Templesinindiainfo

Best Spiritual Website

Shankara Gita Lyrics in Hindi

Shankara Geetaa in Hindi:

॥ शङ्करगीता ॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
प्रथमोऽध्यायः ॥१ ॥

मार्कण्डेय उवाच ।
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।
नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥ १ ॥

गङ्गानिर्झरसंजाते सततं चारुनिःस्वने ।
देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २ ॥

राम उवाच ।
देवदेव महादेव गङ्गालुलितमूर्धज ।
शशाङ्कलेखासंयुक्त जटाभारतिभास्वर ॥ ३ ॥

पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन ।
भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥ ४ ॥

त्वत्तः परतरं देवं नान्यं पश्यामि कञ्चन ।
पूजयन्ति सदा लिङ्गं तव देवाः सवासवाः ॥ ५ ॥

स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः ।
पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६ ॥

जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ।
त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥ ७ ॥
कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ।
आचक्ष्व तन्मे भगवन् यद्यनुग्राह्यता मयि ॥ ८ ॥

प्रमादसाम्मुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान ।
भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि सञ्जातकुतूहलात्मा ॥ ९ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
परशुरामोपाख्याने
शङ्करगीतासु रामप्रश्नो नमैकपञ्चाशत्तमोऽध्यायः ॥५१ ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते
शङ्करगीतासु द्वितीयोऽध्यायः ॥२ ॥

शङ्कर उवाच ।
त्वदुक्तोऽयमनुप्रश्नो राम राजीवलोचन ।
त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १ ॥

यत्तत्परमकं धाम मम भार्गवनन्दन ।
यत्तदक्षरमव्यक्तं पारं यस्मान्न विद्यते ।
ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम् ॥ २ ॥

त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ।
एतद्राम रहस्यं ते यथावत्कथितं वचः ॥ ३ ॥

ये भक्तास्तमजं देवं न ते यान्ति पराभवम् ।
तमीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४ ॥

नारायणमनिर्देश्यं जगत्कारणकारणम् ।
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ॥ ५ ॥

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सार्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ६ ॥

असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ।
बहिरन्तश्च भूतनामचरश्चर एव च ॥ ७ ॥

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् ।
अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८ ॥

भूतवर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । भूतभर्तृ-as per
BG)
ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते ॥ ९ ॥ (तमसः-as per BG)
अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते ।
प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः ॥ १० ॥

यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् ।
इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११ ॥

यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ।
यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२ ॥

यश्च सर्वमयो देवस्तं देवं चिन्तयाम्ययम् ।
योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १३ ॥

जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् ।
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४ ॥

युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये जगत्पतिम् ।
यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ १५ ॥

गुणभूतानि भूतेशे सूत्रे मणिगणा इव ।
यस्मिन्नित्ये तते तन्तौ दृष्टे स्रगिव तिष्ठति ॥ १६ ॥

सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ।
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ॥ १७ ॥

प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥ १८ ॥

गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ।
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९ ॥

गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ।
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम् ॥ २० ॥

यं दिव्यैर्देवमर्चन्ति मुह्यैः परमनामभिः ।
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१ ॥

इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ।
पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२ ॥

क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ।
यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम् ॥ २३ ॥

नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ।
यमाहुर्जगतां कोशं यस्मिन् सन्निहिताः प्रजाः ॥ २४ ॥

यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा ।
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५ ॥

अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।
यं सुरासुरगन्धर्वास्ससिद्धर्षिमहोरगाः ॥ २६ ॥

प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् ।
अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७ ॥

अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ।
अतिवाय्विन्द्रकर्माणं चातिसूर्याग्नितेजसम् ॥ २८ ॥

अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् ।
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ २९ ॥

वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ।
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ ३० ॥

चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ।
यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥ ३१ ॥

यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् ।
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ॥ ३२ ॥

प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् ।
परः कालात्परो यज्ञात्परस्सदसतश्च यः ॥ ३३ ॥

अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ।
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ ३४ ॥

पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम् ।
नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३५ ॥

प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥ ३६ ॥

वराहशीर्षं नरसिंहरूपं
देवेश्वरं वामनरूपरूपम् ।
त्रैलोक्यनाथं वरदं वरेण्यं
तं राम नित्यं मनसा नतोऽस्मि ॥ ३७ ॥

