Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Pitambara | Sahasranama Stotram Lyrics in Hindi

Shri Pitambarisahasranamastotram Lyrics in Hindi:

॥ श्रीपीताम्बरीसहस्रनामस्तोत्रम् ॥

अथवा श्रीबगलामुखीसहस्रनामस्तोत्रम्

अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् ।

सुरालयप्रधाने तु देवदेवं महेश्वरम् ।
शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १ ॥

श्रीदेव्युवाच
परमेष्ठिन्परन्धाम प्रधान परमेश्वर ।
नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २ ॥

ईश्वर उवाच
श‍ृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् ।
परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३ ॥

गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् ।
अतिगुप्ततरव्विद्या सर्वतन्त्रेषु गोपिता ॥ ४ ॥

विशेषतः कलियुगे महासिद्ध्यौघदायिनी ।
गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः ॥ ५ ॥

अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते ।
रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६ ॥

स्तम्भिनी राजसैन्यानाव्वादिनी परवादिनाम् ।
पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७ ॥

सुन्दरीसहितो देवः केशवः क्लेशनाशनः ।
उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८ ॥

निद्राकाले च ते काले मया प्रोक्तः सनातनः ।
महास्तम्भकरन्देवि स्तोत्रव्वा शतनामकम् ॥ ९ ॥

सहस्रनाम परमव्वद देवस्य कस्यचित् ।

श्रीभगवानुवाच
श‍ृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १० ॥

अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः ।
गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् ॥ ११ ॥

ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान्सदाशिव
ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी पीताम्बरी देवता
सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ॥

अथ ध्यानम्
पीताम्बरपरीधानां पीनोन्नतपयोधराम् ।
जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् ॥ १२ ॥

शत्रोर्ज्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् ।
सर्वागमपुराणेषु विख्याताम्भुवनत्रये ॥ १३ ॥

सृष्टिस्थितिविनाशानामादि भूताम्महेश्वरीम् ।
गोप्या सर्वप्रयत्नेन श‍ृणु ताङ्कथयामि ते ॥ १४ ॥

जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् ।
तान्नमामि महामायाम्महदैश्चर्यदायिनीम् ॥ १५ ॥

प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् ।
बगलामुखी सर्वेति दुष्टानाव्वाचमेव च ॥ १६ ॥

मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् ।
विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् ॥ १७ ॥

वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः ।
ब्रह्मास्त्रम्ब्रह्मविद्या च ब्रह्ममाता सनातनी ॥ १८ ॥

ब्रह्मेशी ब्रह्मकैवल्यबगला ब्रह्मचारिणी ।
नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥ १९ ॥

सन्धारिणी महामाया कटाक्षक्षेमकारिणी ।
कमला विमला नीला रत्नकान्तिगुणाश्रिता ॥ २० ॥

कामप्रिया कामरता कामकामस्वरूपिणी ।
मङ्गला विजया जाया सर्वमङ्गलकारिणी ॥ २१ ॥

कामिनी कामिनीकाम्या कामुका कामचारिणी ।
कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२ ॥

कामाख्या कामबीजस्था कामपीठनिवासिनी ।
कामदा कामहा काली कपाली च करालिका ॥ २३ ॥

कंसारिः कमला कामा कैलासेश्वरवल्लभा ।
कात्यायनी केशवा च करुणा कामकेलिभुक् ॥ २४ ॥

क्रियाकीर्त्तिः कृत्तिका च काशिका मथुरा शिवा ।
कालाक्षी कालिका काली धवलाननसुन्दरी ॥ २५ ॥

खेचरी च खमूर्त्तिश्च क्षुद्रा क्षुद्रक्षुधावरा ।
खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ॥ २६ ॥

गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी ।
गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ॥ २७ ॥

गन्धर्वा गन्धर्वकला गोपनी गरुडासना ।
गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥ २८ ॥

गौराङ्गी गोपिकामूर्त्तिर्गोपीगोष्ठनिवासिनी ।
गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ॥ २९ ॥

