Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Surya | Sahasranama Stotram 2 Lyrics in Hindi

Shri Surya Sahasranamastotram 2 Lyrics in Hindi:

॥ श्रीसूर्यसहस्रनामस्तोत्रम् २ ॥
श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये

अथ चतुस्त्रिंशः पटलः ।

श्रीभैरव उवाच ।
देवदेवि महादेवि सर्वाभयवरप्रदे ।
त्वं मे प्राणप्रिया प्रीता वरदोऽहं तव स्थितः ॥ १ ॥

किञ्चित् प्रार्थय मे प्रेम्णा वक्ष्ये तत्ते ददाम्यहम् ।

श्रीदेव्युवाच ।
भगवन् देवदेवेश महारुद्र महेश्वर ॥ २ ॥

यदि देयो वरो मह्यं वरयोग्यास्म्यहं यदि ।
देवदेवस्य सवितुर्वद नामसहस्रकम् ॥ ३ ॥

श्रीभैरव उवाच ।
एतद्गुह्यतमं देवि सर्वस्वं मम पार्वति ।
रहस्यं सर्वदेवानां दुर्लभं कामनावहम् ॥ ४ ॥

यो देवो भगवान् सूर्यो वेदकर्ता प्रजापतिः ।
कर्मसाक्षी जगच्चक्षुः स्तोतुं तं केन शक्यते ॥ ५ ॥

यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ।
तस्यादिदेवदेवस्य सवितुर्जगदीशितुः ॥ ६ ॥

मन्त्रनामसहस्रं ते वक्ष्ये साम्राज्यसिद्धिदम् ।
सर्वपापापहं देवि तन्त्रवेदागमोद्धृतम् ॥ ७ ॥

माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ।
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ ८ ॥

धनदं पुण्यदं पुण्यं श्रेयस्करं यशस्करम् ।
वक्ष्यामि परमं तत्त्वं मूलविद्यात्मकं परम् ॥ ९ ॥

ब्रह्मणो यत् परं ब्रह्म पराणामपि यत् परम् ।
मन्त्राणामपि यत् तत्त्वं महसामपि यन्महः ॥ १० ॥

शान्तानामपि यः शान्तो मनूनामपि यो मनुः ।
योगिनामपि यो योगी वेदानां प्रणवश्च यः ॥ ११ ॥

ग्रहाणामपि यो भास्वान् देवानामपि वासवः ।
ताराणामपि यो राजा वायूनां च प्रभञ्जनः ॥ १२ ॥

इन्द्रियाणामपि मनो देवीनामपि यः परा ।
नगानामपि यो मेरुः पन्नगानां च वासुकिः ॥ १३ ॥

तेजसामपि यो वह्निः कारणानां च यः शिवः ।
सविता यस्तु गायत्र्याः परमात्मेति कीर्त्यते ॥ १४ ॥

वक्ष्ये परमहंसस्य तस्य नामसहस्रकम् ।
सर्वदारिद्र्यशमनं सर्वदुःखविनाशनम् ॥ १५ ॥

सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् ।
ज्वररोगापमृत्युघ्नं सदा सर्वाभयप्रदम् ॥ १६ ॥

तत्त्वं परमतत्त्वं च सर्वसारोत्तमोत्तमम् ।
राजप्रसादविजय-लक्ष्मीविभवकारणम् ॥ १७ ॥

आयुष्करं पुष्टिकरं सर्वयज्ञफलप्रदम् ।
मोहनस्तम्भनाकृष्टि-वशीकरणकारणम् ॥ १८ ॥

अदातव्यमभक्ताय सर्वकामप्रपूरकम् ।
श‍ृणुष्वावहिता भूत्वा सूर्यनामसहस्रकम् ॥ १९ ॥

अस्य श्रीसूर्यनामसहस्रस्य श्रीब्रह्मा ऋषिः । गायत्र्यं छन्दः ।
श्रीभगवान् सविता देवता । ह्रां बीजं । सः शक्तिः । ह्रीं कीलकं ।
धर्मार्थकाममोक्षार्थे सूर्यसहस्रनामपाठे विनियोगः ॥

ध्यानम् ॥

कल्पान्तानलकोटिभास्वरमुखं सिन्दूरधूलीजपा-
वर्णं रत्नकिरीटिनं द्विनयनं श्वेताब्जमध्यासनम् ।
नानाभूषणभूषितं स्मितमुखं रक्ताम्बरं चिन्मयं
सूर्यं स्वर्णसरोजरत्नकलशौ दोर्भ्यां दधानं भजे ॥ १ ॥

प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥ २ ॥

ॐह्रांह्रींसःहंसःसोहं सविता भास्करो भगः ।
भगवान् सर्वलोकेशो भूतेशो भूतभावनः ॥ ३ ॥

