Templesinindiainfo

Best Spiritual Website

108 Names of Shri Mahasvami | Ashtottara Shatanamavali Lyrics in Hindi

Sri Mahaswami Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीमहास्वामि अष्टोत्तरशतनामावलिः ॥

श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीमच्चन्द्रशेखरेन्द्रसरस्वती
महास्वमि श्रीचरणारविन्द अष्टोत्तरशतनामावलिः
(श्री मठ पाठ)

श्रीचन्द्रशेखरेन्द्रास्मदाचार्याय नमो नमः ।
श्रीचन्द्रमौलिपादाब्जमधुपाय नमो नमः ।
आचार्यपादाधिष्ठानाभिषिक्ताय नमो नमः ।
सर्वज्ञाचार्यभगवत्स्वरूपाय नमो नमः ।
अष्टाङ्गयोगिसन्निष्ठागरिष्ठाय नमो नमः ।
सनकादि महायोगिसदृशाय नमो नमः ।
महादेवेन्द्रहस्ताब्जसञ्जाताय नमो नमः ।
महायोगिविनिर्भेध्यमहत्वाय नमो नमः ।
कामकोटि महापीठाधीश्वराय नमो नमः ।
कलिदोषनिवृत्त्येककारणाय नमो नमः । १० ।

श्रीशङ्करपदाम्भोजचिन्तनाय नमो नमः ।
भारतीकृतजिह्वाग्रनर्तनाय नमो नमः ।
करुणारसकल्लोलकटाक्षाय नमो नमः ।
कान्तिनिर्जितसुर्येन्दुकम्राभाय नमो नमः ।
अमन्दानन्दकृन्मन्दगमनाय नमो नमः ।
अद्वैतानन्दभरितचिद्रूपाय नमो नमः ।
कटितटलसच्चारुकाषायाय नमो नमः ।
कटाक्षमात्रमोक्षेच्छाजनकाय नमो नमः ।
बाहुदण्डलसद्वेणुदण्डकाय नमो नमः ।
फालभागलसद्भूतिपुण्ड्रकाय नमो नमः । २० ।

दरहासस्फुरद्दिव्यमुखाब्जाय नमो नमः ।
सुधामधुरिमामञ्जुभाषणाय नमो नमः ।
तपनीयतिरस्कारिशरीराय नमो नमः ।
तपः प्रभाविराजत्सन्नेत्रकाय नमो नमः ।
सङ्गीतानन्दसन्दोहसर्वस्वाय नमो नमः ।
संसाराम्बुधिनिर्मग्नतारकाय नमो नमः ।
मस्तकोल्लासिरुद्राक्षमकुटाय नमो नमः ।
साक्षात्परशिवामोघदर्शनाय नमो नमः ।
चक्षुर्गतमहातेजोऽत्युज्ज्वलाय नमो नमः ।
साक्षात्कृतजगन्मातृस्वरूपाय नमो नमः । ३० ।

क्वचिद्बालजनात्यन्तसुलभाय नमो नमः ।
क्वचिन्महाजनातीवदुष्प्रापाय नमो नमः ।
गोब्राह्मणहितासक्तमानसाय नमो नमः ।
गुरुमण्डलसम्भाव्यविदेहाय नमो नमः ।
भावनामात्रसन्तुष्टहृदयाय नमो नमः ।
भव्यातिभव्यदिव्यश्रीपदाब्जाय नमो नमः ।
व्यक्ताव्यक्ततरानेकचित्कलाय नमो नमः ।
रक्तशुक्लप्रभामिश्रपादुकाय नमो नमः ।
भक्तमानसराजीवभवनाय नमो नमः ।
भक्तलोचनराजीवभास्कराय नमो नमः । ४० ।

भक्तकामलताकल्पपादपाय नमो नमः ।
भुक्तिमुक्तिप्रदानेकशक्तिदाय नमो नमः ।
शरणागतदीनार्तरक्षकाय नमो नमः ।
शमादिषट्कसम्पत्प्रदायकाय नमो नमः ।
सर्वदा सर्वथा लोकसौख्यदाय नमो नमः ।
सदा नवनवाकाङ्क्ष्यदर्शनाय नमो नमः ।
सर्वहृत्पद्मसञ्चारनिपुणाय नमो नमः ।
सर्वेङ्गितपरिज्ञानसमर्थाय नमो नमः ।
स्वप्नदर्शनभक्तेष्टसिद्धिदाय नमो नमः ।
सर्ववस्तुविभाव्यात्मसद्रूपाय नमो नमः । ५० ।