घोरघोरा घोररूपा घनश्रोणी घनप्रभा ।
दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्स्वना ॥ ३० ॥

डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना ।
उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥ ३१ ॥

चामुण्डा मुण्डिता चण्डी चण्डदर्पहरेति च ।
उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥ ३२ ॥

चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी ।
चतुर्ब्भुजा प्रचण्डा च चराचरनिवासिनी ॥ ३३ ॥

क्षत्रप्रायश्शिरोवाहा छला छलतरा छली ।
क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ॥ ३४ ॥

जया च जयदुर्गा च जयन्ती जयदा परा ।
जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता ॥ ३५ ॥

जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी ।
जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥ ३६ ॥

झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी ।
झखा झमेशा झङ्कारी योनिकल्याणदायिनी ॥ ३७ ॥

झञ्झरा झमुरी झारा झराझरतरा परा ।
झञ्झा झमेता झङ्कारी झणाकल्याणदायिनी ॥ ३८ ॥

ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया ।
टङ्कारी टिटिका टीका टङ्किनी च टवर्गगा ॥ ३९ ॥

टापा टोपा टटपतिष्टमनी टमनप्रिया ।
ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥ ४० ॥

ठेकठासा ठकरती ठामिनी ठमनप्रिया ।
डारहा डाकिनी डारा डामरा डमरप्रिया ॥ ४१ ॥

डखिनी डडयुक्ता च डमरूकरवल्लभा ।
ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥ ४२ ॥

ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी ।
अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥ ४३ ॥

अमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता ।
तारा तन्त्रावती तन्त्रतत्त्वरूपा तपस्विनी ॥ ४४ ॥

तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा ।
तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी ॥ ४५ ॥

तन्त्रा यन्त्रार्च्चनपरा तलातलनिवासिनी ।
तल्पदा त्वल्पदा काम्या स्थिरा स्थिरतरा स्थितिः ॥ ४६ ॥

स्थाणुप्रिया स्थपरा स्थिता स्थानप्रदायिनी ।
दिगम्बरा दयारूपा दावाग्नि दमनीदमा ॥ ४७ ॥

दुर्गा दुर्गापरा देवी दुष्टदैत्यविनाशिनी ।
दमनप्रमदा दैत्यदयादानपरायणा ॥ ४८ ॥

दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता ।
दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥ ४९ ॥

दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी ।
दया धरा च दमनी दर्ब्भपत्रविलासिनी ॥ ५० ॥

धरिणी धारिणी धात्री धराधरधरप्रिया ।
धराधरसुता देवी सुधर्मा धर्मचारिणी ॥ ५१ ॥

धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी ।
धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी ॥ ५२ ॥

धन्वन्तरिधराधीरा ध्येया ध्यानस्वरूपिणी ।
नारायणी नारसिंही नित्यानन्दनरोत्तमा ॥ ५३ ॥

नक्ता नक्तावती नित्या नीलजीमूतसन्निभा ।
नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥ ५४ ॥

सुनीलपुष्पखचिता नीलजम्बुसमप्रभा ।
नित्याख्या षोडशी विद्या नित्या नित्यसुखावहा ॥ ५५ ॥

नर्मदा नन्दनानन्दा नन्दानन्दविवर्द्धिनी ।
यशोदानन्दतनया नन्दनोद्यानवासिनी ॥ ५६ ॥

नागान्तका नागवृद्धा नागपत्नी च नागिनी ।
नमिताशेषजनता नमस्कारवती नमः ॥ ५७ ॥

पीताम्बरा पार्वती च पीताम्बरविभूषिता ।
पीतमील्याम्बरधरा पीताभा पिङ्गमूर्द्धजा ॥ ५८ ॥

पीतपुष्पार्च्चनरता पीतपुष्पसमर्च्चिता ।
परप्रभा पितृपतिः परसैन्यविनाशिनी ॥ ५९ ॥

परमा परतन्त्रा च परमन्त्रा परात्परा ।
पराविद्या परासिद्धिः परास्थानप्रदायिनी ॥ ६० ॥

पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता ।
पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥ ६१ ॥

