Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Devi | Sahasranama Stotram Lyrics in Hindi

Portion from Kurmapurana Adhyaya 12

Sri Devisahasranamastotram Lyrics in Hindi:

॥ श्रीदेवीसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम् ॥

ऋषयः ऊचुः —
कैषा भगवती देवी शंकरार्धशरीरिणी ।
शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १ ॥

तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः ।
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ २ ॥

श्रीकूर्म उवाच —
पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् ।
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ ३ ॥

सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् ।
संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ ४ ॥

या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा ।
व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ ५ ॥

शिवा सर्वगताऽनन्ता गुणातीता सुनिष्कला ।
एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ ६ ॥

अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा ।
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ ७ ॥

एका माहेश्वरी शक्तिरनेकोपाधियोगतः ।
परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ ८ ॥

सेयं करोति सकलं तस्याः कार्यमिदं जगत् ।
न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ ९ ॥

चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः ।
अधिष्ठानवशात्तस्याः श‍ृणुध्वं मुनिपुङ्गवाः ॥ १० ॥

शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ ११ ॥

अनया परया देवः स्वात्मानन्दं समश्नुते ।
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२ ॥

अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् ।
तत्सम्बन्धादनन्तायाः रुद्रेण परमात्मना ॥ १३ ॥

सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका ।
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १४ ॥

तत्र सर्वमिदं प्रोतमोत चैवाखिलं जगत् ।
स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १५ ॥

कालः सृजति भूतानि कालः संहरते प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १६ ॥

प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः ।
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १७ ॥

तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता ।
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १८ ॥

सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी ।
वैश्वरूपं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ १९ ॥

अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः ।
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ २० ॥

सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः ।
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तयाः ॥ २१ ॥

सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया ।
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ २२ ॥

करोति कालः सकलं संहरेत् काल एव हि ।
कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ २३ ॥

लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः ।
अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ २४ ॥

प्रधानं पुरुषो माया माया चैवं प्रपद्यते ।
एका सर्वगतानन्ता केवला निष्कला शिवा ॥ २५ ॥

एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः ।
शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ २६ ॥

शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ २७ ॥

शक्तयो गिरिजा देवी शक्तिमन्तोऽथ शंकरः ।
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ २८ ॥

भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता ।
प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ २९ ॥

मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः ।
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ ३० ॥

इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् ।
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ३१ ॥

एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् ।
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ ३२ ॥

एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।
योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ ३३ ॥

आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् ।
योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ ३४ ॥

परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् ।
अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ ३५ ॥

शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् ।
आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ ३६ ॥

सैषा धात्री विधात्री च परमानन्दमिच्छताम् ।
संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ ३७ ॥

तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् ।
आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ ३८ ॥

लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् ।
सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ ३९ ॥

तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ।
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ ४० ॥

मेनोवाच —
पश्य बालामिमां राजन् राजीवसदृशाननाम् ।
हिताय सर्वभूतानां जाता च तपसाऽऽवयोः ॥ ४१ ॥

सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् ।
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ ४२ ॥

अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् ।
निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ ४३ ॥

प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः ।
भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ ४४ ॥

हिमवानुवाच —
का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ ४५ ॥

गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा ॥ ४६ ॥

देव्युवाच —
मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ४७ ॥

अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ४८ ॥

अनन्ताऽनन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ४९ ॥

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ५० ॥

कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ५१ ॥

दंष्ट्राकरालं दुर्धर्षं जटामणडलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ५२ ॥

प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ५३ ॥

किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ५४ ॥

शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ५५ ॥

सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ ५६ ॥

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ ५७ ॥

दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः ॥ ५८ ॥

आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ ५९ ॥

हिमवानुवाच —
शिवोमा परमा शक्तिरनन्ता निष्कलामला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ ६० ॥

अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ ६१ ॥

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ६२ ॥

काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ ६३ ॥

शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ ६४ ॥

अनादिनिधनाऽमोघा कारणात्मा कुलाकुला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ६५ ॥

प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ६६ ॥

महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
सर्वशक्तिकलाकारा ज्योत्स्ना धौर्महिमास्पदा ॥ ६७ ॥

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ ६८ ॥

संसारपारा दुर्वारा दुर्निरीक्ष्य दुरासदा ।
प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥ ६९ ॥

महाविभूतिदुर्घर्षा मूलप्रकृतिसम्भवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ ७० ॥

सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ७१ ॥

अनादिरव्यक्तगुणा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ७२ ॥

महामाया सुदुष्पारा मूलप्रकृतिरीश्वरी ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ ७३ ॥

पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ।
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ ७४ ॥

जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ।
व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ ७५ ॥

क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ।
अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा ॥ ७६ ॥

महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ।
व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ ७७ ॥

अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ।
सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ ७८ ॥

ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका ।
वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ ७९ ॥

सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ।
विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ ८० ॥

महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवा ।
महाविमानमध्यस्था महानिद्रात्महेतुका ॥ ८१ ॥

सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ।
अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ ८२ ॥

अनेकाकारसंस्थाना कालत्रयविवर्जिता ।
ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ॥ ८३ ॥

ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ ८४ ॥

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ ८५ ॥

ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ ८६ ॥

महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ ८७ ॥

ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी ।
ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ ८८ ॥

सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ ८९ ॥

गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ ९० ॥

सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ९१ ॥

वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ९२ ॥

गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ९३ ॥

नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
पूज्या विभावरी सौम्या भोगिनी भोगशायिनी ॥ ९४ ॥

शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ९५ ॥

महानुभावा सत्त्वस्था महामहिषमर्दिनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना ॥ ९६ ॥

कान्ता चित्राम्बरधरा दिव्याबरणभूषिता ।
हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ९८ ॥

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ९९ ॥

वृषासनगता गौरी महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ १०० ॥

विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलाऽनवद्याङ्गी कामरूपा विभावरी ॥ १०१ ॥

विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १०२ ॥

बहुरूपा स्वरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १०३ ॥

निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १०४ ॥

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १०५ ॥

सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १०६ ॥

कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १०७ ॥

ज्वालामालासहस्राढ्या देवदेवी मनोमयी ।
महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १०८ ॥

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १०९ ॥

दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभागज्ञा महामाया महीयसी ॥ ११० ॥

संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १११ ॥

ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी ।
विकृतिः शाङ्करी शास्त्री गणगन्धर्वसेविता ॥ ११२ ॥

वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुःस्वप्ननाशिनी ॥ ११३ ॥

इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ ११४ ॥

हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ।
बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ ११७ ॥

तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ।
सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥ ११८ ॥

संसारतारिणी विद्या ब्रह्मवादिमनोलया ।
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी ॥ ११९ ॥

हिरण्मयी महारात्रिः संसारपरिवर्त्तिका ।
सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२० ॥

उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ।
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२१ ॥

सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ।
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ॥ १२२ ॥

निराश्रया निराहारा निरङ्कुरवनोद्भवा ।
चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२३ ॥

परावरविधानज्ञा महापुरुषपूर्वजा ।
विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२४ ॥

विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२५ ॥

क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ।
महामायाश्रया मान्या महादेवमनोरमा ॥ १२६ ॥

व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ।
वीरेश्वरी विमानस्था विशोका शोकनाशिनी ॥ १२७ ॥

अनाहता कुण्डलिनी नलिनी पद्मवासिनी ।
सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२८ ॥

वाग्देवता ब्रह्मकला कलातीता कलारणी ।
ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२९ ॥

व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ।
क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १३० ॥

अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ।
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १३१ ॥

भगिनी भगवत्पत्नी सकला कालकारिणी ।
सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ॥ १३२ ॥

प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ।
कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १३३ ॥

पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा ।
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १३४ ॥

पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ।
धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १३५ ॥

मनोहरा मनोरक्षा तापसी वेदरूपिणी ।
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १३६ ॥

योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ।
विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १३७ ॥

किन्नरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा ।
भारती परमानन्दा परापरविभेदिका ॥ १३८ ॥

सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ।
अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा ॥ १३९ ॥

कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ।
त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १४० ॥

सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ।
शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १४१ ॥

आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ।
सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ॥ १४२ ॥

दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा ।
हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १४३ ॥

मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ।
रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १४४ ॥

पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा ।
धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १४५ ॥

महेन्द्रभगिनी मान्या वरेण्या वरदायिका ।
कल्याणी कमला रामा पञ्चभूता वरप्रदा ॥ १४६ ॥

वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ।
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १४७ ॥

भद्रकाली जगन्माता भक्तानां भद्रदायिनी ।
कराला पिङ्गलाकारा नामभेदा महामदा ॥ १४८ ॥

यशस्विनी यशोदा च षडध्वपरिवर्त्तिका ।
शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १४९ ॥