भूतात्मा सृष्टिकृत् स्रष्टा कर्ता हर्ता जगत्पतिः ।
आदित्यो वरदो वीरो वीरलो विश्वदीपनः ॥ ४ ॥

विश्वकृद् विश्वहृद् भक्तो भोक्ता भीमोऽभयापहः ।
विश्वात्मा पुरुषः साक्षी परं ब्रह्म परात् परः ॥ ५ ॥

प्रतापवान् विश्वयोनिर्विश्वेशो विश्वतोमुखः ।
कामी योगी महाबुद्धिर्मनस्वी मनुरव्ययः ॥ ६ ॥

प्रजापतिर्विश्ववन्द्यो वन्दितो भुवनेश्वरः ।
भूतभव्यभविष्यात्मा तत्त्वात्मा ज्ञानवान् गुणी ॥ ७ ॥

सात्त्विको राजसस्तामस्तमवी करुणानिधिः ।
सहस्रकिरणो भास्वान् भार्गवो भृगुरीश्वरः ॥ ८ ॥

निर्गुणो निर्ममो नित्यो नित्यानन्दो निराश्रयः ।
तपस्वी कालकृत् कालः कमनीयतनुः कृशः ॥ ९ ॥

दुर्दर्शः सुदशो दाशो दीनबन्धुर्दयाकरः ।
द्विभुजोऽष्टभुजो धीरो दशबाहुर्दशातिगः ॥ १० ॥

दशांशफलदो विष्णुर्जिगीषुर्जयवाञ्जयी ।
जटिलो निर्भयो भानुः पद्महस्तः कुशीरकः ॥ ११ ॥

समाहितगतिर्धाता विधाता कृतमङ्गलः ।
मार्तण्डो लोकधृत् त्राता रुद्रो भद्रप्रदः प्रभुः ॥ १२ ॥

अरातिशमनः शान्तः शङ्करः कमलासनः ।
अविचिन्त्यवपुः (१००) श्रेष्ठो महाचीनक्रमेश्वरः ॥ १३ ॥

महार्तिदमनो दान्तो महामोहहरो हरिः ।
नियतात्मा च कालेशो दिनेशो भक्तवत्सलः ॥ १४ ॥

कल्याणकारी कमठकर्कशः कामवल्लभः ।
व्योमचारी महान् सत्यः शम्भुरम्भोजवल्लभः ॥ १५ ॥

सामगः पञ्चमो द्रव्यो ध्रुवो दीनजनप्रियः ।
त्रिजटो रक्तवाहश्च रक्तवस्त्रो रतिप्रियः ॥ १६ ॥

कालयोगी महानादो निश्चलो दृश्यरूपधृक् ।
गम्भीरघोषो निर्घोषो घटहस्तो महोमयः ॥ १७ ॥

रक्ताम्बरधरो रक्तो रक्तमाल्यानुलेपनः ।
सहस्रहस्तो विजयो हरिगामी हरीश्वरः ॥ १८ ॥

मुण्डः कुण्डी भुजङ्गेशो रथी सुरथपूजितः ।
न्यग्रोधवासी न्यग्रोधो वृक्षकर्णः कुलन्धरः ॥ १९ ॥

शिखी चण्डी जटी ज्वाली ज्वालातेजोमयो विभुः ।
हैमो हेमकरो हारी हरिद्रलासनस्थितः ॥ २० ॥

हरिद्श्वो जगद्वासी जगतां पतिरिङ्गिलः ।
विरोचनो विलासी च विरूपाक्षो विकर्तनः ॥ २१ ॥

विनायको विभासश्च भासो भासां पतिः प्रभुः ।
मतिमान् रतिमान् स्वक्षो विशालाक्षो विशाम्पतिः ॥ २२ ॥

बालरूपो गिरिचरो गीर्पतिर्गोमतीपतिः ।
गङ्गाधरो गणाध्यक्षो गणसेव्यो गणेश्वरः ॥ २३ ॥

गिरीशनयनावासी सर्ववासी सतीप्रियः ।
सत्यात्मकः सत्यधरः सत्यसन्धः सहस्रगुः ॥ २४ ॥

अपारमहिमा मुक्तो मुक्तिदो मोक्षकामदः ।
मूर्तिमान् ( २००) दुर्धरोऽमूर्तिस्तुटिरूपो लवात्मकः ॥ २५ ॥

प्राणेशो व्यानदोऽपानसमानोदानरूपवान् ।
चषको घटिकारूपो मुहूर्तो दिनरूपवान् ॥ २६ ॥

पक्षो मास ऋतुर्वर्षा दिनकालेश्वरेश्वरः ।
अयनं युगरूपश्च कृतं त्रेतायुगस्त्रिपात् ॥ २७ ॥

