Templesinindiainfo

Best Spiritual Website

1000 Names of Nrisimha | Narasimha Sahasranama Stotram Lyrics in Hindi

Narasimhasahasranama Stotram Lyrics in Hindi:

॥ लक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥
दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रम्

॥ स्तोत्रस्य पूर्वपीठिका ॥

ॐ मार्कण्डेय उवाच –
एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १ ॥

दैत्यकोटिहतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २ ॥

भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३ ॥

द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येन्द्रसाहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ॥ ४ ॥

श्रेयः कस्य भवेदत्र इति चिन्तापराभवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येन्द्रप्रहितान्यपि ॥ ५ ॥

विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ ६ ॥

आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादिबहून्यस्त्राण्यभक्षयत कोपनः ॥ ७ ॥

सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्यभैरवः ।
ततः खट्गधरं दैत्यं जग्राह नरकेसरी ॥ ८ ॥

हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चान्त्रमालानि नखैर्वज्रसमप्रभैः ॥ ९ ॥

मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ १० ॥

देवदुन्दुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंह मतीवोग्रं विकीर्णवदनं भृशम् ॥ ११ ॥

लेलिहानं च गर्जन्तं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ १२ ॥

महासिंहं महारूपं दृष्ट्वा सङ्क्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ १३ ॥

आगन्तुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ १४ ॥

॥ अथ श्रीनृसिंहसहस्रनामस्तोत्रम् ॥

ॐ नमः श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रमहामन्त्रस्य
ब्रह्मा ऋषिः श्रीलक्ष्मीनृसिंहोदेवता । अनुष्टुप्छन्दः
श्रीनृसिंहःपरमात्मा बीजं लक्ष्मीर्मायाशक्तिः जीवोबीजं
बुद्धिः शक्तिः उदानवायुः बीजं सरस्वती शक्तिः व्यञ्जनानि
बीजानि स्वराः शक्तयः ॐ क्ष्रौं ह्रीं इति बीजानि ॐ श्रीं
अं आं इति शक्तयः विकीर्णनखदंष्ट्रायुधायेति कीलकं
अकारादिति बोधकं श्रीलक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे
श्रीलक्ष्मीनृसिंहसहस्रनामस्तोत्रमन्त्रजपे विनियोगः –

ब्रह्मोवाच –
ॐ श्रीलक्ष्मीनृसिंहाय नमः । अङ्गुष्ठाभ्यां नमः
ॐ वज्रनखाय नमः । तर्जनीभ्यां नमः
ॐ महारुद्राय नमः । मध्यमाभ्यां नमः
ॐ सर्वतोमुखाय नमः । अनामिकाभ्यां नमः
ॐ विकटास्याय नमः । कनिष्ठिकाभ्यां नमः
ॐ वीराय नमः । करतलकरपृष्ठाभ्यां नमः
एवं हृदयादिन्यासः – इति दिग्बन्धः
ॐ ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ नैऋतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।

अथ ध्यानम् –
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकस्नाभयकरान्बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १ ॥

उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २ ॥

ब्रह्मोवाच –
ॐ ह्रीं श्रीं ऐं क्ष्रौं

ब्रह्मोवाच –
ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥

वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥

वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥

परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥

पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥

पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥

सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७ ॥

भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥

नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥

शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १० ॥

निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११ ॥

निमेषाय निबन्धाय निमेषगमनाय च ।
निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२ ॥

निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥

सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४ ॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥

कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥

प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्वलाय च ॥ १८ ॥

ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९ ॥

कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ २० ॥

अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥

सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ २२ ॥

अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोराघोरतराय च ॥ २३ ॥

नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥ २४ ॥

अमोघाय गुणौघाय अनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५ ॥

मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६ ॥

व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७ ॥

विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विश्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९ ॥

विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥

वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥

चिदम्बराय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥ ३२ ॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तडित्प्रभाय तार्याय तरुणाय तरस्विने ॥ ३३ ॥

तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३४ ॥

तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३५ ॥

शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३६ ॥

नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३७ ॥

नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ ३८ ॥

सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ३९ ॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४० ॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४१ ॥

कलाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४२ ॥

शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४३ ॥

भूतपालाय भूताय भूतवासाय भूतिने ।
भूतबेतालघाताय भूताधिपतये नमः ॥ ४४ ॥

भूतग्रहविनाशाय भूतसंयमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४५ ॥

सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय सर्वाय सर्वार्तिहरये नमः ॥ ४६ ॥

सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४७ ॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४८ ॥

सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।
पिङ्गाक्षायैकश‍ृङ्गाय द्विश‍ृङ्गाय मरीचये ॥ ४९ ॥

बहुश‍ृङ्गाय लिङ्गाय महाश‍ृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५० ॥

महादेवाय देवाय मातुलिङ्गधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५१ ॥

