Sri Subrahmanya Trishati Stotram Lyrics in Hindi
Shri Subramanya Trishati Stotram in Hindi: ॥ श्रीसुब्रह्मण्यत्रिशतीस्तोत्रम् ॥ ॐ सौं शरवणभवः शरच्चन्द्रायुतप्रभः । शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः । शतायुष्यप्रदाता च शतकोटिरविप्रभः । शचीवल्लभसुप्रीतः शचीनायकपूजितः । शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः । शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः । शङ्करः शङ्करप्रीतः शंयाककुसुमप्रियः । शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः । शचीनाथसुताप्राणनायकः शक्तिपाणिमान् । शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः । शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः । शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः । शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः। शतकोटिप्रविस्तारयोजनायतमन्दिरः […]