द्वापरश्च कलिः कालः कालात्मा कलिनाशनः ।
मन्वन्तरात्मको देवः शक्रस्त्रिभुवनेश्वरः ॥ २८ ॥

वासवोऽग्निर्यमो रक्षो वरुणो यादसां पतिः ।
वायुर्वैश्रवणं शैव्यो गिरिजो जलजासनः ॥ २३ ॥

अनन्तोऽनन्तमहिमा परमेष्ठी गतज्वरः ।
कल्पान्तकलनः क्रूरः कालाग्निः कालसूदनः ॥ ३० ॥

महाप्रलयकृत् कृत्यः कुत्याशीर्युगवर्तनः ।
कालावर्तो युगधरो युगादिः शहकेश्वरः ॥ ३१ ॥

आकाशनिधिरूपश्च सर्वकालप्रवर्तकः ।
अचिन्त्यः सुबलो बालो बलाकावल्लभो वरः ॥ ३२ ॥

वरदो वीर्यदो वाग्मी वाक्पतिर्वाग्विलासदः ।
साङ्ख्येश्वरो वेदगम्यो मन्त्रेशस्तन्त्रनायकः ॥ ३३ ॥

कुलाचारपरो नुत्यो नुतितुष्टो नुतिप्रियः ।
अलसस्तुलसीसेव्यस्तुष्टा रोगनिवर्हणः ॥ ३४ ॥

प्रस्कन्दनो विभागश्च नीरागो दशदिक्पतिः ।
वैराग्यदो विमानस्थो रत्नकुम्भधरायुधः ॥ ३५ ॥

महापादो महाहस्तो महाकायो महाशयः ।
ऋग्यजुःसामरूपश्च त्वष्टाथर्वणशाखिलः ॥ ३६ ॥

सहस्रशाखी सद्वृक्षो महाकल्पप्रियः पुमान् ।
कल्पवृक्षश्च मन्दारो ( ३००) मन्दाराचलशोभनः ॥ ३७ ॥

मेरुर्हिमालयो माली मलयो मलयद्रुमः ।
सन्तानकुसुमच्छन्नः सन्तानफलदो विराट् ॥ ३८ ॥

क्षीराम्भोधिर्घृताम्भोधिर्जलधिः क्लेशनाशनः ।
रत्नाकरो महामान्यो वैण्यो वेणुधरो वणिक् ॥ ३९ ॥

वसन्तो मारसामन्तो ग्रीष्मः कल्मषनाशनः ।
वर्षाकालो वर्षपतिः शरदम्भोजवल्लभः ॥ ४० ॥

हेमन्तो हेमकेयूरः शिशिरः शिशुवीर्यदः ।
सुमतिः सुगतिः साधुर्विष्णुः साम्बोऽम्बिकासुतः ॥ ४१ ॥

सारग्रीवो महाराजः सुनन्दो नन्दिसेवितः ।
सुमेरुशिखरावासी सप्तपातालगोचरः ॥ ४२ ॥

आकाशचारी नित्यात्मा विभुत्वविजयप्रदः ।
कुलकान्तः कुलाद्रीशो विनयी विजयी वियत् ॥ ४३ ॥

विश्वम्भरा वियच्चारी वियद्रूपो वियद्रथः ।
सुरथः सुगतस्तुत्यो वेणुवादनतत्परः ॥ ४४ ॥

गोपालो गोमयो गोप्ता प्रतिष्ठायी प्रजापतिः ।
आवेदनीयो वेदाक्षो महादिव्यवपुः सुराट् ॥ ४५ ॥

निर्जीवो जीवनो मन्त्री महार्णवनिनादभृत् ।
वसुरावर्तनो नित्यः सर्वाम्नायप्रभुः सुधीः ॥ ४६ ॥

न्यायनिर्वापणः शूली कपाली पद्ममध्यगः ।
त्रिकोणनिलयश्चेत्यो बिन्दुमण्डलमध्यगः ॥ ४७ ॥

बहुमालो महामालो दिव्यमालाधरो जपः ।
जपाकुसुमसङ्काशो जपपूजाफलप्रदः ॥ ४८ ॥

सहस्रमूर्धा देवेन्द्रः सहस्रनयनो रविः ।
सर्वतत्त्वाश्रयो ब्रध्नो वीरवन्द्यो विभावसुः ॥ ४९ ॥

विश्वावसुर्वसुपतिर्वसुनाथो विसर्गवान् ।
आदिरादित्यलोकेशः सर्वगामी (४००) कलाश्रयः ॥ ५० ॥

भोगेशो देवदेवेन्द्रो नरेन्द्रो हव्यवाहनः ।
विद्याधरेशो विद्येशो यक्षेशो रक्षणो गुरुः ॥ ५१ ॥

