Templesinindiainfo

Best Spiritual Website

Narayana Kavacham Stotram Lyrics in Hindi

Narayana Kavacham Lyrics in Hindi:

अङ्गन्यासः
ॐ ॐ पादयोः नमः ।
ॐ नं जानुनोः नमः ।
ॐ मोम् ऊर्वोः नमः ।
ॐ नाम् उदरे नमः ।
ॐ रां हृदि नमः ।
ॐ यम् उरसि नमः ।
ॐ णां मुखे नमः ।
ॐ यं शिरसि नमः ।

करन्यासः
ॐ ॐ दक्षिणतर्जन्याम् नमः ।
ॐ नं दक्षिणमध्यमायाम् नमः ।
ॐ मों दक्षिणानामिकायाम् नमः ।
ॐ भं दक्षिणकनिष्ठिकायाम् नमः ।
ॐ गं वामकनिष्ठिकायाम् नमः ।
ॐ वं वामानिकायाम् नमः ।
ॐ तें वाममध्यमायाम् नमः ।
ॐ वां वामतर्जन्याम् नमः ।
ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः ।
ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः ।
ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः ।
ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः ।

विष्णुषडक्षरन्यासः%
ॐ ॐ हृदये नमः ।
ॐ विं मूर्ध्नै नमः ।
ॐ षं भ्रुर्वोर्मध्ये नमः ।
ॐ णं शिखायाम् नमः ।
ॐ वें नेत्रयोः नमः ।
ॐ नं सर्वसन्धिषु नमः ।
ॐ मः प्राच्याम् अस्त्राय फट् ।
ॐ मः आग्नेय्याम् अस्त्राय फट् ।
ॐ मः दक्षिणस्याम् अस्त्राय फट् ।
ॐ मः नैऋत्ये अस्त्राय फट् ।
ॐ मः प्रतीच्याम् अस्त्राय फट् ।
ॐ मः वायव्ये अस्त्राय फट् ।
ॐ मः उदीच्याम् अस्त्राय फट् ।
ॐ मः ऐशान्याम् अस्त्राय फट् ।
ॐ मः ऊर्ध्वायाम् अस्त्राय फट् ।
ॐ मः अधरायाम् अस्त्राय फट् ।

श्री हरिः

अथ श्रीनारायणकवच

॥ राजोवाच ॥
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ 1 ॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे ॥ 2 ॥

॥ श्रीशुक उवाच ॥
वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ 3 ॥

विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ 4 ॥

नारायणमयं वर्म संनह्येद् भय आगते ।
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि ॥ 5 ॥

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ 6 ॥

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया ।
प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ 7 ॥

न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ 8 ॥

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः ॥ 9 ॥

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ 10 ॥

आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ॥ 11 ॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ॥ 12 ॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात् ।
स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खे‌உवतु विश्वरूपः ॥ 13 ॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहो‌உसुरयुथपारिः ।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ 14 ॥

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामो‌உद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ॥ 15 ॥

मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ॥ 16 ॥

सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ 17 ॥

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ 18 ॥

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् ।
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ॥ 19 ॥

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः ।
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ 20 ॥

देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ॥ 21 ॥

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो‌உसिधरो जनार्दनः ।
दामोदरो‌உव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ 22 ॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ॥ 23 ॥

गदे‌உशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ 24 ॥

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनो‌உरेर्हृदयानि कम्पयन् ॥ 25 ॥

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।
चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ 26 ॥

यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यों‌உहोभ्य एव वा ॥ 27 ॥

सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः प्रतीपकाः ॥ 28 ॥

गरूड़ो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ 29 ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः ॥ 30 ॥

यथा हि भगवानेव वस्तुतः सद्सच्च यत् ।
सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः ॥ 31 ॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ 32 ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ 33

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः ।
प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ॥ 34 ॥

मघवन्निदमाख्यातं वर्म नारयणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितो‌உसुरयूथपान् ॥ 35 ॥

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ 36 ॥

न कुतश्चित भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ 37 ॥

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ॥ 38 ॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ॥ 39 ॥

गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ 40 ॥

॥ श्रीशुक उवाच ॥
य इदं शृणुयात् काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ 41 ॥

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य‌உमृधेसुरान् ॥ 42 ॥

॥ इति श्रीनारायणकवचं सम्पूर्णम् ॥
( श्रीमद्भागवत स्कन्ध 6,अ । 8 )

Also Read:

Narayana Kavacham Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Narayana Kavacham Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top