Templesinindiainfo

Best Spiritual Website

Shanti Gita Lyrics in Hindi

Shanti Geetaa in Hindi:

॥ शान्तिगीता ॥

मङ्गलाचरणम्
शान्तायाव्यक्तरूपाय मायाधाराय विष्णवे ।
स्वप्रकाशाय सत्याय नमोऽस्तु विश्वसाक्षिणे ॥ १॥

वाणी यस्य प्रकटति परं ब्रह्मतत्त्वं सुगूढं
मुक्तीच्छूनां गमयति पदं पूर्णमानन्दरूपम् ।
विभ्रान्तानां शमयति मतिं व्याकुलां भ्रान्तिमूलां
ब्रह्मा ह्येकां विदिशति परं श्रीगुरुं तं नमामि ॥ २॥

अथ प्रथमोऽध्यायः ।
विख्यातः पाण्डवे वंशे नृपेशो जनमेजयः ।
तस्य पुत्रो महाराजः शतानीको महामतिः ॥ १॥

एकदा सचिवैर्मित्रैर्वेष्टितो राजमन्दिरे ।
उपविष्टः स्तूयमाने मागधैः सूतवन्दिभिः ॥ २॥

सिंहासनसमारूढो महेन्द्रसदृशप्रभः ।
नानाकाव्यरसालापैः पण्डितैः सह मोदितः ॥ ३॥

एतस्मिन् समये श्रीमान् शान्तव्रतो महातपाः ।
समागतः प्रसन्नात्मा तेजोराशिस्तपोनिधिः ॥ ४॥

राजा दर्शनमात्रेण सामात्यमित्रबान्धवैः ।
प्रोत्थितो भक्तिभावेन हर्षेणोत्फुल्लमानसः ॥ ५॥

प्रणम्य विनयापन्नः प्रह्वीभावेन श्रद्धया ।
ददौ सिंहासनं तस्मै चोपवेशनकाङ्क्षया ॥ ६॥

पाद्यमर्घ्यं यथायोग्यं भक्तियुक्तेन चेतसा ।
दिव्यासने समासीनं मुनिं शान्तव्रतं नृपः ॥ ७॥

पप्रच्छ विनतः स्वास्थ्यं कुशलं तपसस्ततः ।
मुनिः प्रोवाच सर्वत्र सुखं सर्वसुखान्वयात् ॥ ८॥

अस्माकं कुशलं राजन् राज्ञः कुशलतः सदा ।
स्वाच्छन्द्यं राजदेहस्य राज्यस्य कुशलं वद ॥ ९॥

राजोवाच यत्र ब्रह्मन्नीदृशस्तापसोऽनिशम् ।
तिष्ठन् विराजते तत्र कुशलं कुशलेप्सया ॥ १०॥

क्षेमयुक्तो प्रसादेन भवतः शुभदृष्टितः ।
देहे गेहे शुभं राज्ये शान्तिर्मे वर्तते सदा ॥ ११॥

प्रणिपत्य ततो राजा विनयावनतः पुनः ।
कृताञ्जलिपुटः प्रह्वः प्राह तं मुनिसत्तमम् ॥ १२॥

श्रुता भवत्प्रसादेन तत्त्ववार्ता सुधा पुरा ।
इदानीं श्रोतुमिच्छामि यच्च सारतरं प्रभो ।
श्रुत्वा तत् कृतकृत्यः स्यां कृपया वद मे मुने ॥ १३॥

शान्तव्रत उवाच ।
श‍ृणु राजन् प्रवक्ष्यामि सारं गुह्यतमं परम् ।
यदुक्तं वासुदेवेन पार्थाय शोकशान्तये ॥ १४॥

शान्तिगीतेति विख्याता सदा शान्तिप्रदायिनी ।
पुरा श्रीगुरुणा दत्ता कृपया परया मुदा ॥ १५॥

तं ते वक्ष्यामि राजेन्द्र रक्षिता यत्नतो मया ।
भवद्बुभुत्सया राजन् श‍ृणुष्वावहितः स्थिरः ॥ १६॥

इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां
श्रीवासुदेवर्जुनसंवादे प्रथमोऽध्यायः ॥१॥

अथ द्वितीयोऽध्यायः ।
युद्धे विनिहते पुत्रे शोकविह्वलमर्जुनम् ।
दृष्ट्वा तं बोधयामास भगवान् मधसूदनः ॥ १॥

श्रीभगवानुवाच ।
किं शोचसि सखे पार्थ विस्मृतोऽसि पुरोदितम् ।
मूढप्रायो विमुग्धोऽसि मग्नोऽसि शोकसागरे ॥ २॥