रक्षःकुलैकवरदो गन्धर्वकुलपूजितः ।
अप्सरोवन्दितोऽजय्यो जेता दैत्यनिवर्हणः ॥ ५२ ॥

गुह्यकेशः पिशाचेशः किन्नरीपूजितः कुजः ।
सिद्धसेव्यः समाम्नायः साधुसेव्यः सरित्पतिः ॥ ५३ ॥

ललाटाक्षो विश्वदेहो नियमी नियतेन्द्रियः ।
अर्कोऽर्ककान्तरत्रेशोऽनन्तबाहुरलोपकः ॥ ५४ ॥

अलिपात्रधरोऽनङ्गोऽप्यम्बरेशोऽम्बराश्रयः ।
अकारमातृकानाथो देवानामादिराकृतिः ॥ ५५ ॥

आरोग्यकारी चानन्दविग्रहो निग्रहो ग्रहः ।
आलोककृत् तथादित्यो वीरादित्यः प्रजाधिपः ॥ ५६ ॥

आकाशरूपः स्वाकार इन्द्रादिसुरपूजितः ।
इन्दिरापूजितश्चेन्दुरिन्द्रलोकाश्रयस्त्विनः ॥ ५७ ॥

ईशान ईश्वरश्चन्द्र ईश ईकारवल्लभः ।
उन्नतास्योऽप्युरुवपुरुन्नताद्रिचरो गुरुः ॥ ५८ ॥

उत्पलोऽप्युच्चलत्केतुरुच्चैर्हयगतिः सुखी ।
उकाराकारसुखितस्तथोष्मा निधिरूषणः ॥ ५९ ॥

अनूरुसारथिश्चोष्णभानुरूकारवल्लभः ।
ऋणहर्ता ॠलिहस्त ऋॠभूषणभूषितः ॥ ६० ॥

लृप्ताङ्ग लॄमनुस्थायी लृलॄगण्डयुगोज्ज्वलः ।
एणाङ्कामृतदश्चीनपट्टभृद् बहुगोचरः ॥ ६१ ॥

एकचक्रधरश्चैकोऽनेकचक्षुस्तथैक्यदः ।
एकारबीजरमण एऐओष्ठामृताकरः ॥ ६२ ॥

ओङ्कारकारणं ब्रह्म औकारौचित्यमण्डनः ।
ओऔदन्तालिरहितो महितो महतां पतिः ॥ ६३ ॥

अंविद्याभूषणो भूष्यो लक्ष्मीशोऽम्बीजरूपवान् ।
अःस्वरूपः (५००) स्वरमयः सर्वस्वरपरात्मकः ॥ ६४ ॥

अंअःस्वरूपमन्त्राङ्गः कलिकालनिवर्तकः ।
कर्मैकवरदः कर्मसाक्षी कल्मषनाशनः ॥ ६५ ॥

कचध्वंसी च कपिलः कनकाचलचारकः ।
कान्तः कामः कपिः क्रूरः कीरः केशनिसूदनः ॥ ६६ ॥

कृष्णः कापालिकः कुब्जः कमलाश्रयणः कुली ।
कपालमोचकः काशः काश्मीरघनसारभृत् ॥ ६७ ॥

कूजत्किन्नरगीतेष्टः कुरुराजः कुलन्धरः ।
कुवासी कुलकौलेशः ककाराक्षरमण्डनः ॥ ६८ ॥

खवासी खेटकेशानः खङ्गमुण्डधरः खगः ।
खगेश्वरश्च खचरः खेचरीगणसेवितः ॥ ६९ ॥

खरांशुः खेटकधरः खलहर्ता खवर्णकः ।
गन्ता गीतप्रियो गेयो गयावासी गणाश्रयः ॥ ७० ॥

गुणातीतो गोलगतिर्गुच्छलो गुणिसेवितः ।
गदाधरो गदहरो गाङ्गेयवरदः प्रगी ॥ ७१ ॥

गिङ्गिलो गटिलो गान्तो गकाराक्षरभास्करः
घृणिमान् घुर्घुरारावो घण्टाहस्तो घटाकरः ॥ ७२ ॥

घनच्छन्नो घनगतिर्घनवाहनतर्पितः ।
ङान्तो ङेशो ङकाराङ्गश्चन्द्रकुङ्कुमवासितः ॥ ७३ ॥

चन्द्राश्रयश्चन्द्रधरोऽच्युतश्चम्पकसन्निभः ।
चामीकरप्रभश्चण्डभानुश्चण्डेशवल्लभः ॥ ७४ ॥

चञ्चच्चकोरकोकेष्टश्चपलश्चपलाश्रयः ।
चलत्पताकश्चण्डाद्रिश्चीवरैकधरोऽचरः ॥ ७५ ॥

चित्कलावर्धितश्चिन्त्यश्चिन्ताध्वंसी चवर्णवान् ।
छत्रभृच्छलहृच्छन्दच्छुरिकाच्छिन्नविग्रहः ॥ ७६ ॥