वक्त्राद्यस्य ब्राह्मणास्सम्प्रभूता
यद्वक्षसः क्षत्रियाः सम्प्रभूताः ।
यस्योरुयुग्माच्च तथैव वैश्याः
पद्भ्यां तथा यस्य शूद्राः प्रसूताः ॥ ३८ ॥

व्याप्तं तथा येन जगत्समग्रं
विभूतिभिर्भूतभवोद्भवेन ।
देवाधिनाथं वरदं वरेण्यं
तं राम नित्यं मनसा नतोऽस्मि ॥ ३९ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
श्रीभार्गवरामप्रश्ने
शङ्करगीतासु ध्येयनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२ ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
तृतीयोऽध्यायः ॥३ ॥

राम उवाच ।
वराहं नरसिंहं च वामनं च महेश्वर ।
त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १ ॥

शङ्कर उवाच ।
अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च ।
अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥ २ ॥

दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ ।
हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ॥ ३ ॥

ततोऽभिषिक्तवान् शक्रं देवराज्ये प्रजापतिः ।
दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४ ॥

अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च ।
पातालं शासति तथा हिरण्याक्षे महासुरे ॥ ५ ॥

धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा । धराधरा?
पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥ ६ ॥

धराधरपरित्यक्ता धरा चलनिबन्धना ।
यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा ॥ ७ ॥

दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः ।
सैन्यमुद्योजयामास जातशङ्कः सुरान् प्रति ॥ ८ ॥

उद्युक्तेन स सैन्येन दैत्यानां चतुरङ्गिणा ।
विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ॥ ९ ॥

हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा ।
देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १० ॥

त्रिदशान् शरणं प्रप्तान् हिरण्याक्षविवासितान् ।
संयोज्याभयदानेन विससर्ज जनार्दनः ॥ ११ ॥

विसृज्य त्रिदशान् सर्वान् चिन्तयामास केशवः ।
किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम् ॥ १२ ॥

तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः ।
ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया ॥ १३ ॥

नृवराहो भविष्यामि न देवो न च मानुषः ।
तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः ॥ १४ ॥

एतावदुक्त्वा सङ्गेन नृवराहोऽभवत्प्रभुः ।
चूर्णिताञ्जनशैलाभस्तप्तजाम्बूनदाम्बरः ॥ १५ ॥

यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः ।
तदोघ इव दुर्वार्यस्तत्पित्रा तेजसा समः ॥ १६ ॥

तत्प्रवाह इवाक्षोभ्यस्तत्प्रवाह इवौघवान् ।
तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः ॥ १७ ॥

सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः ।
पीतवासास्तदा भाति सविद्युदिव तोयदः ॥ १८ ॥

उरसा धारयन् हारं शशाङ्कसदृशच्छविः ।
शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः ॥ १९ ॥

शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः ।
मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २० ॥

कराभ्यां धारयन् भाति शङ्खचक्रे जनार्दनः ।
चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ २१ ॥

महाजीमूतसङ्काशो महाजीमूतसन्निभः ।
महाजीमूतवद्वेगी महाबलपराक्रमः ॥ २२ ॥

दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ ।
हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम् ॥ २३ ॥

दानवांश्चोदयामास तिर्यग्जातमपूर्वकम् ।
गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ २४ ॥

इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् ।
जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५ ॥

हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् ।
चोदयामास संरब्धान् वराहाधिककारणात् ॥ २६ ॥

चोदिता दानवेन्द्रेण दानवाः शस्त्रपाणयः ।
प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७ ॥

दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ।
नैव शेकुर्वृथाकर्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८ ॥

हन्यमानोऽपि दैत्येन्द्रैः दानवान् मधुसूदनः ।
जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥ २९ ॥

हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः ।
उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम् ॥ ३० ॥

हिरण्याक्षस्तु तान् दृष्ट्वा विफलांश्च शिलीमुखान् ।
शिलीमुखाभान् सम्पश्यन् समपश्यन्महद्भयम् ॥ ३१ ॥

ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा ।
तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ ३२ ॥

ततो गदां काञ्चनपट्टनद्धां विभूषितां किङ्किणिजालसङ्घैः ।
चिक्षेप दैत्याधिपतिः स घोरां तां चापि देवो विफलीचकार ॥ ३३ ॥

शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् ।
चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च ॥ ३४ ॥

ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य सङ्ख्ये ।
दैत्याधिपस्तस्य ससर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५ ॥

शङ्खस्वनेनापि जनार्दनश्च विद्राव्य दैत्यान् सकलान् महात्मा ।
सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६ ॥

निपातिते दैत्यपतौ स देवः सम्पूजितः शक्रपितामहाभ्याम् ।
मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७ ॥

शक्रोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान् धरणीधराणाम् ।
ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे शङ्करगीतासु नृवराहप्रादुर्भावे
हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३ ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
चतुर्थोऽध्यायः ॥४ ॥

शङ्कर उवाच ।
हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ।
हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः ॥ १ ॥

दशवर्षसहस्राणि दशवर्षशतानि च ।
जयोपवासनिरतः स्नानमौनाश्रितव्रतः ॥ २ ॥

तपःशमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ ३ ॥

विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।
आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः ॥ ४ ॥

रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ।
दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५ ॥

निम्नगाभिः समुद्रैश्च मासर्त्वयनसंधिभिः ।
नक्षत्रैश्च मुहूर्तैश्च कालस्यावयवैस्तथा ॥ ६ ॥

देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ ७ ॥

चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ८ ॥

ब्रह्मोवाच ।
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ९ ॥

हिरण्यकशिपुरुवाच ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ १० ॥

ऋषयोऽपि न मां शापं क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम् ॥ ११ ॥

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।
न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन ॥ १२ ॥

भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ १३ ॥

अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च तथाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ १४ ॥

ब्रह्मोवाच ।
एते दिव्यवरांस्तात मया दत्तास्तवाद्भुताः ।
सर्वान् कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ १५ ॥

शङ्कर उवाच ।
एवमुक्त्वा स भगवान् जगामाकाशमेव हि ।
वैराजं देवसदनं महर्षिगणसेवितम् ॥ १६ ॥

ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १७ ॥

देवा ऊचुः ।
वरेणानेन भगवन् वधिष्यति स नोऽसुरः ।
तन्नः प्रसीद भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ १८ ॥

भगवान् सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः ।
स्रष्टा च हव्यकव्यानां चाव्यक्तः प्रकृतिर्ध्रुवः ॥ १९ ॥

शङ्कर उवाच ।
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच वरदो वाक्यं सर्वान् देवगणांस्ततः ॥ २० ॥

ब्रह्मोवाच ।
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तत(?)स्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति ॥ २१ ॥

शङ्कर उवाच ।
एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २२ ॥

लघुमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः । (लब्धमात्रे?)
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २३ ॥

आश्रमेषु महात्मानो मुनीन्द्रान् संशितव्रतान् ।
सत्यधर्मरतान् दान्तान् दुराधर्षो भवंस्तु सः ॥ २४ ॥

देवन् त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ २५ ॥

यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ।
याज्ञियान् कृतवान् दैत्यानयाज्ञेयाश्च देवताः ॥ २६ ॥

आदित्यवसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७ ॥

शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ।
देवं ब्रह्ममयं विष्णुं ब्रह्मभूतसनातनम् ॥ २८ ॥

भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ।
नारायणं विभुं देवाः शरण्यं शरणं गताः ॥ २९ ॥

देवा ऊचुः ।
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ ३० ॥

प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयङ्कर ।
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ ३१ ॥

श्रीभगवानुवाच ।
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ ३२ ॥

एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ३३ ॥

शङ्कर उवाच ।
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान् ।
नारसिंहं वपुश्चक्रे सहस्रांशुसमप्रभम् ॥ ३४ ॥

प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम्
।दैत्यसैन्यमहाम्भोधिवडवानलवर्चसम् ॥ ३५ ॥

सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् ।
देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ॥ ३६ ॥

सम्पूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः ।
पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम् ॥ ३७ ॥

नखैर्विद्रुमसङ्काशैर्विराजितकरद्वयम् ।
दैत्यनाथक्षयकरैः क्रोधस्येव यथाङ्कुरैः ॥ ३८ ॥

सटाभारं सकुटिलं वह्निज्वालाग्रपिङ्गलम् ।
धारयन् भाति सर्वात्मा दावानलमिवाचलः ॥ ३९ ॥

दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला ।
प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता ॥ ४० ॥

आवर्तिभिर्लोमघनैः व्याप्तं विग्रहमूर्जितम् ।
महाकटितटस्कन्धमलातप्रतिमेक्षणम् ॥ ४१ ॥

कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् ।
दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ॥ ४२ ॥

कृत्वा मूर्तिं नृसिंहस्य दानवेन्द्रसभां ययौ ।
तां बभञ्ज तु वेगेन दैत्यानां भयवर्धनः ॥ ४३ ॥

भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना ।
हिरण्यकशिपू राजा दानवान् समचोदयत् ॥ ४४ ॥

सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् ।
घातयध्वं दुराधर्षं येन मे नाशिता सभा ॥ ४५ ॥

तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः ।
आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ॥ ४६ ॥

नानायुधसहस्राणि तस्य गात्रेषु भार्गव ।
विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते ॥ ४७ ॥

दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् ।
करपादप्रहारैश्च शतशोऽथ सहस्रशः ॥ ४८ ॥

जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः ।
नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम् ॥ ४९ ॥

वेगेनोत्सङ्गमारोप्य कदलीदललीलया ।
दारयामास दैत्येशं वक्षस्थलमहागिरिम् ॥ ५० ॥

कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् ।
असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात् ॥ ५१ ॥

हत्वासुरं शोणितबिन्दुचित्रं सम्पूज्य देवाः सह वासवेन ।
जग्मुः स्वधिष्ण्यानि मुदा समेता देवोऽप्यथान्तर्हितमूर्तिरास ॥ ५२ ॥

इति श्रिविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु
नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥५४ ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
पञ्चमोऽध्यायः ॥५ ॥

शङ्कर उवाच ।
हते हिरण्यकशिपौ दानवे देवकण्टके ।
हतशेषास्तु दैतेयाः पातालतलमाश्रिताः ॥ १ ॥

पातालतलसंस्थेषु दानवेषु महायशाः ।
प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ २ ॥

आराध्य तपसोग्रेण वरं लेभे पितामहात् ।
अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ ३ ॥

वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः ।
प्रहृष्टा दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ ४ ॥

सम्प्राप्य दैत्यराज्यं तु बलेन चतुरङ्गिणा ।
जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ ५ ॥

स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः ।
कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ ६ ॥

ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् ।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ ७ ॥

देवोऽप्यभयदानेन संयोज्य बलसूदनं ।
उवाच वचनं काले मेघगंभीरया गिरा ॥ ८ ॥

श्रीभगवानुवाच ।
गच्छ शक्र भविष्यामि त्राता ते बलसूदन ।
देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम् ॥ ९ ॥

शङ्कर उवाच ।
एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम् ।
आदिदेशादितेर्गर्भं चांशेनाथ च सर्वदा ॥ १० ॥

गर्भस्य एव तेजांसि दानवेभ्यः स आददे ।
ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ ११ ॥

यस्मिन् जाते सुरगणाः प्रहर्षमतुलं गताः ।
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ १२ ॥

एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ।
बलिर्दैत्यपतिः श्रिमान् स्यालिग्राममुपाश्रितः ॥ १३ ॥

वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः ।
अनयद्भृगुशार्दूल नूनं तस्यैव मायया ॥ १४ ॥

यज्ञवाटं स सम्प्राप्य यज्ञं तुष्टाव वामनः ।
आत्मानमात्मना ब्रह्मन् भस्मच्छन्न इवानलः ॥ १५ ॥

प्रवेशयामास च तं बलिर्धर्मभृतां वरः ।
ददर्श च महाभागं वामनं सुमनोहरम् ॥ १६ ॥

संयुक्तसर्वावयवैः पीनैः सङ्क्षिप्तपर्वभिः ।
कृष्णाजिनजटादण्डकमण्डलुविराजितम् ॥ १७ ॥

