Templesinindiainfo

Best Spiritual Website

108 Names of Shri Trivikrama | Ashtottara Shatanamavali Lyrics in Hindi

Sri Trivikrama Ashtottarashata Namavali was composed by Shri Shri Krishnapremi Anna, this Ashtottaram is recited in Shri Trivikrama Temple in Sirkazhi, Tamil Nadu. The temple is known as Kaazhicheeraamavin Nagaram and is part of the 108 DivyaDesams. Legend says that Sri Vishnu blessed Romesha muni equipped with a Trivikrama vision with his left foot raised in the gesture of dominating the three worlds. The presiding deity Trivikraman looks eastward; Taayaarhere is Lokanayaki. The Utsavamurti-s are Trivikrama Narayanan and Mattavizhkuzhali.

Sri Trivikrama Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीत्रिविक्रमाष्टोत्तरशतनामावलिः ॥
ॐ श्रीगणेशायनमः ॥

ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ त्रिदशाधिपवन्दिताय नमः ।
ॐ त्रिमूर्तिप्रथमाय नमः ।
ॐ विष्णवे नमः ।
ॐ त्रितादिमुनिपूजिताय नमः ।
ॐ त्रिगुणातीतरूपाय नमः ।
ॐ त्रिलोचनसमर्चिताय नमः ।
ॐ त्रिजगन्नायकाय नमः ।
ॐ श्रीमते नमः । १० ।

ॐ त्रिलोकातीतवैभवाय नमः ।
ॐ दैत्यनिर्जितदेवार्तिभञ्चनोर्जितवैभवाय नमः ।
ॐ श्रीकश्यपमनोऽभीष्टपूरणाद्भुतकल्पकाय नमः ।
ॐ अदितिप्रेमवात्सल्यरसवर्द्धनपुत्रकाय नमः ।
ॐ श्रवणद्वादशीपुण्यदिनाविर्भूतविग्रहाय नमः ।
ॐ चतुर्वेदशिरोरत्नभूतदिव्यपदाम्बुजाय नमः ।
ॐ निगमागमसंसेव्यसुजातवरविग्रहाय नमः ।
ॐ करुणामृतसंवर्षिकालमेघसमप्रभाय नमः ।
ॐ विद्युल्लतासमोद्दीप्तदिव्यपीताम्बरावृताय नमः ।
ॐ रथाङ्गभास्करोत्फुल्लसुचारुवदनाम्बुजाय नमः । २० ।

ॐ करपङ्कजसंशोभिहंसभूततरोत्तमाय नमः ।
ॐ श्रीवत्सलाञ्छितोरस्काय नमः ।
ॐ कण्ठशोभितकौस्तुभाय नमः ।
ॐ पीनायतभुजाय नमः ।
ॐ देवाय नमः ।
ॐ वैगन्धीविभूषिताय नमः ।
ॐ आकर्णसञ्च्छन्ननयनसंवर्षितदयारसाय नमः ।
ॐ अत्यद्भुतस्वचारित्रप्रकटीकृतवैभवाय नमः ।
ॐ पुरन्दरानुजाय नमः ।
ॐ श्रीमते नमः । ३० ।

ॐ उपेन्द्राय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ शिखिने नमः ।
ॐ यज्ञोपवीतिने नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ वामनाय नमः ।
ॐ कृष्णाजिनधराय नमः ।
ॐ कृष्णाय नमः ।
ॐ कर्णशोभितकुण्डलाय नमः ।
ॐ माहाबलिमहाराजमहितश्रीपदाम्बुजाय नमः । ४० ।

ॐ पारमेष्ठ्यादिवरदाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ श्रियःपतये नमः ।
ॐ याचकाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ सत्यप्रियाय नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ मायामाणवकाय नमः ।
ॐ हरये नमः । ५० ।

