Sri Dakshinamurthy Navaratna Mala Stotram Lyrics in Sanskrit
Sri Dakshinamurthi Stotram in Sanskrit: ॥ श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम् ॥ मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेषमुकुलीकृतपाणिपद्मम् । मन्दस्मितं मधुरवेषमुदारमाद्यं तेजस्तदस्तु हृदये तरुणेन्दुचूडम् ॥ १ ॥ शान्तं शारदचन्द्रकान्तिधवलं चन्द्राभिरामाननं चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् । वीणां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करै- र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २ ॥ कर्पूरगात्रमरविन्ददलायताक्षं कर्पूरशीतलहृदं करुणाविलासम् । चन्द्रार्धशेखरमनन्तगुणाभिराम- मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३ ॥ द्युद्रोरधस्स्वर्णमयासनस्थं मुद्रोल्लसद्बाहुमुदारकायम् । सद्रोहिणीनाथकलावतंसं […]