Templesinindiainfo

Best Spiritual Website

1000 Names of Shiva from Shivapurana Lyrics in Hindi

Shiva Sahasranamastotram from Shivapurana in Hindi:

॥ शिवसहस्रनामस्तोत्रं शिवपुराणान्तर्गतम् ॥
सूत उवाच ।
श्रूयतां भो ऋषिश्रेष्ठ येन तुष्टो महेश्वरः ।
तदहं कथयाम्यद्य शिवं नामसहस्रकम् ॥ १ ॥

श्री विष्णुरुवाच ।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।
अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥ २ ॥

चन्द्रापीडश्चन्द्रमौलिर्विश्वं विश्वम्भरेश्वरः ।
वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ ३ ॥

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ ४ ॥

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।
वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५ ॥

विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।
सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६ ॥

ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।
तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥ पाठभेद ब्रह्माण्डहृज्जटी
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । पाठभेद प्रणतात्मकः
उन्नद्ध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८ ॥ पाठभेद उन्नध्रः
दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः ।
अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९ ॥

कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः ।
समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधीः ॥ १० ॥

विशालाक्षो मृगव्याधः सुरेशस्सूर्यतापनः ।
धर्मधाम क्षमाक्षेत्रं भगवान् भगनेत्रभित् ॥ ११ ॥ पाठभेद धर्माध्यक्षः
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परन्तपः ।
दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ १२ ॥

श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।
लोककर्ता मृगपतिर्महाकर्ता महौषधिः ॥ १३ ॥

सोमपोमृतपः सौम्यो महातेजा महाद्युतिः ।
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १४ ॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १५ ॥

अजातशत्रुरालोकसम्भाव्यो हव्यवाहनः ।
लोककारो वेदकरः सूत्रकारः सनातनः ॥ १६ ॥

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत् सुधीः ॥ १७ ॥

धातृधामा धामकरः सर्वगः सर्वगोचरः ।
ब्रह्मसृग्विश्वसृक् सर्गः कर्णिकारप्रियः कविः ॥ १८ ॥

शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।
गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९ ॥

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः ॥ २० ॥

कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ २१ ॥

समावर्तोऽनिवृत्तात्मा धर्मपुञ्जः सदाशिवः ।
अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः ॥ २२ ॥

दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ २३ ॥

शुभाङ्गो लोकसारङ्गो जगदीशो जनार्दनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४ ॥ पाठभेद भस्मशुद्धिकरोऽभीरु
असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।
हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५ ॥

महाह्रदो महागर्तः सिद्धो बृन्दारवन्दितः ।
व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः ॥ २६ ॥

अमृतोमृतपः श्रीमान् पाञ्चजन्यः प्रभञ्जनः । पाठभेद पञ्चजन्यः
पञ्चविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७ ॥

सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ।
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८ ॥

आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः । पाठभेद श्रमणः
प्रमाणभूतो दुर्ज्ञेयः सुवर्णो वायुवाहनः ॥ २९ ॥

धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः ।
सत्यः सत्यपरोऽदीनो धर्माङ्गो धर्मशासनः ॥ ३० ॥

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिचार्यो महामायो विश्वकर्मविशारदः ॥ ३१ ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ३२ ॥

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तरस्वी तारको धीमान् प्रधानः प्रभुरव्ययः ॥ ३३ ॥

लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः । पाठभेद लोकपालोऽन्तरात्मा च
वेदशास्त्रार्थतत्वज्ञो नियमो नियताश्रयः ॥ ३४ ॥

चन्द्रः सूर्यः शनिः केतुर्वराङ्गो विद्रुमच्छविः ।
भक्तिवश्यः परं ब्रह्मा मृगबाणार्पणोऽनघः ॥ ३५ ॥ पाठभेद परब्रह्म
अद्रिरद्र्यालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्मालयस्तुष्टो मङ्गल्यो मङ्गलावृतः ॥ ३६ ॥

महातपा दीर्घतपाः स्थविष्ठः स्थविरो धृवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७ ॥

