशनम् ।
अस्मात्परतरं स्तोत्रं नास्ति लोकत्रयेऽम्बिके ॥ ५ ॥

एतन्नाम सहस्रस्य पठनात् सकृदेव हि ।
महापातकयुक्तोऽपि शिवसायुज्यमाप्नुयात् ॥ ६ ॥

प्रयोगलक्षणं वक्ष्ये श‍ृणु शैलसुतेऽधुना ।
पज्चम्यामथवाऽष्टम्यां दशम्यां वा विशेषतः ॥ ७ ॥

स्नात्वा शुभासने स्थित्वा ध्यायन् श्रीनटनायकम् ।
प्रजपेत्द्वादशावृत्या सर्वान् कामान् लभेन्नर। ॥ ८ ॥

आर्द्रायां प्रातरारभ्य नटराजस्य सन्निधौ ।
आसायं प्रजपेदेतत् एवं संवत्सरत्रयम् ॥ ९ ॥

तस्य भक्तस्य देवेशो नटनं दर्शयेत्प्रभुः ।
बिल्ववृक्षस्य निकटे त्रिवारं प्रजपेदिदम् ॥ १० ॥

षड्भिर्मासैर्महैश्वर्यं लभते न चिरान्नरः ।
अनेन स्तोत्रराजेन मन्त्रितं भस्मधारयेत् ॥ ११ ॥

भस्मावलोकनान्मृत्युर्वश्यो भवति तत्क्षणात् ।
सलिलं प्राशयेद्धीमान् मन्त्रेणानेन मन्त्रितम् ॥ १२ ॥

सर्वविद्यामयो भूत्वा व्याकरोत्यश्रुतादिकम् ।
नाटकादि महाग्रन्थं कुरुते नात्र संशयः ॥ १३ ॥

चतुर्थ्यन्तं समुच्चार्यनामैकैकं ततो जपेत् ।
पञ्चाक्षरं तथा नाम्नां सहस्रं प्रजपेत्क्रमात् ॥ १४ ॥

एवं त्रिवारं मासानामष्टाविंशतिके गते ।
निग्रहानुग्रहौ कर्तुं शक्तिरस्योपजायते ॥ १५ ॥

नाम्नामादौ तथान्ते च पञ्चाक्षरमहामनुम् ।
जप्त्वा मध्यस्थितं नाम निर्ममोन्तं सदा सकृत् ॥ १६ ॥

चतुर्थ्यन्तं जपेद्विद्वान् त्रिवर्षं च त्रिमासकैः ।
अणिमादि महासिद्धि रचिरात् प्राप्नुयाद्ध्रुवम् ॥ १७ ॥

सर्वेष्वपि च लोकेषु सिद्धः सन्विचरेन्नरः ।
लक्ष्मीबीज द्वयक्षिप्तमाद्यं तन्नाम यः शिवे ॥ १८ ॥

वाञ्छितां श्रियमाप्नोति सत्यमुक्तं वरानने ।
हल्लेखामन्त्र संयुक्तं पूर्ववत् संयुतं जपेत् ॥ १९ ॥

योगसिद्धिर्भवेत्तस्य त्रिचतुः पञ्चवत्सरैः ।
किमत्र बहुनोक्तेन याया सिद्धिरभीप्सिता ॥ २० ॥

तां तां सिद्धिं लभेन्मर्त्यः सत्यमेव मयोदितम् ।
कण्ठदघ्नजलेस्थित्वा त्रिवारं प्रजपेदिदम् ॥ २१ ॥

रिपूनुच्वाटयेच्छीघ्रमेकेनैव दिनेन सः ।
दक्षिणाभिमुखोभूत्वा धृत्वाऽऽर्द्रवसनं शुचिः ॥ २२ ॥

शत्रुनामसमुच्वार्य मारयेतिपदाङ्कितम् ।
पठेदिदं स्तवं क्रोधात् सप्तकृत्वस्त्रिभिर्दिनैः ॥ २३ ॥

स रिपुर्मृत्युगेहस्य ध्रुवमातिथ्यभाग्भवेत् ।
हरिद्रया नटाधीशं कृत्वा प्राणान् प्रतिष्ठिपेत् ॥ २४ ॥

पीतपुष्पैः समभ्यर्च्य स्तोत्रमेतज्जपेन्नरः ।
स्तम्भयेत्सकलान्लोकान् किमिहक्षुद्रमानुषान् ॥ २५ ॥

आकर्षणाय सर्वेषामुत्तराभिमुखोजपेत् ।
वाञ्छितायोषितस्सर्वास्तथा लोकान्तरस्थिताः ॥ २६ ॥

यक्षाश्च किन्नराश्चापि राजानोवशमाप्नुयुः ।
कुम्भस्थितं जलंस्पृष्ट्वा त्रिवारं प्रजपेदिदम् ॥ २७ ॥

महाग्रहगणग्रस्तान् अभिषेकञ्चकारयेत् ।
जलस्पर्शनमात्रेणमुच्यते च ग्रहादिभिः ॥ २८ ॥

किमत्र बहुनोक्तेन सिद्धयन्त्यखिलसिद्धयः ।
साक्षान्नटेश्वरो देवो वश्यो भवति तत्क्षणात् ॥ २९ ॥

(शैलजे ॥ )
अस्मात्परतरासिद्धिः कावास्तिकथयप्रिये ।
निष्कामस्याचिरादेव ब्रह्मज्ञानमवाप्यते ॥ ३० ॥

तस्मात्सर्वप्रयत्नेन यतिभिर्ब्रह्मचारिभिः ।
वनस्थैश्च गृहस्थैश्च सर्वैर्जप्यं प्रयत्नतः ॥ ३१ ॥

नित्यकर्मवदेवेदं स्तोत्रं जप्यं सदादरात् ।
ब्रह्मादयोऽपि यन्नाम पाठस्यैव प्रसादतः ॥ ३२ ॥

सृष्टित्वित्यन्तकर्तारो जगतां चिरजीविनः ।
यदिदं मुनयः सर्वे हयग्रीवादयः पुरा ॥ ३३ ॥

पठित्वा परमां सिद्धिं पुनरावृत्तिवर्जिताम् ।
प्रापिरे तदिदं स्तोत्रं पठत्वमपि शैलजे ॥ ३४ ॥

अस्मात् परतरं वेद्यं नास्ति सत्यं मयोदितम् ।

॥ इत्युत्तर पीठिका ॥

इत्याकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे
पञ्चविंशतिमूर्तिप्रकरणे तत्वातीत श्री चिदम्बर
नटेश्वर सहस्रनामस्तोत्रमालामहामनोपदशो
नाम एकोनषष्टितमोऽध्यायः
॥ ॐ शिवमस्तु ॥

Also Read:

1000 Names of Nateshwara | Sahasranama Stotram Uttara PIthika in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Nateshwara | Sahasranama Stotram Uttara Pithika Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top