जाम्बूनदाङ्गदोऽजातो जिनेन्द्रो जम्बुवल्लभः ।
जम्वारिर्जङ्गिटो जङ्गी जनलोकतमोपहः ॥ ७७ ॥

जयकारी (६००) जगद्धर्ता जरामृत्युविनाशनः ।
जगत्त्राता जगद्धाता जगद्ध्येयो जगन्निधिः ॥ ७८ ॥

जगत्साक्षी जगच्चक्षुर्जगन्नाथप्रियोऽजितः ।
जकाराकारमुकुटो झञ्जाछन्नाकृतिर्झटः ॥ ७९ ॥

झिल्लीश्वरो झकारेशो झञ्जाङ्गुलिकराम्बुजः ।
झञाक्षराञ्चितष्टङ्कष्टिट्टिभासनसंस्थितः ॥ ८० ॥

टीत्कारष्टङ्कधारी च ठःस्वरूपष्ठठाधिपः ।
डम्भरो डामरुर्डिण्डी डामरीशो डलाकृतिः ॥ ८१ ॥

डाकिनीसेवितो डाढी डढगुल्फाङ्गुलिप्रभः ।
णेशप्रियो णवर्णेशो णकारपदपङ्कजः ॥ ८२ ॥

ताराधिपेश्वरस्तथ्यस्तन्त्रीवादनतत्परः ।
त्रिपुरेशस्त्रिनेत्रेशस्त्रयीतनुरधोक्षजः ॥ ८३ ॥

तामस्तामरसेष्टश्च तमोहर्ता तमोरिपुः ।
तन्द्राहर्ता तमोरूपस्तपसां फलदायकः ॥ ८४ ॥

तुट्यादिकलनाकान्तस्तकाराक्षरभूषणः ।
स्थाणुस्थलीस्थितो नित्यं स्थविरः स्थण्डिल स्थुलः ॥ ८५ ॥

थकारजानुरध्यात्मा देवनायकनायकः ।
दुर्जयो दुःखहा दाता दारिद्र्यच्छेदनो दमी ॥ ८६ ॥

दौर्भाग्यहर्ता देवेन्द्रो द्वादशाराब्जमध्यगः ।
द्वादशान्तैकवसतिर्द्वादशात्मा दिवस्पतिः ॥ ८७ ॥

दुर्गमो दैत्यशमनो दूरगो दुरतिक्रमः ।
दुर्ध्येयो दुष्टवंशघ्नो दयानाथो दयाकुलः ॥ ८८ ॥

दामोदरो दीधितिमान् दकाराक्षरमातृकः ।
धर्मबन्धुर्धर्मनिधिर्धर्मराजो धनप्रदः ॥ ८९ ॥

धनदेष्टो धनाध्यक्षो धरादर्शो धुरन्धरः ।
धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ ९० ॥

धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः ।
धराभृद्वल्लभो धर्मी धकाराक्षरभूषणः ॥ ९१ ॥

नमप्रियो नन्दिरुद्रो ( ७००) नेता नीतिप्रियो नयी ।
नलिनीवल्लभो नुन्नो नाट्यकृन्नाट्यवर्धनः ॥ ९२ ॥

नरनाथो नृपस्तुत्यो नभोगामी नमःप्रियः ।
नमोन्तो नमितारातिर्नरनारायणाश्रयः ॥ ९३ ॥

नारायणो नीलरुचिर्नम्राङ्गो नीललोहितः ।
नादरूपो नादमयो नादबिन्दुस्वरूपकः ॥ ९४ ॥

नाथो नागपतिर्नागो नगराजाश्रितो नगः ।
नाकस्थितोऽनेकवपुर्नकाराक्षरमातृकः ॥ ९५ ॥

पद्माश्रयः परं ज्योतिः पीवरांसः पुटेश्वरः ।
प्रीतिप्रियः प्रेमकरः प्रणतार्तिभयापहः ॥ ९६ ॥

परत्राता परध्वंसी पुरारिः पुरसंस्थितः ।
पूर्णानन्दमयः पूर्णतेजाः पूर्णेश्वरीश्वरः ॥ ९७ ॥

पटोलवर्णः पटिमा पाटलेशः परात्मवान् ।
परमेशवपुः प्रांशुः प्रमत्तः प्रणतेष्टदः ॥ ९८ ॥

अपारपारदः पीनः पीताम्बरप्रियः पविः ।
पाचनः पिचुलः प्लुष्टः प्रमदाजनसौख्यदः ॥ ९९ ॥

प्रमोदी प्रतिपक्षघ्नः पकाराक्षरमातृकः ।
फलं भोगापवर्गस्य फलिनीशः फलात्मकः ॥ १०० ॥