संवत्सरकरो मन्त्रः प्रत्ययः सर्वतापनः ।
अजः सर्वेस्वरः सिद्धो महातेजा महाबलः ॥ ३८ ॥

योगी योग्यो महारेताः सिद्धिः सर्वादिरग्रहः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९ ॥

सुकीर्तिः शोभनः स्रग्वी वेदाङ्गो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ ४० ॥

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ।
कमण्डलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१ ॥

अतीन्द्रियो महामायः सर्ववासश्चतुष्पथः ।
कालयोगी महानादो महोत्साहो महाबलः ॥ ४२ ॥

महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ।
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३ ॥

अनिर्देश्यवपुः श्रीमान् सर्वाचार्यमनोगतिः ।
बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४ ॥

ओजस्तेजो द्युतिधरो जनकः सर्वशासकः ।
नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥४५ ॥ पाठभेद नित्यनृत्यः
स्पष्टाक्षरो बुधो मन्त्रः समानः सारसम्प्लवः ।
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ४६ ॥

इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशोधनः ।
तीर्थरूपस्तीर्थनामा तीर्थदृश्यस्तु तीर्थदः ॥ ४७ ॥

अपां निधिरधिष्ठानं विजयो जयकालवित् । पाठभेद दुर्जयो
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८ ॥

विमोचनः सुरगणो विद्येशो बिन्दुसंश्रयः ।
वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९ ॥

करणं कारणं कर्ता सर्वबन्धविमोचनः ।
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ ५० ॥

गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ।
वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१ ॥

वीरचूडामणिर्वेत्ता चिदानन्दो नदीधरः ।
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥

वालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः । पाठभेद बालखिल्यो
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३ ॥

मघवान् कौशिको गोमान् विरामः सर्वसाधनः । मघवाकौशिको
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४ ॥

अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसः । पाठभेद दण्डो
परमार्थः परो मायी शम्बरो व्याघ्रलोचनः ॥ ५५ ॥ पाठभेद परोमायः संवरो
रुचिर्बहुरुचिर्वैद्यो वाचस्पतिरहस्पतिः ।
रविर्विरोचनः स्कन्दः शास्ता वैवस्वतो यमः ॥ ५६ ॥

युक्तिरुन्नतकीर्तिश्च सानुरागः पुरञ्जयः ।
कैलासाधिपतिः कान्तः सविता रविलोचनः ॥ ५७ ॥

विश्वोत्तमो वीतभयो विश्वभर्ताऽनिवारतः ।
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ५८ ॥

दूरश्रवो विश्वसहो ध्येयो दुस्स्वप्ननाशनः ।
उत्तारणो दुष्कृतिहा विज्ञेयो दुस्सहोऽभवः ॥ ५९ ॥

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।
विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः ॥ ६० ॥

जननो जनजन्मादिः प्रीतिमान्नीतिमान् ध्रुवः ।
वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ६१ ॥

प्रणवः सत्पथाचारो महाकोशो महाधनः ।
जन्माधिपो महादेवः सकलागमपारगः ॥ ६२ ॥

तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुविभूषणः । पाठभेद विष्णुर्विभू
ऋषिर्ब्राह्मण ऐश्वर्यं जन्ममृत्युजरातिगः ॥ ६३ ॥

पञ्चयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः । पाठभेद पञ्चतत्त्व
आत्मयोनिरनाद्यन्तो वत्सलो भक्तलोकधृक् ॥ ६४ ॥ पाठभेद अनाद्यन्तो ह्यात्मयोनिर्
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५ ॥

अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ।
स्वयञ्ज्योतिर्महाज्योतिस्तनुज्योतिरचञ्चलः ॥ ६६ ॥

पिङ्गळः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ।
ज्ञानस्कन्दो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७ ॥ पाठभेद स्कन्धो
भगो विवस्वानादित्यो गतपारो बृहस्पतिः ।
कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८ ॥

उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः । पाठभेद सदसन्त्रपः
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९ ॥

