Kakaradi Shri Kalkyashtottarashatanama Stotram Lyrics in Hindi:
॥ ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ
कल्की कल्की कल्किहन्ता कल्किजित्कलिमारकः ।
कल्क्यलभ्यः कल्मषघ्नः कल्पितक्षोणिमङ्गलः ॥ १ ॥
कलिताश्वाकृतिः कन्तुसुन्दरः कञ्जलोचनः ।
कल्याणमूर्तिः कमलाचित्तचोरः कलानिधिः ॥ २ ॥
कमनीयः कलिनिशाकल्यनामा कनत्तनुः ।
कलानिधिसहस्राभा कपर्दिगिरिसन्निभः ॥ ३ ॥
कन्दर्पदर्पदमनः कण्ठीरवपराक्रमः ।
कन्धरोच्चलितश्वेतपटानिर्धूतकन्धरः ॥ ४ ॥
कठोरहेषानिनदत्रासिताशेषमानुषः ।
कविः कवीन्द्रसंस्तुत्यः कमलासनसन्नुतः ॥ ५ ॥
कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलः ।
कचित्तदर्पदमनगमनस्तम्भिताहिपः ॥ ६ ॥
कलाकुलकलाजालचलवालामलाचलः ।
कल्याणकान्तिसन्तान पारदक्षालिताखिलः ॥ ७ ॥
कल्पद्रुकुसुमाकीर्णः कलिकल्पमहीरुहः ।
कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतिः ॥ ८ ॥
कञ्जासनाण्डामितात्मप्रतापः कन्धिबन्धनः ।
कठोरखुरविन्यासपीडिताशेषभूतलः ॥ ९ ॥
कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुरः ।
कदर्थीकृतरुद्रादिवीरवर्यः कठोरदृक् ॥ १० ॥
कविलोकामृतासार वर्षायितदृगावलिः ।
कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततिः ॥ ११ ॥
कठोरश्वासनिर्धूतखलतूलावृताम्बुधिः ।
कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवः ॥ १२ ॥
कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुतः ।
कञ्जास्याण्डबिभित्योर्थ्वदृष्टिश्रुतियुगाद्भुतः ॥ १३ ॥
कनत्पक्षद्वयव्याज शङ्खचक्रोपशोभितः ।
कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चितः ॥ १४ ॥
कलितांशुगदावालः कण्ठसन्मणिविभ्रमः ।
कलानिधिलसत्फालः कमलालयविग्रहः ॥ १५ ॥
कर्पूरखण्डरदनः कमलाबडबान्वितः ।
करुणासिन्धुफेनान्तलम्बमानाधरोष्टकः ॥ १६ ॥
कलितानन्तचरणः कर्मब्रह्मसमुद्भवः ।
कर्मब्रह्माब्जमार्ताण्डः कर्मब्रह्मद्विरर्दनः ॥ १७ ॥
कर्मब्रह्ममयाकारः कर्मब्रह्मविलक्षणः ।
कर्मब्रह्मात्यविषयः कर्मब्रह्मस्वरूपवित् ॥ १८ ॥
कर्मास्पृष्टः कर्महीनः कल्याणानन्दचिन्मयः ।
कञ्जासनाण्डजठरः कल्पिताखिलविभ्रमः ॥ १९ ॥
कर्मालसजनाज्ञेयः कर्मब्रह्ममतासहः ।
कर्माकर्मविकर्मस्थः कर्मसाक्षी कभासकः ॥ २० ॥
कचन्द्राग्न्युडुतारादिभासहीनः कमध्यगः ।
कचन्द्रादित्यलसनः कलावार्ताविवर्जितः ॥ २१ ॥
करुद्रमाधवमयः कलाभूतप्रमातृकः ।
कलितानन्तभुवन सृष्टिस्थितिलयक्रियः ॥ २२ ॥
करुद्रादि तरङ्गाध्यस्वात्मानन्दपयोदधिः ।
कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमाः ॥ २३ ॥
कलिचेतस्सरोहंसः कलिताखिलचोदनः ।
कलानिधिवरज्योत्स्नामृतक्षालितविग्रहः ॥ २४ ॥
कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेवितः ।
कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चितः ॥ २५ ॥
कलानिधिकलाश्वेतशारदाम्बुदविग्रहः ।
कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चितः ॥ २६ ॥
कलितात्मानन्दभुक्तिः करुङ्नीराजिताकृतिः ।
कश्यपादिस्तुतख्यातिः कविचेतस्सुमार्पणः ॥ २७ ॥
कलिताकारसद्धर्मः कलाफलमयाकृतिः ।
कठोरखुरघातात्तप्राणाधर्मवशुः कलिजित् ॥ २८ ॥
कलापूर्णीकृतवृषः कल्पितादियुगस्थितिः ।
कम्रः कल्मषपैशाचमुक्ततुष्टधरानुतः ॥ २९ ॥
कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तरः ।
कल्याणात्मयशोवल्लीपुष्पायितकलानिधिः ॥ ३० ॥
कल्याणात्मयशस्सिन्धु जाताप्सरसनर्तितः ।
कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधिः ॥ ३१ ॥
कमलासनधीमन्थमथितानन्दसिन्धुभू ।
कल्याणसिन्धुः कल्याणदायी कल्याणमङ्गलः ॥ ३२ ॥
॥ इति ककारादि कल्क्यष्टोत्तरशतनाममूलं लिखितं रामेण
पराभवाश्वयुज बहुल चतुर्थ्याम् समर्पितं च
श्रीमते हयग्रीवाय देवाय ॥
Also Read:
Kakaradi Shri Kalki Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil