Templesinindiainfo

Best Spiritual Website

Putra Gita Lyrics in Hindi

Putra Geetaa in Hindi:

॥ पुत्रगीता ॥
भीष्मेण युधिष्ठिरम्प्रति कालस्य द्रुततरपातितय सद्यः साधनस्य
सम्पादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः ॥ १॥

युधिष्ठिर उवाच । ०
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच । २
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ २ ॥
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।
बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥ ३ ॥
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥ ४ ॥
पुत्र उवाच । ५
धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् ।
पितस्तदाचक्ष्व यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम् ॥ ५ ॥
पितोवाच। ६
वेदानधीत्य ब्रह्मचर्येण पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम् ।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ ६ ॥
पुत्र उवाच । ७
एवमभ्याहते लोके समन्तात्परिवारिते ।
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ ७ ॥
पितोवाच। ८
कथमभ्याहतो लोकः केन वा परिवारितः ।
अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् ॥ ८ ॥
पुत्र उवाच । ९
मृत्युनाभ्याहतो लोको जरया परिवारितः ।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥ ९ ॥
पितोवाच। १०
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥ १० ॥

पुत्र उवाच । ११
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा ।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥ ११ ॥
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥ १२ ॥
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १३ ॥
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् ।
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥ १४ ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ १५ ॥
को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् ।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ १६ ॥
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥ १७ ॥
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् ।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥ १८ ॥
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ १९ ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ २० ॥

कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम् ।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥ २१ ॥
दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् ।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥ २२ ॥
नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ २३ ॥
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ २४ ॥
अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः ।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ २५ ॥
तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि ।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ २६ ॥
हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः ।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥ २७ ॥
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ २८ ॥
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥ २९ ॥
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ ३० ॥

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् ॥ ३१ ॥
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ॥ ३२ ॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति ।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥ ३३ ॥
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा ।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥ ३४ ॥
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमन्दुःखं नास्ति त्यागसमं सुखम् ॥ ३५ ॥
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा ।
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ ३६ ॥
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरभः क्रियाभ्यः ॥ ३७ ॥
किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताः पिता च ॥ ३८ ॥
भीष्म उवाच । ३९
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप ।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः  ॥ ३९ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःसप्तत्यधिकशततमोऽध्यायः ॥ १७४ ॥

Mahabharata – Shanti Parva – Chapter Footnotes

४ मोक्षधर्माणामर्थेषु कुशलः ॥

५ यथार्थयोगं फलसम्बन्धमनतिक्रम्य तात
कुर्याच्छुभार्थी इति ड।थ।पाठः । तात कुर्यात्प्रजासु इति ट। पाठः ॥

७ अमोधास्वायुर्हरणेन सफलासु रात्रिषु ॥

११ वन्ध्यं निष्फलम् ॥

१२ यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति सम्बन्धः ॥

१३ पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा । आर्तवं विना
पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात्। विचिन्वन्तं शास्त्रदृष्ट्या
आघ्राणेन च। उरणं मेषम् ॥

१७ एषां पुत्रादीनाम् ॥

१९ सञ्चिन्वानकं कुत्सितं सञ्चिन्वानं सङ्ग्रहीतारम् ॥

२० कार्यं कर्तुमिष्टम् । कृताकृतमर्धकृतम् ॥

ईहा तृष्णा ॥

२१ कर्मसंज्ञितं वणिगित्यादि कर्मानुरूपसंज्ञावन्तम् ॥

२४ द्वयेनान्तकजराख्येन ॥

२५ ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं
न तु वासमात्रम् । गोष्ठमिव गोष्ठं वासस्थानाम्। अरण्यं
विविक्तदेशः। गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः ॥

२६ यान्ति मुक्तिमिति शेषः ॥

२७ न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः । हेतुः
श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिस्नस्तेनादिभिः

२८ मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं
कैवल्यम् ॥

२९ सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं
वेदान्तश्रवणादि तदाचारस्तदनुष्ठाता । सत्ययोगपरायणः
ब्रह्मध्यानपरायणः। सत्यः प्रमाणभूत आगमो गुरुवे दवाक्यं यस्य
स सत्यागमः श्रद्धावान् ॥

३२ शान्तियज्ञ इन्द्रियनिग्रहः । ब्रह्मयज्ञो
नित्यमुपनिषदर्थचिन्तनम्। वाग्यज्ञः जपः। मनोयज्ञः
ध्यानं। कर्मयज्ञः स्रानशौचगुरुशुश्रूषाद्यावश्यक
धर्मानुष्ठानम्। उदगायने देवयानपथनिमित्तम्। दैर्घ्यमार्षम् ॥

३३ अन्तवद्भिरनित्यफलैः । क्षेत्रयज्ञैः शरीरनाशनैः ॥

३६ आत्मनि परमात्मनि प्रलये स्थित इति शेषः । आत्मना
सृष्टिकाले जातः ॥

३७ एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम्
। दण्डनिधानं वाङ्भनः कायौर्हिसात्यागः ॥

Also Read:

Putra Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Putra Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top