मायिके सत्यवज्ज्ञानं शोकमोहस्य कारणम् ।
त्वं बुद्धोऽसि च धीरोऽसि शोकं त्यक्त्वा सुखी भव ॥ ३॥

संसारे मायिके घोरे सत्यभावेन मोहितः ।
ममताबद्धचित्तोऽसि देहाभिमानयोगतः ॥ ४॥

को वासि त्वं कथं जातः कः सुतो वा कलत्रकम् ।
कथं वा स्नेहबद्धोऽसि क्षणमात्रं विचारय ॥ ५॥

अज्ञानप्रभवं सर्वं जीवा मायावशंगताः ।
देहाभिमानयोगेन नानादुःखादि भुञ्जते ॥ ६॥

मनःकल्पितसंसारं सत्यं मत्वा मृषात्मकम् ।
दुःखं सुखं च मन्यन्ते प्रातिकूल्यानुकूल्ययोः ॥ ७॥

ममतापाशसंबद्धः संसारे भ्रमप्रत्यये ।
अनादिकालतो जीवः सत्यबुद्ध्या विमोहितः ॥ ८॥

त्यक्त्वा गृहं याति नवं पुराणमालम्बते दिव्यगृहं यथान्यत् ।
जीवस्तथा जीर्णवपुर्विहाय गृह्णाति देहान्तरमाशु दिव्यम् ॥ ९॥

अभावः प्रागभावस्य चावस्थापरिवर्तनात् ।
परिणामान्विते देहे पूर्वभावो न विद्यते ॥ १०॥

न दृश्यते बाल्यभावो देहस्य यौवनोदये ।
अवस्थान्तरसम्प्राप्तौ देहः परिणमेद्यतः ॥ ११॥

अतीते बहुले काले दृष्ट्वा न ज्ञायते हि सः ।
बुद्धेः प्रत्ययमात्रं तत् स एवेति विनिश्चयः ॥ १२॥

न पश्यन्ति बाल्यभावं देहस्य यौवनागमे ।
सुतस्य जनकस्तेन न शोचति न रोदिति ।
तथा देहान्तरप्राप्तिर्मत्वा शोकं सखे जहि ॥ १३॥

यत्पश्यसि महाबाहो जगत्तत्प्रातिभासिकम् ।
संस्कारवशतो बुद्धेर्दृष्टपूर्वेति प्रत्ययः ॥ १४॥

दृष्ट्वा तु शुक्तिरजतं लोभाद्ग्रहीतुमुद्यतः ।
प्राक् च बोधोदयात् द्रष्टा स्थानान्तरगतस्ततः ॥ १५॥

पुनरागत्य तत्रैव रजतं स प्रपश्यति ।
पूर्वदृष्टं मन्यमानो रजतं हर्षमोदितः ।
बुद्धेः प्रत्ययसङ्कल्पात् नास्ति रूपं त्रिकालके ॥ १६॥

देहो भार्या धनं पुत्रस्तरुराजिनिकेतनम् ।
शुक्तिरजतवत् सर्वं न किञ्चित् सत्यमस्ति तत् ॥ १७॥

सुषुप्तिकाले न हि दृश्यमानं मनःस्थितं सर्वमनन्तविश्वम् ।
समुत्थिते तन्मनसि प्रभाति चराचरं विश्वमिदं न सत्यम् ॥ १८॥

सदेवासीत्पुरा सृष्टेर्नान्यत् किञ्चिन्मिषत्ततः ।
न देशो नापि वा कालो नो भूतं नापि भौतिकम् ॥ १९॥

मायाविजृम्भिते तस्मिन् स्रक्फणीवोत्थितं जगत् ।
तत्सत् मायाप्रभावेन विश्वाकारेण भासते ॥ २०॥

भोक्ता भोगस्तथा भोग्यं कर्ता च करणं क्रिया ।
ज्ञाता ज्ञानं तथा ज्ञेयं स्वप्नवद्भाति सर्वशः ॥ २१॥

मायानिद्रावशात् स्वप्नः संसारो जीवगः खलु ।
कारणं ह्यात्मनोऽज्ञानं संसारस्य धनञ्जय ॥ २२॥

अज्ञानं गुणभेदेन शक्तिभेदेन न वै पुनः ।
मायाऽविद्या भवेदेका चिदाभासेन दीपिता ॥ २३॥