फुल्लदम्भोजमध्यस्थः फुल्लदम्भोजधारकः ।
स्फुटद्योतिः स्फुटाकारः स्फटिकाचलचारकः ॥ १०२ ॥

स्फूर्जत्किरणमाली च फकाराक्षरपार्श्वकः ।
बालो बलप्रियो बान्तो बिलध्वान्तहरो बली ॥ १०३ ॥

बालादिर्बर्बरध्वंसी बबोलामृतपानकः ।
बुधो बृहस्पतिर्वृक्षो बृहदश्वो बृहद्गतिः ॥ १०४ ॥

बपृष्ठो भीमरूपश्च भामयो भेश्वरप्रियः ।
भगो भृगुर्भृगुस्थायी भार्गवः कविशेखरः ॥ १०५ ॥

भाग्यदो भानुदीप्ताङ्गो भनाभिश्च भमातृकः ।
महाकालो (८००) महाध्यक्षो महानादो महामतिः ॥ १०६ ॥

महोज्ज्वलो मनोहारी मनोगामी मनोभवः ।
मानदो मल्लहा मल्लो मेरुमन्दरमन्दिरः ॥ १०७ ॥

मन्दारमालाभरणो माननीयो मनोमयः ।
मोदितो मदिराहारो मार्तण्डो मुण्डमुण्डितः ॥ १०८ ॥

महावराहो मीनेशो मेषगो मिथुनेष्टदः ।
मदालसोऽमरस्तुत्यो मुरारिवरदो मनुः ॥ १०९ ॥

माधवो मेदिनीशश्च मधुकैटभनाशनः ।
माल्यवान् मेधनो मारो मेधावी मुसलायुधः ॥ ११० ॥

मुकुन्दो मुररीशानो मरालफलदो मदः ।
मदनो मोदकाहारो मकाराक्षरमातृकः ॥ १११ ॥

यज्वा यज्ञेश्वरो यान्तो योगिनां हृदयस्थितः ।
यात्रिको यज्ञफलदो यायी यामलनायकः ॥ ११२ ॥

योगनिद्राप्रियो योगकारणं योगिवत्सलः ।
यष्टिधारी च यन्त्रेशो योनिमण्डलमध्यगः ॥ ११३ ॥

युयुत्सुजयदो योद्धा युगधर्मानुवर्तकः ।
योगिनीचक्रमध्यस्थो युगलेश्वरपूजितः ॥ ११४ ॥

यान्तो यक्षैकतिलको यकाराक्षरभूषणः ।
रामो रमणशीलश्च रत्नभानू रुरुप्रियः ॥ ११५ ॥

रत्नमौली रत्नतुङ्गो रत्नपीठान्तरस्थितः ।
रत्नांशुमाली रत्नाढ्यो रत्नकङ्कणनूपुरः ॥ ११६ ॥

रत्नाङ्गदलसद्बाहू रत्नपादुकमण्डितः ।
रोहिणीशाश्रयो रक्षाकरो रात्रिञ्चरान्तकः ॥ ११७ ॥

रकाराक्षररूपश्च लज्जाबीजाश्रितो लवः ।
लक्ष्मीभानुर्लतावासी लसत्कान्तिश्च लोकभृत् ॥ ११८ ॥

लोकान्तकहरो लामावल्लभो लोमशोऽलिगः ।
लिङ्गेश्वरो लिङ्गनादो लीलाकारी ललम्बुसः ॥ ११९ ॥

लक्ष्मीवाँल्लोकविध्वंसी लकाराक्षरभूषणः ।
वामनो वीरवीरेन्द्रो वाचालो (९००) वाक्पतिप्रियः ॥ १२० ॥

वाचामगोचरो वान्तो वीणावेणुधरो वनम् ।
वाग्भवो वालिशध्वंसी विद्यानायकनायकः ॥ १२१ ॥

वकारमातृकामौलिः शाम्भवेष्टप्रदः शुकः ।
शशी शोभाकरः शान्तः शान्तिकृच्छमनप्रियः ॥ १२२ ॥

शुभङ्करः शुक्लवस्त्रः श्रीपतिः श्रीयुतः श्रुतः ।
श्रुतिगम्यः शरद्बीजमण्डितः शिष्टसेवितः ॥ १२३ ॥

शिष्टाचारः शुभाचारः शेषः शेवालताडनः ।
शिपिविष्टः शिबिः शुक्रसेव्यः शाक्षरमातृकः ॥ १२४ ॥

षडाननः षट्करकः षोडशस्वरभूषितः ।
षट्पदस्वनसन्तोषी षडाम्नायप्रवर्तकः ॥ १२५ ॥

षड्सास्वादसन्तुष्टः षकाराक्षरमातृकः ।
सूर्यभानुः सूरभानुः सूरिभानुः सुखाकरः ॥ १२६ ॥

