Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Trishati Stotram Lyrics in Hindi

Shri Subramanya Trishati Stotram in Hindi:

॥ श्रीसुब्रह्मण्यत्रिशतीस्तोत्रम् ॥
ॐ सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।

शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ।
शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ।
शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः ।
शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ।
शङ्करः शङ्करप्रीतः शंयाककुसुमप्रियः ।
शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ।
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः
शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः ।
शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ।
शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः।
शतकोटिप्रविस्तारयोजनायतमन्दिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ।
शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः।
शतकोटीन्द्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥ 10 ॥

शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ।
शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ।
शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ।
शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ।
शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वनिभेदनः॥
शशाङ्कार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ।
रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च
राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ।
रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ।
रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः ।
रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥ 20 ॥

रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ।
राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ।
रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ।
राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ।
रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः ।
रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ।
रक्तपीतांबरधरो रक्तगन्धानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ।
रविप्रियो रावणेशस्तोत्रसाममनोधरः ।
राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः
रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसंभवद्वेषी राजीवासनपूजितः ।
रमणीयमहाचित्रमयूरारूढसुन्दरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः
वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥ 30 ॥

वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ।
वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ।
वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ।
वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः ।
वल्लीकुचगिरिद्वन्द्वकुंकुमाङ्कितवक्षकः ।
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ।
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ।
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः।
वामाङ्गो वामनयनो वचद्भूर्व्मनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ।
वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ।
णकाररूपो नादान्तो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ 40 ॥

णकारनादसन्तुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः ।
णकारबिन्दुनिलयो नवग्रहसुरूपकः ।
णकारपठनानन्दो नन्दिकेश्वरवन्दितः ।
णकारघण्टानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ।
णकारपङ्कजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ।
णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः।
णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ।
णकारपेटकमणिर्नागपर्वतमन्दिरः ।
णकारकरुणानन्दो नादात्मा नागभूषणः ।
णकारकिङ्किणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ।
णकारकमलारूढो नामानन्तसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ।
णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः ॥ 50 ॥

णकारमूलनादान्तो णकारस्तम्भनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ।
भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ।
भक्तमङ्गलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ।
भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः ।
भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः।
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ।
भवान्धकारमार्ताण्डो भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ।
भवमॄत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ।
भाषितध्वनिमूलान्तो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ।
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ।
भटवीरनमस्कॄत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ 60 ॥

भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ।
वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ।
वकारामृतमाधुर्यो वकारामृतदायकः ।
वज्राभीतिदक्षहस्तो वामे शक्तिवरान्वितः ।
वकारोदधिपूर्णेन्दुःवकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ।
वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपङ्कजरसो वसुवंशविवर्धनः ।
वकारदिव्यकमलभ्रमरो वायुवन्दितः ।
वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ।
वकारपुष्पसद्गन्धो वकारतटपङ्कजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ।
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ।
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ।
वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ 70 ॥

वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमन्त्रार्थो वकारगृहमङ्गलम्
वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः ।
वकारपञ्जरशुको वलारितनयास्तुतः
वकारमन्त्रमलयसानुमन्मन्दमारुतः ।
वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनः
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पल्कादम्बपुष्पदामस्वलङ्कृतः
वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः ।
वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः
वासनायुक्ततांबूलपूरिताननसुन्दरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ 76 ॥
इति

Also Read:

Muruga / Karthigeya Sri Subrahmanya Trishati Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Subrahmanya Trishati Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top