पवित्रः पापहारी च मणिपूरो नभोगतिः । पाठभेद पापनाशश्च
हृत्पुण्डरीकमासीनः शक्रः शान्तो वृषाकपिः ॥ ७० ॥

उष्णो ग्रहपतिः कृष्णः समर्थोनर्थनाशनः ।
अधर्मशत्रुरज्ञेयः पुरुहूतः पुरश्रुतः ॥ ७१ ॥

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२ ॥

हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ।
आरोग्यो नयनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३ ॥ नमना?
ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः । पाठभेद वसुर्धामा
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४ ॥

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणनिर्वारो वैरञ्च्यो विष्टरश्रवाः ॥ ७५ ॥

आत्मभूरनिरुद्धोत्रिर्ज्ञानमूर्तिर्महायशाः ।
लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६ ॥

व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः ।
अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥ ७७ ॥

आयुः शब्दपतिर्वाग्मी प्लवनः शिखिसारथिः ।
असंसृष्टोऽतिथिः शत्रुप्रमाथी पादपासनः ॥ ७८ ॥

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
जप्यो जरादिशमनो लोहितश्च तनूनपात् ॥ ७९ ॥

वृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा । पाठभेद बृहदश्वो
निदाघस्तपनो मेघभक्षः परपुरञ्जयः ॥ ८० ॥

सुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१ ॥

अङ्गिरा गुरुरात्रेयो विमलो विश्वपावनः ।
पावनः पुरजिच्छक्रस्त्रैविद्यो वरवाहनः ॥ ८२ ॥ पाठभेद नववारणः
मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ।
जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३ ॥ पाठभेद बलनिधिः यः?
अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ।
शैलो गगनकुन्दाभो दानवारिररिन्दमः ॥ ८४ ॥

चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ ८५ ॥

आम्नायोऽथ समाम्नायस्तीर्थदेवः शिवालयः ।
बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ८६ ॥

न्यायनिर्णायको नेयो न्यायगम्यो निरञ्जनः । पाठभेद न्यायी
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ८७ ॥ पाठभेद शास्त्र
मुण्डी विरूपो विकृतो दण्डी नादी गुणोत्तमः । पाठभेद मुण्डो दानी
पिङ्गलाक्षो हि बह्वक्षो नीलग्रीवो निरामयः ॥ ८८ ॥ पाठभेद जनाध्यक्षो
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ।
पद्मासनः परञ्ज्योतिः पारम्पर्यफलप्रदः ॥ ८९ ॥

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।
परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ ९० ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामित्रो देवासुरमहेस्वरः ॥ ९१ ॥

देवासुरेश्वरो दिव्यो देवासुरमहाश्रयः ।
देवदेवोऽनयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ ९२ ॥

सद्यो महासुरव्याधो देवसिंहो दिवाकरः ।
विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ ९३ ॥

शिवज्ञानरतः श्रीमान् शिखी श्रीपर्वतप्रियः ।
वज्रहस्तः सिद्धखड्गो नरसिंहनिपातनः ॥ ९४ ॥

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।
नन्दी नन्दीश्वरोऽनन्तो नग्नव्रतधरः शुचिः ॥ ९५ ॥

लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ।
स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६ ॥

बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसम्भवः । पाठभेद धर्मकृत्
दम्भो लोभोऽथ वै शम्भुः सर्वभूतमहेश्वरः ॥ ९७ ॥ पाठभेद लोभोऽर्थविच्छम्भुः
श्मशाननिलयस्त्र्यक्षः सेतुरप्रतिमाकृतिः ।
लोकोत्तरस्फुटो लोकस्त्र्यम्बको नागभूषणः ॥ ९८ ॥

अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । पाठभेद मयद्वेषी
हीनदोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥ ९९ ॥

धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ।
अकालः सकलाधारः पाण्डुराभो मृडो नटः ॥ १०० ॥

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।
सन्मार्गपः प्रियोऽधूर्तः पुण्यकीर्तिरनामयः ॥ १०१ ॥

मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ।
जीवितान्तकरो नित्यो वसुरेता वसुप्रदः ॥ १०२ ॥

सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकण्टकः ।
कलाधरो महाकालभूतः सत्यपरायणः ॥ १०३ ॥

लोकलावण्यकर्ता च लोकोत्तरसुखालयः ।
चन्द्रसञ्जीवनः शास्ता लोकग्राहो महाधिपः ॥ १०४ ॥

लोकबन्धुर्लोकनाथः कृतज्ञः कृत्तिभूषितः ।
अनपायोऽक्षरः कान्तः सर्वशस्त्रभृतां वरः ॥ १०५ ॥ पाठभेद शास्त्र
तेजोमयो द्युतिधरो लोकमानी घृणार्णवः ।
शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०६ ॥

ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ।
तुम्बवीणो महाकायो विशोकः शोकनाशनः ॥ १०७ ॥

त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ।
अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ॥ १०८ ॥

परः शिवो वसुर्नासासारो मानधरो यमः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०९ ॥

वेधा विधाता धाता च स्रष्टा हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सदागतिः ॥ ११० ॥

हिरण्यगर्भो द्रुहिणो भूतपालोथ भूपतिः ।
सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः ॥ १११ ॥

देवप्रियो देवनाथो देवको देवचिन्तकः ।
विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ ११२ ॥

निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।
दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्तकः ॥ ११३ ॥

सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ।
भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११४ ॥

अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ।
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ॥ ११५ ॥

सत्त्ववान् सात्त्विकः सत्यः कृतस्नेहः कृतागमः ।
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥ ११६ ॥

सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ।
नन्दिस्कन्दो धरो धुर्यः प्रकटप्रीतिवर्धनः ॥ ११७ ॥

अपराजितः सर्वसहो गोविन्दः सत्ववाहनः ।
अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११८ ॥

वाराहश‍ृङ्गधृक् श‍ृङ्गी बलवानेकनायकः ।
श‍ृतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ॥ ११९ ॥

श्रीवत्सलः शिवारम्भः शान्तभद्रः समो यशः ।
भूयशो भूषणो भूतिर्भूतिकृद् भूतभावनः ॥ १२० ॥

अकम्पो भक्तिकायस्तु कालहानिः कलाविभुः ।
सत्यव्रती महात्यागी नित्यः शान्तिपरायणः ॥ १२१ ॥

परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ।
शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२२ ॥

अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ।
स्वभावभद्रो मध्यस्थः शत्रुघ्नो विघ्ननाशनः ॥ १२३ ॥

शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ।
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२४ ॥

असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ।
वेद्यश्च वै वियोगात्मा परावरमुनीश्वरः ॥ १२५ ॥ पाठभेद सप्तावर
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।
सुरेशः शरणः सर्वः शब्दः प्रतपतां वरः ॥ १२६ ॥

कालपक्षः कालकालः सुकृती कृतवासुकिः ।
महेष्वासो महीभर्ता निष्कलङ्को विश‍ृङ्खलः ॥ १२७ ॥

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।
विश्वतः सम्प्रवृत्तस्तु व्यूढोरस्को महाभुजः ॥ १२८ ॥

सर्वयोनिर्निराटङ्को नरनारायणप्रियः । पाठभेद निरातङ्को
निर्लेपो यतिसङ्गात्मा निर्व्यङ्गो व्यङ्गनाशनः ॥ १२९ ॥

स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निराकुलः । पाठभेद स्तुति
निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १३१ ॥

प्रशान्तबुद्धिरक्षुण्णः सङ्ग्रहो नित्यसुन्दरः ।
वैयाघ्रधुर्यो धात्रीशः सङ्कल्पः शर्वरीपतिः ॥ १३२ ॥

परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ।
सोमो रसज्ञो रसदः सर्वसत्वावलम्बनः ॥ १३२
एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ।
प्रार्थयामास शम्भुं वै पूजयामास पङ्कजैः ॥ १३३ ॥

ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ।
महद्भूतं सुखकरं तदेव श‍ृणुतादरात् ॥ १३४ ॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां
शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

Also Read:

1000 Names of Shiva | Sahasranama Stotram from Shivapurana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shiva from Shivapurana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top