चैत्रा संवत्सरारूढा जगत्सम्पूरणीन्द्रजा ।
शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १५० ॥

खगध्वजा खगारूढा परार्या परमालिनी ।
ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १५१ ॥

जयन्ती हृद्गुहा रम्या गह्वरेष्ठा गणाग्रणीः ।
संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १५२ ॥

कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ।
निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १५३ ॥

विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता ।
लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १५४ ॥

अनन्तशयनाऽनन्ता नरनारायणोद्भवा ।
नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १५५ ॥

संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ।
महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १५६ ॥

सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा ।
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १५७ ॥

महाविभूतिदा मध्या सरोजनयना समा ।
अष्टादशभुजानाद्या नीलोत्पलदलप्रभा । १५८ ॥

सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ।
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १५९ ॥

विचित्रगहनाधारा शाश्वतस्थानवासिनी ।
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १६० ॥

अशेषदेवतामूर्त्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १६१ ॥

अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा ।
अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १६२ ॥

अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १६३ ॥

सत्यमात्रा सत्यसन्ध्या त्रिसन्ध्या संधिवर्जिता ।
सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १६४ ॥

असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १६५ ॥

विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १६६ ॥

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १६७ ॥

शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १६८ ॥

शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १६९ ॥

कामुकी ललिताभावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १७० ॥

सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १७१ ॥

अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १७२ ॥

हिरण्या राजती हैमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १७३ ॥

महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १७४ ॥

लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १७५ ॥

सुधामा कर्मकरणी युगान्तदहनात्मिका ।
संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १७६ ॥

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १७७ ॥

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १७८ ॥

हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १७९ ॥

वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना ।
वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १८० ॥

विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १८१ ॥

मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ १८२ ॥

सेविता सेविका सेव्या सिनीवाली गरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १८३ ॥

वसुप्रदा वसुमती वसोर्धारा वसुंधरा ।
धाराधरा वरारोहा वरावरसहस्रदा ॥ १८४ ॥

श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १८५ ॥

अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १८६ ॥

सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १८७ ॥

नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना ।
वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १८८ ॥

मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १८९ ॥

सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १९० ॥

युगन्धरा युगावर्त्ता त्रिसंध्या हर्षवर्धिनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १९१ ॥

शक्रासनगता शाक्री सान्ध्या चारुशरासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १९२ ॥

शतरूपा शतावर्त्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्णा सूर्यसंस्थिता ॥ १९३ ॥

समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १९४ ॥

धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्ति र्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १९५ ॥

धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ॥ १९६ ॥

कापाली सकलामूर्त्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १९७ ॥

सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्मा ज्ञानस्वरूपिणी ।
प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १९८ ॥

सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका ।
एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १९९ ॥

भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ।
यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ २०० ॥

भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ।
एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ २०१ ॥

संहृत्य दर्शयामास स्वरूपमपरं पुनः ।
नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ २०२ ॥

द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ।
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ २०३ ॥

श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् ।
भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ २०४ ॥

दधानमुरसा मालां विशालां हेमनिर्मिताम् ।
ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ २०५ ॥

प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ।
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ २०६ ॥

नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् ।
ज्ञात्वाऽर्कमण्डलगतां संभाव्य परमेश्वरीम् ॥ २०७ ॥

अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः ।
संस्मरन्परमं भावं देव्या माहेश्वरं परम् ॥ २०८ ॥

अनन्यमानसो नित्यं जपेदामरणाद् द्विजः ।
सोऽन्तकाले स्मृतिं लब्ध्वा परं ब्रह्माधिगच्छति ॥ २०९ ॥

अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ २१० ॥

सम्प्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् ।
शान्तः सर्वगातो भूत्वा शिवसायुज्यमाप्नुयात् ॥ २११ ॥

प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् ।
पूतनादिकृतैर्दोषैर्ग्रहदोषैश्च मुच्यते ॥ २१२ ॥

जपेद् वाऽहरहर्नित्यं संवत्सरमतन्द्रितः ।
श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ २१३ ॥

सम्पूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः ।
लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ २१४ ॥

तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः ।
सर्वपापापनोदार्थं देव्या नाम सहस्रकम् ॥ २१५ ॥

॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां
पूर्वविभागे श्रीदेवीसहस्रनामस्तोत्रम् ॥

Also Read 1000 Names of Shri Devi:

1000 Names of Shri Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Devi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top