दीनभक्तावनैकान्तदीक्षिताय नमो नमः ।
ज्ञानयोगबलैश्वर्यमानिताय नमो नमः ।
भावमाधुर्यकलिताभयदाय नमो नमः ।
सर्वभूतगणामेयसौहार्दाय नमो नमः ।
मूकीभूतानेकलोकवाक्प्रदाय नमो नमः ।
शीतलीकृतहृत्तापसेवकाय नमो नमः ।
भोगमोक्षप्रदानेकयोगज्ञाय नमो नमः ।
शीघ्रसिद्धिकरानेकशिक्षणाय नमो नमः ।
अमानित्वादिमुख्यार्थसिद्धिदाय नमो नमः ।
अखण्डैकरसानन्दप्रबोधाय नमो नमः । ६० ।

नित्यानित्यविवेकप्रदायकाय नमो नमः ।
प्रत्येकगरसाखण्डचित्सुखाय नमो नमः ।
इहामुत्रार्थवैराग्यसिद्धिदाय नमो नमः ।
महामोहनिवृत्त्यर्थमन्त्रदाय नमो नमः ।
क्षेत्रक्षेत्रज्ञप्रत्येकदृष्टिदाय नमो नमः ।
क्षयवृद्धिविहीनात्मसौख्यदाय नमो नमः ।
तूलाज्ञानविहीनात्मतृप्तिदाय नमो नमः ।
मूलाज्ञानबाधितात्ममुक्तिदाय नमो नमः ।
भ्रान्तिमेघोच्चाटनप्रभञ्जनाय नमो नमः ।
शान्तिवृष्टिप्रदामोघजलदाय नमो नमः । ७० ।

एककालकृतानेकदर्शनाय नमो नमः ।
एकान्तभक्तसंवेद्यस्वगताय नमो नमः ।
श्रीचक्ररथनिर्माणसुप्रथाय नमो नमः ।
श्रीकल्याणकरामेयसुश्लोकाय नमो नमः ।
आश्रिताश्रयणीयत्वप्रापकाय नमो नमः ।
अखिलाण्डेश्वरीकर्णभूषकाय नमो नमः ।
सशिष्यगणयात्राविधायकाय नमो नमः ।
साधुसङ्घनुतामेयचरणाय नमो नमः ।
अभिन्नात्मैक्यविज्ञानप्रबोधाय नमो नमः ।
भिन्नाभिन्नमतैश्चापि पूजिताय नमो नमः । ८० ।

तत्तद्विपाकसद्बोधदायकाय नमो नमः ।
तत्तद्भाषाप्रकटितस्वगीताय नमो नमः ।
तत्र तत्र कृतानेकसत्कार्याय नमो नमः ।
चित्र चित्रप्रभावप्रसिद्धिकाय नमो नमः ।
लोकानुग्रहकृत्कर्मनिष्ठिताय नमो नमः ।
लोकोद्धृतिमहद्भूरिनियमाय नमो नमः ।
सर्ववेदान्तसिद्धान्तसम्मताय नमो नमः ।
कर्मब्रह्मात्मकरणमर्मज्ञाय नमो नमः ।
वर्णाश्रमसदाचाररक्षकाय नमो नमः ।
धर्मार्थकाममोक्षप्रदायकाय नमो नमः । ९० ।

पदवाक्यप्रमाणादिपारीणाय नमो नमः ।
पादमूलनतानेकपण्डिताय नमो नमः ।
वेदशास्त्रार्थसद्गोष्ठीविलासाय नमो नमः ।
वेदशास्त्रपुराणादिविचाराय नमो नमः ।
वेदवेदाङ्गतत्त्वप्रबोधकाय नमो नमः ।
वेदमार्गप्रमाणप्रख्यापकाय नमो नमः ।
निर्णिद्रतेजोविजितनिद्राढ्याय नमो नमः ।
निरन्तरमहानन्दसम्पूर्णाय नमो नमः ।
स्वभावमधुरोदारगाम्भीर्याय नमो नमः ।
सहजानन्दसम्पूर्णसागराय नमो नमः । १०० ।

नादबिन्दुकलातीतवैभवाय नमो नमः ।
वादभेदविहीनात्मबोधकाय नमो नमः ।
द्वादशान्तमहापीठनिषण्णाय नमो नमः ।
देशकालापरिच्छिन्नदृग्रूपाय नमो नमः ।
निर्मानशान्तिमहितनिश्चलाय नमो नमः ।
निर्लक्ष्यलक्ष्यसंलक्ष्यनिर्लेपाय नमो नमः ।
श्रीषोडशान्तकमलसुस्थिताय नमो नमः ।
श्रीचन्द्रशेखरेन्द्रश्रीसरस्वत्यै नमो नमः । १०८ ।

Also Read 108 Names of Shri Mahaswami:

108 Names of Shri Mahasvami | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Mahasvami | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top