पीतानितम्बिनी पीता पीनोन्नतपयस्तनी ।
प्रेमाप्रमध्यमाशेषा पद्मपत्रविलासिनी ॥ ६२ ॥

पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा ।
पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥ ६३ ॥

पावनी पालिका पात्री परदा वरदा शिवा ।
प्रेतसंस्था परानन्दा परब्रह्मस्वरूपुणी ॥ ६४ ॥

जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया ।
पशुमांसप्रिया पर्णा परामृतपरायणा ॥ ६५ ॥

पाशीनी पाशिका चापि पशुघ्नी पशुभाषिणी ।
फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी ॥ ६६ ॥

परानन्दप्रदा वीणापशुपाशविनाशिनी ।
फूत्कारा फुत्परा फेणी फुल्लेन्दीवरलोचना ॥ ६७ ॥

फट्मन्त्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी ।
स्फाटिका घुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥ ६८ ॥

वराङ्गना वरधरा वाराही वासुकी वरा ।
बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी ॥ ६९ ॥

विद्याधरी विशालाक्षी काशीवासिजनप्रिया ।
वेदविद्या विरूपाक्षी विश्वयुग्बहुरूपिणी ॥ ७० ॥

ब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया ।
वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥ ७१ ॥

ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी ।
भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥ ७२ ॥

भवपारा भवधारा भाग्यवत्प्रियकारिणी ।
भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥ ७३ ॥

भवानी भैरवी भीमा भद्रकाली सुभद्रिका ।
भगिनी भगरूपा च भगमाना भगोत्तमा ॥ ७४ ॥

भगप्रिया भगवती भगवासा भगाकरा ।
भगसृष्टा भाग्यवती भगरूपा भगासिनी ॥ ७५ ॥

भगलिङ्गप्रिया देवी भगलिङ्गपरायणा ।
भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी ॥ ७६ ॥

भगलिङ्गरता देवी भगलिङ्गनिवासिनी ।
भगमाला भगकला भगाधारा भगाम्बरा ॥ ७७ ॥

भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी ।
भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा ॥ ७८ ॥

भगलिङ्गसमाधुर्या भगलिङ्गनिवेशिता ।
भगलिङ्गसुपूजा च भगलिङ्गसमन्विता ॥ ७९ ॥

भगलिङ्गविरक्ता च भगलिङ्गसमावृता ।
माधवी माधवीमान्या मधुरा मधुमानिनी ॥ ८० ॥

मन्दहासा महामाया मोहिनी महदुत्तमा ।
महामोहा महाविद्या महाघोरा महास्मृतिः ॥ ८१ ॥

मनस्विनी मानवती मोदिनी मधुरानना ।
मेनिका मानिनी मान्या मणिरत्नविभूषणा ॥ ८२ ॥

मल्लिका मौलिका माला मालाधरमदोत्तमा ।
मदनासुन्दरी मेधा मधुमत्ता मधुप्रिया ॥ ८३ ॥

मत्तहंसासमोन्नासा मत्तसिंहमहासनी ।
महेन्द्रवल्लभा भीमा मौल्यञ्च मिथुनात्मजा ॥ ८४ ॥

महाकाल्या महाकाली महाबुद्धिर्महोत्कटा ।
माहेश्वरी महामाया महिषासुरघातिनी ॥ ८५ ॥

मधुराकीर्त्तिमत्ता च मत्तमातङ्गगामिनी ।
मदप्रिया मांसरता मत्तयुक्कामकारिणी ॥ ८६ ॥

मैथुन्यवल्लभा देवी महानन्दा मह्वोत्सवा ।
मरीचिर्मारतिर्म्माया मनोबुद्धिप्रदायिनी ॥ ८७ ॥

मोहा मोक्षा महालक्ष्मीर्म्महत्पदप्रदायिनी ।
यमरूपा च यमुना जयन्ती च जयप्रदा ॥ ८८ ॥

याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी ।
रमा रामा रामपत्नी रत्नमाला रतिप्रिया ॥ ८९ ॥