ॐ शुक्रनेत्रहराय नमः ।
ॐ धीराय नमः ।
ॐ शुक्रकीर्तितवैभवाय नमः ।
ॐ सूर्यचन्द्राक्षियुग्माय नमः ।
ॐ दिगन्तव्याप्तविक्रमाय नमः ।
ॐ चरणाम्बुजविन्यासपवित्रीकृतभूतलाय नमः ।
ॐ सत्यलोकपरिन्यस्तद्वितीयचरणाम्बुजाय नमः ।
ॐ विश्वरूपधराय नमः ।
ॐ वीराय नमः ।
ॐ पञ्चायुधधराय नमः । ६० ।

ॐ महते नमः ।
ॐ बलिबन्धनलीलाकृते नमः ।
ॐ बलिमोचनतत्पराय नमः ।
ॐ बलिवाक्सत्यकारिणे नमः ।
ॐ बलिपालनदीक्षिताय नमः ।
ॐ महाबलिशिरन्यस्तस्वपादसरसीरुहाय नमः ।
ॐ कमलासनपाणिस्थकमण्डलुजलार्चिताय नमः ।
ॐ स्वपादतीर्थसंसिक्तपवित्रध्रुवमण्डलाय नमः ।
ॐ चरणामृतसंसिक्तत्रिलोचनजटाधराय नमः ।
ॐ चरणोदकसम्बन्धपवित्रीकृतभूतलाय नमः । ७० ।

ॐ स्वपादतीर्थसुस्निग्धसगरात्मजभस्मकाय नमः ।
ॐ भगीरथकुलोद्धारिणे नमः ।
ॐ भक्ताभीष्टफलप्रदाय नमः ।
ॐ ब्रह्मादिसुरसेव्याय नमः ।
ॐ प्रह्लादपरिपूजिताय नमः ।
ॐ विन्ध्यावलीस्तुताय नमः ।
ॐ विश्ववन्द्याय नमः ।
ॐ विश्वनियामकाय नमः ।
ॐ पातालकलितावासस्वभक्तद्वारपालकाय नमः ।
ॐ त्रिदशैश्वर्यसन्नाहसन्तोषितशचीपतये नमः । ८० ।

ॐ सकलामरसन्तोषस्तूयमानचरित्रकाय नमः ।
ॐ रोमशक्षेत्रनिलयाय नमः ।
ॐ रमणीयमुखाम्बुजाय नमः ।
ॐ रोमशादिमुश्रेष्ठसाक्षात्कृतसुविग्रहाय नमः ।
ॐ श्रीलोकनायिकादेवीनायकाय नमः ।
ॐ लोकनायकाय नमः ।
ॐ कलिहादिमहासुरिमहिताद्भुतविक्रमाय नमः ।
ॐ अपारकरुणासिन्धवे नमः ।
ॐ अनन्तगुणसागराय नमः ।
ॐ अप्राकृतशरीराय नमः । ९० ।

ॐ प्रपन्नपरिपालकाय नमः ।
ॐ परकालमहाभक्तवाक्पटुत्वप्रदायकाय नमः ।
ॐ श्रीवैखानसशास्त्रोक्तपूजासुव्रातमानसाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ गोपिकानाथाय नमः ।
ॐ गोदाकीर्तितविक्रमाय नमः ।
ॐ कोदण्डपाणये नमः ।
ॐ श्रीरामाय नमः ।
ॐ कौसल्यानन्दनाय नमः ।
ॐ प्रभवे नमः । १०० ।

ॐ कावेरीतीरनिलयाय नमः ।
ॐ कमनीयमुखाम्बुजाय नमः ।
ॐ श्रीभूमिनीळारमणाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ संराजत्पुष्कलावर्तविमाननिलयाय नमः ।
ॐ शङ्खतीर्थसमीपस्थाय नमः ।
ॐ चक्रतीर्थतटालयाय नमः ।
ॐ अव्याजकरुणाऽऽकृष्टप्रेमिकानन्ददायकाय नमः । १०८ ।

कलिसाम्राज्यनाशाय नामसाम्राज्यवृद्धये ।
श्रिमन् सद्गुरुराजेन्द्र लोके दिग्विजयं कुरु ॥

श्रीप्रेमिकेन्द्रसद्गुरुमहाराज् की जय्
मङ्गलानि भवन्तु

Also Read 108 Names of Sri Trivikrama:

108 Names of Shri Trivikrama | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Trivikrama | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top