Templesinindiainfo

Best Spiritual Website

Pathita Siddha Sarasvatastavah Lyrics in Hindi | पठितसिद्धसारस्वतस्तवः

पठितसिद्धसारस्वतस्तवः Lyrics in Hindi:

व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा-
याराध्या गुरुभिर्गुरोरपि गुरुदेवैस्तु या वन्द्यते ।
देवानामपि देवता वितरतात् वाग्देवता देवता
स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रो वर ॥ १॥

ॐ ह्रीं श्रीप्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हि या
सैं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथाहिता ।
श्रीँ क्लीँ ब्लीँ चरमा गुणानुपरमा जायेत यस्या रमा
विद्यैषा वषडिन्द्रगीःपतिकरी वाणीं स्तुवे तामहम् ॥ २॥

ॐ कर्णे ! वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी
ह्रींस्वाहान्तपदां समस्तविपदां छेत्त्री पदं सम्पदाम् ।
संसारार्णवतारिणी विजयते विद्यावदाते शुभे
यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥ ३॥

सर्वाचारविचारिणी प्रतरिणी नौर्वाग्भवाब्धौ नॄणां
वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्रावणी ।
सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं
शेते यस्तरणी रणीषु निपुणा जैनी पुनातु ध्रुवम् ॥ ४॥

ॐ ह्रीं बीजमुखा विधूतविमुखा संसेविता सन्मुखा
ऐं क्लीँ सौँ सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता ।
विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धा मतिः
सा ब्राह्मी जिनवक्त्रवज्रललने लीना तु लीलानु माम् ॥ ५॥

ॐ अर्हन्मुखपद्मवासिनि शुभे ! ज्वालासहस्रांशुभे
पापप्रक्षयकारिणि ! श्रुतधरे ! पापं दहत्या शुभे ।
क्षाँ क्षीँ क्षूँ वरबीजदुग्धवले ! वं वं वहं स्वावहा
श्रीवाग्देव्यमृतोद्भवे ! यदि भवे मे मानसे सा भवे ॥ ६॥

हस्ते शर्मदपुस्तिकां विदधती सत्पात्रकं चापरं
लोकानां सुखदं प्रभूतवरदं सज्ज्ञानमुद्रं परम् ।
तुभ्यं बालमृणालकन्दललसल्लीलाविलोलं करं
प्रख्याता श्रुतदेवता विदधती सूक्ष्मं नृणां सूनृतम् ! ॥ ७॥

हंसो हंसोतिगर्वं वहति हि विधृता यन्मयैषा मयैषा
यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरां सैव यक्षावयक्षा ।
साध्वी साध्वी शिवार्या प्रविधृतभुवना दुर्धरा या धराया
देवी देवीजनार्थ्या रमतु मम सदा मानसे मानसे सा ॥ ८॥

स्पष्टपाठं पठत्येतत् ध्यानेन पटुनाष्टकम् ।
अजस्रं यो जनस्तस्य भवनयुत्तमसम्पदः ॥ ९॥

॥ इति साध्वीशिवार्याविरचितं पठितसिद्धसारस्वतस्तवः सम्पूर्णः ॥

Pathita Siddha Sarasvatastavah Lyrics in Hindi | पठितसिद्धसारस्वतस्तवः

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top