रत्नसिंहासनस्था च रत्नाभरणमण्डिता ।
रमणी रमणीया च रत्यारसपरायणा ॥ ९० ॥

रतानन्दा रतवती रधूणाङ्कुलवर्द्धिनी ।
रमणारिपरिभ्राज्या रैधाराधिकरत्नजा ॥ ९१ ॥

रावी रसस्वरूपा च रात्रिराजसुखावहा ।
ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ॥ ९२ ॥

रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका ।
लक्ष्मीर्ल्लज्जा लतिका च लीलालग्नानिताक्षिणी ॥ ९३ ॥

लीला लीलावती लोमाहर्षाह्लादनपट्टिका ।
ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ॥ ९४ ॥

ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी ।
वेदाङ्गना वेदरूपा वनिता विनता वसा ॥ ९५ ॥

बाला च युवती वृद्धा ब्रह्मकर्मपरायणा ।
विन्ध्यस्था विन्ध्यवासी च बिन्दुयुग्बिन्दुभूषणा ॥ ९६ ॥

विद्यावती वेदधारी व्यापिका बर्हिणी कला ।
वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९७ ॥

वामाचाररता देवी वामदेवप्रियोत्तमा ।
बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥ ९८ ॥

बन्धमोचनकर्त्री च वारुणा वरुणालया ।
शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका ॥ ९९ ॥

शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा ।
शुक्लस्था शुक्लिनी शुक्लरूपशुक्लपशुप्रिया ॥ १०० ॥

शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका ।
षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी ॥ १०१ ॥

षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका ।
षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥ १०२ ॥

षडानना षड्रसा च षष्ठी षष्ठेश्वरीप्रिया ।
षङ्गवादा षोडशी च षोढान्यासस्वरूपिणी ॥ १०३ ॥

षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी ।
षोडशस्वररूपा च षण्मुखी षड्रदान्विता ॥ १०४ ॥

सनकादिस्वरूपा च शिवधर्मषरायणा ।
सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ॥ १०५ ॥

सिद्धविद्या सिधमाता सिद्धा सिद्धस्वरूपिणी ।
हरा हरिप्रिया हारा हरिणी हारयुक् तथा ॥ १०६ ॥

हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया ।
हेतुप्रिया हेतुरता हिताहितस्वरूपिणी ॥ १०७ ॥

क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा ।
क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥ १०८ ॥

अजानन्ता अपर्णा च अहल्याशेषशायिनी ।
स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी ॥ १०९ ॥

अरूपा अमला चार्द्धा अनन्तगुणशालिनी ।
स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥ ११० ॥

अपराजिता जातवेदा अजपा अमरावती ।
अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥ १११ ॥

अष्टसिद्धिप्रदा देवी रूपलक्षणसंय्युता ।
अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥ ११२ ॥

आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी ।
सीत्काररूपिणी देवी सर्वासनविभूषिता ॥ ११३ ॥

इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी ।
इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥ ११४ ॥

ईला कामनिवासा च ईश्वरीश्वरवल्लभा ।
जननी चेश्वरी दीना भेदाचेश्वरकर्मकृत् ॥ ११५ ॥

उमा कात्यायनी ऊर्द्ध्वा मीना चोत्तरवासिनी ।
उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥ ११६ ॥

उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा ।
उद्यानवासिनी माला प्रशस्तमणिभूषणा ॥ ११७ ॥

उर्द्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी ।
उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥ ११८ ॥

ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायिनी ।
उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ॥ ११९ ॥

एला एकारविद्या च एणीविद्याधरा तथा ।
ओङ्कारवलयोपेता ओङ्कारपरमा कला ॥ १२० ॥

ओंवदवदवाणी च ओङ्काराक्षरमण्डिता ।
ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी ॥ १२१ ॥

ओङ्कारमध्यबीजा च ओंनमोरूपधारिणी ।
प्रब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥ १२२ ॥

ओङ्कारा अःफड्मन्त्रा च अक्षाक्षरविभूषिता ।
अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥ १२३ ॥

