Templesinindiainfo

Best Spiritual Website

Chaitanyashtakam 3 Lyrics in Hindi | चैतन्याष्टकम् ३

चैतन्याष्टकम् ३ Lyrics in Hindi:

अथ श्रीचैतन्यदेवस्य तृतीयाष्टकं
उपासितपदाम्बुजस्त्वमनुरक्तरुद्रादिभिः
प्रपद्य पुरुषोत्तमं पदमदभ्रमुद्भ्राजितः ।
समस्तनतमण्डलीस्फुरदभीष्टकल्पद्रुमः
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ १॥

न वर्णयितुमीशते गुरुतरावतारायिता
भवन्तमुरुबुद्धयो न खलु सार्वभौमादयः ।
परो भवतु तत्र कः पटुरतो नमस्ते परं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ २॥

न यत् कथमपि श्रुतावुपनिषद्भिरप्याहितं
स्वयं च विवृतं न यद् गुरुतरावतारान्तरे ।
क्षिपन्नसि रसाम्बुधे तदिह भाक्तरत्नं क्षितौ
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ३॥

निजप्रणयविस्फुरन्नटनरङ्गविस्मापित
त्रिनेत्रनतमण्डलप्रकटितानुरागामृत ।
अहङ्कृतिकलङ्कितोद्धतजनादिदुर्बोध हे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ४॥

भवन्ति भुवि ये नराः कलितदुष्कुलोत्पत्तय-
स्त्वमुद्धरसि तान् अपि प्रचुरचारुकारुण्यतः ।
इति प्रमुदितान्तरः शरणमाश्रितस्त्वामहं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ५॥

मुखाम्बुजपरिस्खलन्मृदुलवाङ्मधूलीरस
प्रसङ्गजनिताखिलप्रणतभृङ्गरङ्गोत्कर ।
समस्तजनमङ्गलप्रभवनामरत्नाम्बुधे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ६॥

मृगाङ्कमधुरानन स्फुरदनिद्रपद्मेक्षण
स्मितस्तवकसुन्दराधर विशङ्कटोरस्तटे ।
भुजोद्धतभुजङ्गमप्रभ मनोजकोटिद्युते
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ७॥

अहं कनककेतकीकुसुमगौर दुष्टः क्षितौ
न दोषलवदर्शिता विविधदोषपूर्णेऽपि ते ।
अतः प्रवणया धिया कृपणवत्सल त्वां भजे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ८॥

इदं धरणिमण्डलोत्सव भवत्पदाङ्केषु ये
निविष्टमनसो नराः परिपठन्ति पद्याष्टकम् ।
शचीहृदयनन्दन प्रकटकीर्तिचन्द्र प्रभो
निजप्रणयनिर्भरं वितर देव तेभ्यः शुभम् ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं तृतीयं सम्पूर्णम् ।

Chaitanyashtakam 3 Lyrics in Hindi | चैतन्याष्टकम् ३

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top