विक्रमिष्यन् यथा व्याघ्रो लीयति स्म स्वविग्रहम् ।
विक्रमिष्यंस्तथैवोर्वीं लीनगात्रः स्वविग्रहे ॥ १८ ॥

एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ।
तस्मात्तु प्रार्थयद्राजन् देहि मह्यं क्रमत्रयम् ॥ १९ ॥

एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः ।
प्रददावुदकं तस्य पावयस्वेति चाब्रवीत् ॥ २० ॥

अन्न्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम ।
प्रतिजग्राह च जलं प्रवात्येव तदा हरिः ॥ २१ ॥

उदङ्मुखैर्दैत्यवरैः वीक्ष्यमाण इवाम्बुदः ।
आक्रमंस्तु हरिर्लोकान् दानवाः शस्त्रपाणयः ॥ २२ ॥

अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तदा ॥ २३ ॥

घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरवृकमुखास्तथा ॥ २४ ॥

मार्जारशशवक्त्राश्च हंसकाकाननास्तथा ।
गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५ ॥

सिंहव्याघ्रश‍ृगालानां द्वीपिवानरपक्षिणाम् ।
हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः ॥ २६ ॥

प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः ।
उदङ्मुखैर्देवगणैरीक्षमाण इवाम्बुदः ॥ २७ ॥

विक्रमन्तं हरिं लोकान् दानवाः शस्त्रपाणयः ।
मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः ॥ २८ ॥

स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ।
पिङ्गलाक्षा विवृत्तास्या नानाबाहुशिरोधराः ॥ २९ ॥

स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः ।
चीनांशुकोत्तरासङ्गाः केचित्कृष्णाजिनाम्बराः ॥ ३० ॥

भुजङ्गभरणाश्चान्ये केचिन्मुकुटभूषिताः ।
सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१ ॥

धनुर्बाणधराश्चान्ये तथा तोमरपाणयः ।
खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२ ॥

शतघ्नीचक्रहस्ताश्च गदामुसलपाणयः ।
अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥ ३३ ॥

शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४ ॥

क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ।
स तान् ममर्द सर्वात्मा तन्मुखान् दैत्यदानवान् ॥ ३५ ॥

सरसीव महापद्मान् महाहस्तीव दानवान् ।
प्रमथ्य सर्वान् दैतेयान् हस्तपादतलैस्ततः ॥ ३६ ॥

रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम् ।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७ ॥

परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ।
ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८ ॥

ततोऽपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ ।
जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् ॥ ३९ ॥

ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ।
स्वं रूपं च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४० ॥

श्रीभगवानुवाच ।
यज्ञवाटे त्वदीयेऽस्मिन् सालिग्रामे महासुर ।
मया निविष्टपादेन मापितेयं वसुन्धरा ॥ ४१ ॥

प्रथमं तु पदं जातं नौर्बन्धशिखरे मम ।
द्वितीयं मेरुशिखरे तृतीयं नाभवत्क्वचित् ॥ ४२ ॥

तन्मे वरय दैत्येन्द्र यन्मयाऽऽप्तं प्रतिग्रहम् ।
बलिरुवाच ।
यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३ ॥

तावती ते न सम्पूर्णा देवदेव क्रमत्रयम् ।
न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर ॥ ४४ ॥

न च तद्विद्यते देव तथैवान्यस्य कस्यचित् ।
श्रीभगवानुवाच ।
न मे त्वयाऽऽपूर्यते मे दानवेन्द्र यथाश्रुतम् ॥ ४५ ॥

सुतलं नाम पातालं वस तत्र सुसंयतः ।
मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६ ॥

ज्ञातिभिः सह धर्मिष्ठैर्वस तत्र यथासुखम् ।
तत्र त्वं भोक्ष्यसे भोगान् विशिष्टान् बलसूदनात् ॥ ४७ ॥

अवाप्स्यसि तथा भोगान् लोकाद्विधिविवर्जितान् ।
प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि ॥ ४८ ॥

मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि ।
तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले ॥ ४९ ॥