प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः ।
ह्रीङ्काररूपा ह्रींङ्कारी वाग्बीजाक्षरभूषणा ॥ १२४ ॥

हृल्लेखा सिद्धि योगा च हृत्पद्मासनसंस्थिता ।
बीजाख्या नेत्रहृदया ह्रीम्बीजाभुवनेश्वरी ॥ १२५ ॥

क्लीङ्कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा ।
क्लीङ्क्लीङ्क्लींरूपिका देवी क्रीङ्क्रीङ्क्रींनामधारिणी ॥ १२६ ॥

कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता ।
श्रींश्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ॥ १२७ ॥

ओं ऐं क्लींह्रींश्रीम्परा च क्लीङ्कारी परमा कला ।
ह्रीङ्क्लींश्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥ १२८ ॥

सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा ।
सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ॥ १२९ ॥

सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी ।
गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ॥ १३० ॥

सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी ।
सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥ १३१ ॥

सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी ।
सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ॥ १३२ ॥

मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता ।
अकारादि-क्षकारान्ता दुर्गा दुर्गार्त्तिनाशिनी ॥ १३३ ॥

पद्मनेत्रा सुनेत्रा च स्वधास्वाहावषट्करी ।
स्ववर्गा देववर्गा च तवर्गा च समन्विता ॥ १३४ ॥

अन्तस्स्था वेश्मरूपा च नवदुर्गा नरोत्तमा ।
तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ॥ १३५ ॥

नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च ।
वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ॥ १३६ ॥

मातङ्गी मधुमत्ता च अणिमा लघिमा तथा ।
सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥ १३७ ॥

रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता ।
स्वल्पसिद्धिस्सुकल्पा च दिव्यचारणशुक्रभा ॥ १३८ ॥

सङ्क्रान्तिस्सर्वविद्या च सस्यवासरभूषिता ।
प्रथमा च द्वितीया च तृतीया च चतुर्त्थिका ॥ १३९ ॥

पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा ।
अष्टमी नवमी चैव दशम्येकादशी तथा ॥ १४० ॥

द्वादशी त्रयोदशी च चतुर्द्दश्यथ पूर्णिमा ।
आमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥ १४१ ॥

खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा ।
भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा ॥ १४२ ॥

कुलेश्वरी कुलवती कुलाचारपरायणा ।
कुलकर्मसुरक्ता च कुलाचारप्रवर्द्धिनी ॥ १४३ ॥

कीर्तिश्श्रीश्च रमा रामा धर्मायै सततन्नमः ।
क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥ १४४ ॥

उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी ।
साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥ १४५ ॥

काली कराली काल्या च कलादैत्यविनाशिनी ।
कौलिनी कालिकी चैव क-च-ट-त-पवर्णिका ॥ १४६ ॥

जयिनी जययुक्ता च जयदा जृम्भिनी तथा ।
स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ॥ १४७ ॥

ज्योतिर्ब्भूता च जयदा ज्वालामालासमाकुला ।
भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥ १४८ ॥

अश्विनी भरणी चैव नक्षत्रसम्भवानिला ।
काश्यपी विनता ख्याता दितिजादितिरेव च ॥ १४९ ॥

कीर्त्तिः कामप्रिया देवी कीर्त्त्या कीर्तिविवर्द्धिनी ।
सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥ १५० ॥

दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च ।
अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता ॥ १५१ ॥

ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका ।
चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥ १५२ ॥

चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा ।
चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥ १५३ ॥

धात्री विधात्री मिथुना नारी नायकवासिनी ।
सुरामुदा मुदवती मोदिनी मेनकात्मजा ॥ १५४ ॥

ऊर्द्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा ।
नील्या सरस्वती सात्वम्बगला छिन्नमस्तका ॥ १५५ ॥

सर्वेश्वरी सिद्धविद्या परा परमदेवता ।
हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥ १५६ ॥

हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा ।
जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥ १५७ ॥

जनार्द्दनप्रिया देवी जययुक्ता जयप्रदा ।
जगदानन्दकरी च जगदाह्लादकारिणी ॥ १५८ ॥

ज्ञानदानकरी यज्ञा जानकी जनकप्रिया ।
जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥ १५९ ॥

