Templesinindiainfo

Best Spiritual Website

Devyashtakam Lyrics in Hindi | देव्यष्टकम्

देव्यष्टकम् Lyrics in Hindi:

श्रीगणेशाय नमः ।
महादेवीं महाशक्तिं भवानीं भववल्लभाम् ।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥ १॥

भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवर्धिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् ॥ २॥

अन्नपूर्णां सदापूर्णां पार्वतीं पर्वपूजिताम् ।
महेश्वरीं वृषारूढां वन्दे त्वां परमेश्वरीम् ॥ ३॥

कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् ।
शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम् ॥ ४॥

जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभिः संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ॥ ५॥

देवदुःखहरामम्बां सदा देवसहायकाम् ।
मुनिदेवैः सदासेव्यां वन्दे त्वां देवपूजिताम् ॥ ६॥

त्रिनेत्रां शङ्करीं गौरीं भोगमोक्षप्रदां शिवाम् ।
महामायां जगद्बीजां वन्दे त्वां जगदीश्वरीम् ॥ ७॥

शरणागतजीवानां सर्वदुःखविनाशिनीम् ।
सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ॥ ८॥

शरणागतजीवानां सर्वदुःखविनाशिनीम् ।
सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ॥ ९॥

देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिभावेन लभते स परं सुखम् ॥ १०॥

इति योगानन्दविरचितं श्रीदेव्यष्टकं सम्पूर्णम् ॥

Devyashtakam Lyrics in Hindi | देव्यष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top