तव शत्रुगणान् सर्वान् घातयिष्याम्यहं तदा ।
ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ ५० ॥

तपस्वी दानशीलश्च वेदवेदाङ्गपारगः ।
तस्माद्यशोभिर्वृद्ध्यर्थं मया त्वमभिसन्धितः ॥ ५१ ॥

देवराजाधिकान् भोगान् पातालस्थोऽपि भोक्ष्यसे ।
सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ ५२ ॥

मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि ।
शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे ॥ ५३ ॥

सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ॥ ५४ ॥

शङ्कर उवाच ।
इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः ।
अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ ५५ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु
वामनप्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५ ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
षष्ठोऽध्यायः ॥६ ॥
राम उवाच ।
तस्य देवादिदेवस्य विष्णोरमिततेजसः ।
त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ १ ॥

शङ्कर उवाच ।
न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः ।
प्राधान्यतस्ते वक्ष्यामि श‍ृणुष्वैकमना द्विज ॥ २ ॥

सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः ।
वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ ३ ॥

दिशश्च विदिश्चापि तथा ये च दिगीश्वराः ।
आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ ४ ॥

साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च ।
अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ॥ ५ ॥

पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव ।
तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ॥ ६ ॥

सच्चासच्च महाभाग प्रकृतिर्विकृतिश्च यः ।
कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ ७ ॥

विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः ।
राक्षसाश्च पिशाचाश्च पितरः कालसंधयः ॥ ८ ॥

धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च ।
यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ ९ ॥

जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् ।
एकज्योतिः स मरुतां वसूनां स च पावकः ॥ १० ॥

अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा ।
नारायणश्च साध्यानां भृगूणां च तथा क्रतुः ॥ ११ ॥

आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा ।
विश्वेषां चैव देवानां रोचमानः सुकीर्तितः ॥ १२ ॥

वासवः सर्वदेवानां ज्योतिषां च हुताशनः ।
यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ॥ १३ ॥

यादसां वरुणश्चैव पवन प्लवतां तथा ।
धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ॥ १४ ॥

अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा ।
ग्रहाणां च तथा चन्द्रो नक्षत्राणां च कृत्तिका ॥ १५ ॥

कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ।
कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ॥ १६ ॥

स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ।
संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७ ॥

मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ।
शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥ १८ ॥

कारणानां वधः (?) प्रोक्तो मुहूर्तानां तथाऽभिजित् ।
पातालानां सुतलश्च समुद्राणां पयोदधिः ॥ १९ ॥

जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ।
मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २० ॥

हिमालयः स्थावराणां जाह्नवी सरितां तथा ।
पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१ ॥

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ।
ऋषीणां च भृगुर्देवो देवर्षीणां च नारदः ॥ २२ ॥

तथा ब्रह्मर्षीणां च अङ्गिराः परिकीर्तितः ।
विद्याधराणां सर्वेषां देवश्चित्राङ्गदस्तथा ॥ २३ ॥

कंवरः किन्नराणां च सर्पाणामथ वासुकिः । (कंधरः?)
प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४ ॥

उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् ।
ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५ ॥

आयुधानां तथा वज्रो नराणां च नराधिपः ।
क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ।२६ ॥

धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् ।
धर्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ॥ २७ ॥

यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ।
वेदानां सामवेदश्च अंशुनां ज्योतिषां पतिः ॥ २८ ॥

गायत्री सर्वमन्त्राणां वाचः प्रवदतां तथा ।
अक्षराणामकारश्च यन्त्राणां च तथा धनुः ॥ २९ ॥

अध्यात्मविद्या विद्यानां कवीनामुशना कविः ।
चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३० ॥

ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ।
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१ ॥

आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ।
स्कन्दः सेनाप्रणेतॄणां सदयश्च दयावताम् ॥ ३२ ॥

जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ।
अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ॥ ३३ ॥

मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् ।
झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४ ॥

मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ।
धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ॥ ३५ ॥

वायुः स्पर्शगुणानां च खं च शब्दगुणस्तथा ।
एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६ ॥

एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि ।
देवाश्च ऋषयश्चैव ब्रह्मा चाहं च भार्गव ॥ ३७ ॥

चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज ।
ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ॥ ३८ ॥

यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ।
अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ।३९ ॥

गामाविश्य च भूतानि धारयत्योजसा विभुः ।
पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४० ॥

प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव ।
चेष्टाकृत्प्राणिनां ब्रह्मन् स च वायुः शरीरगः ॥ ४१ ॥

यथादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजस्तत्र कीर्तितम् ॥ ४२ ॥

सर्वस्य चासौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनं च ।
सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चासौ ॥४३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
शङ्करगीतासु
विभूतिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६ ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु
सप्तमोऽध्यायः ॥७ ॥
राम उवाच ।
आराध्यते स भगवान् कर्मणा येन शङ्कर ।
तन्ममाचक्ष्व भगवन् सर्वसत्त्वसुखप्रदम् ॥ १ ॥

शङ्कर उवाच ।
साधु राम महाभाग साधु दानवनाशन ।
यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ २ ॥

दिवसं दिवसार्धं वा मुहूर्तमेकमेव वा ।
नाशश्चाशेषपापस्य भक्तिर्भवति केशवे ॥ ३ ॥

अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च ।
जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ॥ ४ ॥

नाधन्यः केशवं स्तौति नाधन्योऽर्चयति प्रभुम् ।
नमत्यधन्यश्च हरिं नाधन्यो वेत्ति माधवम् ॥ ५ ॥

मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते ।
सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति ॥ ६ ॥

सा वाणी केशवं देवं या स्तौति भृगुनन्दन ।
श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ ७ ॥

अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ ।
तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ ८ ॥

यतो मुख्यफलावाप्तौ करणं सुप्रयोजनम् ।
मनसा तेन किं कार्यं यन्न तिष्ठति केशवे ॥ ९ ॥

बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् ।
रोगः सा रसना वापि यया न स्तूयते हरिः ॥ १० ॥

गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ।
भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज ॥ ११ ॥

यैर्न सम्पूजितो देवः शङ्खचक्रगदाधरः ।
पादौ तौ सफलौ राम केशवालयगामिनौ ॥ १२ ॥

ते च नेत्रे महाभाग याभ्यां सन्दृश्याते हरिः ।
किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज ॥ १३ ॥

याभ्यां न व्रजते जन्तुः केशवालयदर्शने ।
जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम ॥ १४ ॥

यो न पश्यति धर्मज्ञ केशवार्चा पुनः पुनः ।
क्लेशसंजननं कर्म वृथा तद्भृगुनन्दन ॥ १५ ॥

केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा ।
पश्य केशवमाराध्य मोदमानं शचीपतिम् ॥ १६ ॥

यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् ।
देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं(??) पदम् ॥ १७ ॥

हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् ।
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ १८ ॥

ईशित्वञ्च वशित्वञ्च यत्र कामावसायिता ।
आराध्य केशवं देवं प्रप्यन्ते नात्र संशयः ॥ १९ ॥

हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले ।
सङ्ग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ २० ॥

महाकटितटश्रोण्यः पीनोन्नतपयोधराः ।
अकलङ्कशशाङ्काभवदना नीलमूर्धजाः ॥ २१ ॥

रमयन्ति नरं स्वप्ने देवरामा मनोहराः ।
सकृद्येनार्चितो देवो हेलया वा नमस्कृतः ॥ २२ ॥

वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् ।
ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम् ॥ २३ ॥

रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ।
अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४ ॥

रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः ।
वीज्यन्ते सह रामाभिः केशवस्मरणादपि ॥ २५ ॥

सौगन्धिके वने रम्ये कैलासपर्वते द्विज ।
यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः ॥ २६ ॥

रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ।
क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७ ॥

चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ।
धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८ ॥

तस्मात्तवाहं वक्ष्यामि यद्यदा चरतः सदा ।
पुरुषस्येह भगवान् सुतोषस्तुष्यते हरिः ॥ २९ ॥

पूज्यः स नित्यं वरदो महात्मा स्तव्य स नित्यं जगदेकवन्द्यः ।
ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम् ॥ ३० ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
शङ्करगीतासु
भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७ ॥

Also Read:

Shankara Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shankara Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top