समस्तदैत्यवंशघ्नः समस्तसुरसेवितः ।
समस्तसाधकेशानः समस्तकुलशेखरः ॥ १२७ ॥

सुरसूर्यः सुधासूर्यः स्वःसूर्यः साक्षरेश्वरः ।
हरित्सूर्यो हरिद्भानुर्हविर्भुग् हव्यवाहनः ॥ १२८ ॥

हालासूर्यो होमसूर्यो हुतसूर्यो हरीश्वरः ।
ह्राम्बीजसूर्यो ह्रींसूर्यो हकाराक्षरमातृकः ॥ १२९ ॥

ळम्बीजमण्डितः सूर्यः क्षोणीसूर्यः क्षमापतिः ।
क्षुत्सूर्यः क्षान्तसूर्यश्च ळङ्क्षःसूर्यः सदाशिवः ॥ १३० ॥

अकारसूर्यः क्षःसूर्यः सर्वसूर्यः कृपानिधिः ।
भूःसूर्यश्च भुवःसूर्यः स्वःसूर्यः सूर्यनायकः ॥ १३१ ॥

ग्रहसूर्य ऋक्षसूर्यो लग्नसूर्यो महेश्वरः ।
राशिसूर्यो योगसूर्यो मन्त्रसूर्यो मनूत्तमः ॥ १३२ ॥

तत्त्वसूर्यः परासूर्यो विष्णुसूर्यः प्रतापवान् ।
रुद्रसूर्यो ब्रह्मसूर्यो वीरसूर्यो वरोत्तमः ॥ १३३ ॥

धर्मसूर्यः कर्मसूर्यो विश्वसूर्यो विनायकः । (१०००)
इतीदं देवदेवेशि मत्रनामसहस्रकम् ॥ १३४ ॥

देवदेवस्य सवितुः सूर्यस्यामिततेजसः ।
सर्वसारमयं दिव्यं ब्रह्मतेजोविवर्धनम् ॥ १३५ ॥

ब्रह्मज्ञानमयं पुण्यं पुण्यतीर्थफलप्रदम् ।
सर्वयज्ञफलैस्तुल्यं सर्वसारस्वतप्रदम् ॥ १३६ ॥

सर्वश्रेयस्करं लोके कीर्तिदं धनदं परम् ।
सर्वव्रतफलोद्रिक्तं सर्वधर्मफलप्रदम् ॥ १३७ ॥

सर्वरोगहरं देवि शरीरारोग्यवर्धनम् ।
प्रभावमस्य देवेशि नाम्नां सहस्रकस्य च ॥ १३८ ॥

कल्पकोटिशतैर्वर्षैर्नैव शक्नोमि वर्णितुम् ।
यं यं काममभिध्यायेद् देवानामपि दुर्लभम् ॥ १३९ ॥

तं तं प्राप्नोति सहसा पठनेनास्य पार्वति ।
यः पठेच्छ्रावयेद्वापि श‍ृणोति नियतेन्द्रियः ॥ १४० ॥

स वीरो धर्मिणां राजा लक्ष्मीवानपि जायते ।
धनवाञ्जायते लोके पुत्रवान् राजवल्लभः ॥ १४१ ॥

आयुरारोग्यवान् नित्यं स भवेत् सम्पदां पदम् ।
रवौ पठेन्महादेवि सूर्यं सम्पूज्य कौलिकः ॥ १४२ ॥

सूर्योदये रविं ध्याता लभेत् कामान् यथेप्सितान् ।
सङ्क्रान्तौ यः पठेद् देवि त्रिकालं भक्तिपूर्वकम् ॥ १४३ ॥

इह लोके श्रियं भुक्त्वा सर्वरोगैः प्रमुच्यते ।
सप्तम्यां शुक्लपक्षे यः पठदस्तङ्गते रवौ ॥ १४४ ॥

सर्वारोग्यमयं देहं धारयेत् कौलिकोत्तमः ।
व्यतीपाते पठेद् देवि मध्याह्ने संयतेन्द्रियः ॥ १४५ ॥

धनं पुत्रान् यशो मानं लभेत् सूर्यप्रसादतः ।
चक्रार्चने पठेद् देवि जपन् मूलं रविं स्मरन् ॥ १४६ ॥

रवीभूत्वा महाचीनक्रमाचारविचक्षणः ।
सर्वशत्रून् विजित्याशु लभेल्लक्ष्मीं प्रतापवान् ॥ १४७ ॥

यः पठेत् परदेशस्थो वटुकार्चनतत्परः ।
कान्ताश्रितो वीतभयो भवेत् स शिवसन्निभः ॥ १४८ ॥