विद्याधरा च बिम्बोष्ठी कैलासचलवासिनी ।
विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥ १६० ॥

मन्त्ररूपा परा देवी तथैव गुरुरूपिणी ।
गया गङ्गा गोमती च प्रभासा पुष्करापि च ॥ १६१ ॥

विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी ।
बहू बहुसुन्दरी च कंसासुरविनाशिनी ॥ १६२ ॥

शूलिनी शूलहस्ता च वज्रा वज्रहरापि च ।
दूर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥ १६३ ॥

सर्वलोकप्रणेत्री च सर्वरोगहरापि च ।
मङ्गला शोभना शुद्धा निष्कला परमा कला ॥ १६४ ॥

विश्वेश्वरी विश्वमाता ललिता वसितानना ।
सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥ १६५ ॥

सर्वदेवमयी देवी सर्वागमभयापहा ।
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ १६६ ॥

योगिनी योगमाता च योगीन्द्रहृदयस्थिता ।
योगिजाया योगवती योगीन्द्रानन्दयोगिनी ॥ १६७ ॥

इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया ।
विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥ १६८ ॥

भववेषा कामिनी च भरुण्डा भयकारिणी ।
बलभद्रप्रियाकारा संसारार्णवतारिणी ॥ १६९ ॥

पञ्चभूता सर्वभूता विभूतिर्ब्भूतिधारिणी ।
सिंहवाहा महामोहा मोहपाशविनाशिनी ॥ १७० ॥

मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी ।
सावित्री च महादेवी परप्रियनिनायिका ॥ १७१ ॥

यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा ।
चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥ १७२ ॥

चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी ।
सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥ १७३ ॥

महाभोगवती देवी महामोक्षप्रदायिनी ।
विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥ १७४ ॥

धात्री च सर्वलोकानां हितकारणकामिनी ।
कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५ ॥

सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च ।
परारूपवती देवी त्रैलोक्याकर्षकारिणी ॥ १७६ ॥

इति ते कथितन्देवि पीतानाम सहस्रकम् ।
पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत्प्रिये ॥ १७७ ॥

इति मे विष्णुना प्रोक्तम्महास्तम्भकरम्परम् ।
प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८ ॥

एकचित्तः पठेदेतत्सर्वसिद्धिर्ब्भविष्यति ।
एकवारम्पठेद्यस्तु सर्वपापक्षयो भवेत् ॥ १७९ ॥

द्विवारम्प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् ।
त्रिवारम्पठनाद्देवि सर्वं सिद्ध्यति सर्वथा ॥ १८० ॥

स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते ।
मोक्षार्त्थी लभते मोक्षन्धनार्थी लभते धनम् ॥ १८१ ॥

विद्यार्त्थी लभते विद्यान्तर्कव्याकरणान्विताम् ।
महित्वव्वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥ १८२ ॥

क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् ।
यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३ ॥

गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः ।
गोपनीयम्प्रयत्नेन जननीजारवत्सदा ॥ १८४ ॥

हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् ।
य इदम्पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५ ॥

जीवन्धर्मार्त्थभोगी स्यान्मृतो मोक्षपतिर्ब्भवेत् ।
सत्यं सत्यम्महादेवि सत्यं सत्यन्न संशयः ॥ १८६ ॥

स्तवस्यास्य प्रभावेण देवेन सह मोदते ।
सुचित्ताश्च सुरास्सर्वे स्तवराजस्य कीर्त्तनात् ॥ १८७ ॥

पीताम्बरपरीधाना पीतगन्धानुलेपना ।
परमोदयकीर्त्तिः स्यात्परतस्सुरसुन्दरि ॥ १८८ ॥

इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे
विष्णुशङ्करसंवादे पीताम्बरीसहस्रनामस्तोत्रं समाप्तम् ॥

Also Read 1000 Names of Shri Pitambara:

1000 Names of Parshvanatha | Narasimha Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Pitambara | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top