अनन्तानन्तरूपाय मायिने जलशायिने ।
महोदराय मन्दाय मददाय मदाय च ॥ ५२ ॥

मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवार्याय ते नमः ॥ ५३ ॥

चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ ५४ ॥

महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥ ५५ ॥

महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ ५६ ॥

विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५७ ॥

अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५८ ॥

कण्ठीरवाय लुण्ठाय निःशठाय हठाय च ।
सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ ५९ ॥

ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६० ॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६१ ॥

अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥ ६२ ॥

अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६३ ॥

नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय सङ्घाय वैद्युताय नमो नमः ॥ ६४ ॥

अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवाम्पते ॥ ६५ ॥

गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६६ ॥

पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६७ ॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६८ ॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ६९ ॥

ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७० ॥

परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तदाऽश्वशिरसे नमः ॥ ७१ ॥

अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७२ ॥

लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७३ ॥

लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७४ ॥

पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥ ७५ ॥

सर्वतः पाणिपादोरं सर्वतोऽक्षि शिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७६ ॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७७ ॥

महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७८ ॥

आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥ ७९ ॥

नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण वीरसिंह ।
नमोऽस्तु नारायण क्रूरसिंह नमोऽस्तु नारायण दिव्यसिंह ॥ ८० ॥

नमोऽस्तु नारायण व्याघ्रसिंह नमोऽस्तु नारायण पुच्छसिंह ।
नमोऽस्तु नारायण पूर्णसिंह नमोऽस्तु नारायण रौद्रसिंह ॥ ८१ ॥

नमो नमो भीषणभद्रसिंह नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह नमो नमो निर्मलचित्रसिंह ॥ ८२ ॥

नमो नमो निर्जितकालसिंह नमो नमः कल्पितकल्पसिंह ।
नमो नमो कामदकामसिंह नमो नमस्ते भुवनैकसिंह ॥ ८३ ॥

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ८४ ॥

अमी हित्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा मुनयः सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८५ ॥

रुद्रादित्यावसवो ये च साध्या विश्वेदेवा मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥ ८६ ॥

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८७ ॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्रजिष्णुर्जिष्णुरेव च ।
पृथिवीमन्तरीक्षं त्वं पर्वतारण्यमेव च ॥ ८८ ॥

कलाकाष्ठा विलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥ ८९ ॥

युगादिर्युगभेदस्त्वं संयुगो युगसन्धयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९० ॥

करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९१ ॥

प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ९२ ॥

ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९३ ॥

हन्तकारो निराकारो वेगकारश्च शङ्करः ।
अकारादिहकारान्त ओङ्कारो लोककारकः ॥ ९४ ॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९५ ॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९६ ॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९७ ॥

अनादिस्त्वमनन्तस्त्वमभूतोभूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९८ ॥

त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ ९९ ॥

नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १०० ॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ १०१ ॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०२ ॥

धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०३ ॥

दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०४ ॥

सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्ष मालिने ॥ १०५ ॥

असिधर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ १०६ ॥

सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०७ ॥

कवये पद्मगर्भाय भूतगर्भघृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०८ ॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०९ ॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ ११० ॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यश‍ृङ्गाय निःश‍ृङ्गाय श‍ृङ्गिणे ॥ १११ ॥

भैरवाय सुकेशाय भीषणायान्त्रिमालिने ।
चण्डाय रुण्डमालाय नमो दण्डधराय च ॥ ११२ ॥

अखण्डतत्त्वरूपाय कमण्डलुधराय च ।
नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११३ ॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११४ ॥

नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११५ ॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥ ११६ ॥

कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११७ ॥

नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११८ ॥

नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ ११९ ॥

सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२० ॥

सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय च ते नमः ॥ १२१ ॥

श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ १२२ ॥

शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ १२३ ॥

सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२४ ॥

सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
साङ्ख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२५ ॥

नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२६ ॥

नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ १२७ ॥

नागेश्वराय नागाय नमिताय नराय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२८ ॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय नमो नमः ॥ १२९ ॥

विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १३० ॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३१ ॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३२ ॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३३ ॥

शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३४ ॥

योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३५ ॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३६ ॥

रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३७ ॥

दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३८ ॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १३९ ॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय अरक्तरसनाय च ॥ १४० ॥

पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ १४१ ॥

ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४२ ॥

गदापद्मधरायैव पञ्चबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥ १४३ ॥

नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४४ ॥

नमः सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४५ ॥

कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥ १४६ ॥

मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्नाय नमस्ते जातवेदसे ॥ १४७ ॥

जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥ १४८ ॥

जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ १४९ ॥

जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५० ॥

इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५१ ॥

ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५२ ॥

व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५३ ॥

सुकुमाराय रामाय शिशुचाराय ते नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५४ ॥

ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५५ ॥

चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५६ ॥

धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५७ ॥

प्रबोधाय सुबोधाय नमो बुधिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ १५८ ॥

प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १५९ ॥

श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६० ॥

उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६१ ॥

दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ १६२ ॥

उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६३ ॥

नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६४ ॥

नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ १६५ ॥

अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६६ ॥

धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६७ ॥

नमो नमस्ते दयासिंहरूप नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६८ ॥

उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १६९ ॥

अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शङ्किताः सर्वादेवतास्त्वामुपागताः ॥ १७० ॥

एतान्पश्य महेशानं व्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७१ ॥

सर्वान् ऋषिगणान्सप्तमातृगौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगाणान्यपि ॥ १७२ ॥

प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७३ ॥

इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७४ ॥

मार्कण्डेय उवाच-
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७५ ॥

अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान्सुरोत्तमान् ।
संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७६ ॥

श्रीनृसिंह उवाच-
भो भो देववराः सर्वे पितामहपुरोगमाः ।
श‍ृणुध्वं मम वाक्यं च भवंतु विगतज्वराः ॥ १७७ ॥

यद्धितं भवतां नूनं तत्करिष्यामि सांप्रतम् ।
एवं नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७८ ॥

श‍ृणोति वा श्रावयति पूजां ते भक्तिसंयुतः ।
सर्वान्कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७९ ॥

यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम ॥ १८० ॥।

सर्व पूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८१ ॥

सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८२ ॥

भूतभेतालकूष्माण्ड पिशाचव्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८३ ॥

दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च सन्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिकाः ॥ १८४ ॥

निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ १८५ ॥

ऐकाहिकं द्व्याहिकं चातुर्धिकमधज्वरम् ।
आधये व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८६ ॥

शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात्सुराः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८७ ॥

जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषा अप्यमृता यान्ति नृसिंहस्मरणात्सुराः ॥ १८८ ॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८९ ॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९० ॥

सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९१ ॥

जलसन्तरणे चैव पर्वतारण्यमेव च ।
वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ १९२ ॥

कलिप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९३ ॥

मुच्यते सर्वपापेभ्यः कृतघ्न स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृ विनिन्दकः ॥ १९४ ॥

असत्यस्तु तेथा यज्ञ निन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंह तु मुच्यते सर्वकिल्बषैः ॥ १९५ ॥

बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९६ ॥

गच्छन् तिष्ठन् श्वपन्भुञ्जन् जाग्रन्नपि हसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९७ ॥

पुमान्नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।
नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ १९८ ॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी भवेद्विजः ॥ १९९ ॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २०० ॥

मार्कण्डेय उवाच –
इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्ग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०१ ॥

श्रीशैलस्य प्रदासे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ २०२ ॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्यात्मलोलं ययौ स्वयम् ॥ २०३ ॥

हिरण्यकशिपोर्भीत्या प्रपलाय शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥ २०४ ॥

नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालश्च सुसंप्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०५ ॥

धर्मे मतिः समस्तानां प्रजानामभवत्तदा ।
एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०६ ॥

पुत्रानध्यापयामास सनकादीन्महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०७ ॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०८ ॥

यस्य स्तोत्रस्य पाठा द्विशुद्ध मनसोभवन् ।
सनत्कुमारः सम्प्राप्तौ भारद्वाजा महामतिः ॥ २०९ ॥

तस्मादाङ्गिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः ।
जैगीषव्याय सप्राह सोऽब्रवीच्छ्यवनाय च ॥ २१० ॥

तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः ।
क्रतुञ्जयाय स प्राह जतुकर्ण्याय संयमी ॥ २११ ॥

विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ।
क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥ २१२ ॥

सिंह तेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः ।
उपदिष्टोस्मि तेनाहमिदं नामसहस्रकम् ॥ २१३ ॥

तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि ।
मया च कथितं नारसिंहस्तोत्रमिदं तव ॥ २१४ ॥

त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ।
सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ॥ २१५ ॥

पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ।
प्राप्यसे महतीं सिद्धिं सर्वान्कामान्वरोत्तमान् ॥ २१६ ॥

अयमेव परोधर्मस्त्विदमेव परं तपः ।
इदमेव परं ज्ञानमिदमेव महद्व्रतम् ॥ २१७ ॥

अयमेव सदाचारस्त्वयमेव सदा मखः ।
इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥ २१८ ॥

नृसिंहमन्त्रादन्यच्च वैदिकं तु न विद्यते ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ २१९ ॥

कथितं ते नृसिंहस्य चरितं पापनाशनम् ।
सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥ २२० ॥

सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२१ ॥

इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे सर्वार्थ साधनं दिव्यं
श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Nrisimha / Narasimha :

1000 Names of Nrisimha | Narasimha Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Nrisimha | Narasimha Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top