शतावर्तं पठेद्यस्तु सूर्योदययुगान्तरे ।
सविता सर्वलोकेशो वरदः सहसा भवेत् ॥ १४९ ॥

बहुनात्र किमुक्तेन पठनादस्य पार्वति ।
इह लक्ष्मीं सदा भुक्त्वा परत्राप्नोति तत्पदम् ॥ १५० ॥

रवौ देवि लिखेद्भूर्जे मन्त्रनामसहस्रकम् ।
अष्टगन्धेन दिव्येन नीलपुष्पहरिद्रया ॥ १५१ ॥

पञ्चामृतौषधीभिश्च नृयुक्पीयूषबिन्दुभिः ।
विलिख्य विधिवन्मन्त्री यन्त्रमध्येऽर्णवेष्टितम् ॥ १५२ ॥

गुटीं विधाय संवेष्ट्य मूलमन्त्रमनुस्मरन् ।
कन्याकर्तितसूत्रेण वेष्टयेद्रक्तलाक्षया ॥ १५३ ॥

सुवर्णेन च संवेष्ट्य पञ्चगव्येन शोधयेत् ।
साधयेन्मन्त्रराजेन धारयेन्मूर्ध्नि वा भुजे ॥ १५४ ॥

किं किं न साधयेद् देवि यन्ममापि सुदुर्लभम् ।
कुष्ठरोगी च शूली च प्रमेही कुक्षिरोगवान् ॥ १५५ ॥

भगन्धरातुरोऽप्यर्शी अश्मरीवांश्च कृच्छ्रवान् ।
मुच्यते सहसा धृत्वा गुटीमेतां सुदुर्लभाम् ॥ १५६ ॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च कामिनी ।
धारयेद्गुटिकामेतां वक्षसि स्मयतर्पिता ॥ १५७ ॥

वन्ध्या लभेत् सुतं कान्तं काकवन्ध्यापि पार्वति ।
मृतवत्सा बहून् पुत्रान् सुरूपांश्च चिरायुशः ॥ १५८ ॥

रणे गत्वा गुटीं धृत्वा शत्रूञ्जित्वा लभेच्छ्रियम् ।
अक्षताङ्गो महाराजः सुखी स्वपुरमाविशेत् ॥ १५९ ॥

यो धारयेद् भुजे नित्यं राजलोकवशङ्करीम् ।
गुटिकां मोहनाकर्षस्तम्भनोच्चाटनक्षमाम् ॥ १५० ॥

स भवेत् सूर्यसङ्काशो महसा महसां निधिः ।
धनेन धनदो देवि विभवेन च शङ्करः ॥ १६१ ॥

श्रियेन्द्रो यशसा रामः पौरुषेण च भार्गवः ।
गिरा बृहस्पतिर्देवि नयेन भृगुनन्दनः ॥ १६२ ॥

बलेन वायुसङ्काशो दयया पुरुषोत्तमः ।
आरोग्येण घटोद्भूतिः कान्त्या पूर्णेन्दुसन्निभः ॥ १६३ ॥

धर्मेण धर्मराजश्च रत्नै रत्नाकरोपमः ।
गाम्भीर्येण तथाम्भोधिर्दातृत्वेन बलिः स्वयम् ॥ १६४ ॥

सिद्ध्या श्रीभैरवः साक्षादानन्देन चिदीश्वरः ।
किं प्रलापेन बहुना पठेद्वा धारयेच्छिवे ॥ १६५ ॥

श‍ृणुयाद् यः परं दिव्यं सूर्यनामसहस्रकम् ।
स भवेद् भास्करः साक्षात् परमानन्दविग्रहः ॥ १६६ ॥

स्वतन्त्रः स प्रयात्यन्ते तद्विष्णोः परमं पदम् ।
इदं दिव्यं महत् तत्त्वं सूर्यनामसहस्रकम् ॥ १६७ ॥

अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने ।
अभक्ताय कुचैलाय परशिष्याय पार्वति ॥ १६८ ॥

कर्कशायाकुलीनाय दुर्जनायाघबुद्धये ।
गुरुभक्तिविहीनाय निन्दकाय शिवागमे ॥ १६९ ॥

देयं शिष्याय शान्ताय गुरुभक्तिपराय च ।
कुलीनाय सुभक्ताय सूर्यभक्तिरताय च ॥ १७० ॥

इदं तत्त्वं हि तत्त्वानां वेदागमरहस्यकम् ।
सर्वमन्त्रमयं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७१ ॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
सूर्यसहस्रनामस्तोत्रनामनिरूपणं चतुस्त्रिंशः पटलः सम्पूर्णः ॥ ३४ ॥

Also Read 1000 Names of Shri Surya Bhagavan 2:

1000 Names of Sri Surya | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Surya | Sahasranama Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top