मायाभासेन जीवेशो करोति च पृथग्विधौ ।
मायाभासो भवेदीशोऽविद्योपाधिश्च जीवकः ॥ २४॥

चिदध्यासाच्चिदाभासो भासितौ चेतनाकृती ।
मायावच्छिन्नचैतन्यञ्चाभासाध्यासयोगतः ॥ २५॥

ईशः कर्ता ब्रह्म साक्षी मायोपहितसत्तया ।
अखण्डं सच्चिदानन्दं पूर्वाधिष्ठानमव्ययम् ॥ २६॥

न जायते म्रियाते वा न दह्यते न शोष्यते ।
अधिकारः सदासङ्गो नित्यमुक्तो निरञ्जनः ।
इत्युक्तं ते मया पूर्वं स्मृत्वात्मन्यवधारय ॥ २७॥

शुक्रशोणितयोगेन देहोऽयं भौतिकः स्मृतः ।
बाल्ये बालकरूपोऽसौ यौवने युवकः पुनः ॥ २८॥

गृहीतान्यस्य कन्यां हि पत्नीभावेन मोहितः ।
पुरा यया न सम्बन्धः सार्द्धाङ्गी सहधर्मिणी ॥ २९॥

तद्गर्भे रेतसा जातः पुत्रश्च स्नेहभाजनः ।
देहमलोद्भवः पुत्रः कीटवन्मलनिर्मितः ।
पितरौ ममतापाशं गले बद्ध्वा विमोहितौ ॥ ३०॥

न देहे तव सम्बन्धो न दारेषु सुते न च ।
पाशबद्धः स्वयं भूत्वा मुग्धोऽसि ममतागुणैः ॥ ३१॥

दुर्जयो ममतापाशश्चाच्छेद्यः सुरमानवैः ।
मम भार्या ममापत्यः मत्वा मुग्धोऽसि मूढवत् ॥ ३२॥

न त्वं देहो महाबाहो तव पुत्रः कथं वद ।
सर्वं त्यक्त्वा विचारेण स्वरूपमवधारय ॥ ३३॥

अर्जुन उवाच ।
किं करोमि जगन्नाथ शोकेन दह्यते मनः ।
पुत्रस्य गुणकर्माणि रूपं च स्मरतो मम ॥ ३४॥

चिन्तापरं मनो नित्यं धैर्यं न लभते क्षणम् ।
उपायं वद मे कृष्ण येन शोकः प्रशाम्यति ॥ ३५॥

श्रीभगवानुवाच ।
मनसि शोकसन्तापौ दह्यमानस्ततो मनः ।
त्वं पश्यसि महाबाहो द्रष्टासि त्वं मनो न हि ॥ ३६॥

द्रष्टा दृश्यात् पृथक् न्यासात् त्वं पृथक् च विलक्षणः ।
अविवेकात् मनो भूत्वा दग्धोऽहमिति मन्यसे ॥ ३७॥

अन्तःकरणमेकं तच्चतुर्वृत्तिसमन्वितम् ।
मनः सङ्कल्परूपं वै बुद्धिश्च निश्चयात्मिका ॥ ३८॥

अनुसन्धानवच्चित्तमहङ्कारोऽभिमानकः ।
पञ्चभूतांशसंभूता विकारी दृश्यचञ्चलः ॥ ३९॥

यदङ्गमग्निना दग्धं जानाति पुरुषो यथा ।
तथा मनः शुचा तप्तं त्वं जानासि धनञ्जय ॥ ४०॥

दग्धहस्तो यथा लोको दग्धोऽहमिति मन्यते ।
अविवेकात्तथा शोकतप्तोऽहमिति मन्यते ॥ ४१॥

जाग्रति जायमानं तत् सुषुप्तौ लीयते पुनः ।
त्वं च पश्यसि बोधस्त्वं न मनोऽसि शुचालयः ॥ ४२॥

सुषुप्तो मानसे लीने न शोकोऽप्यणुमात्रकः ।
जाग्रति शोकदुःखादि भवेन्मनसि चोत्थिते ॥ ४३॥

सर्वं पश्यसि साक्षी त्वं तव शोकः कथं वद ।
शोको मनोमये कोषे दुःखोद्वेगभयादिकम् ॥ ४४॥

स्वरूपोऽनबोधेन तादात्म्याध्यासयोगतः ।
अविवेकान्मनोधर्मं मत्वा चात्मनि शोचसि ॥ ४५॥

शोकं तरति चात्मज्ञः श्रुतिवाक्यं विनिश्चिनु ।
अतः प्रयत्नतो विद्वान्नात्मानं विद्धि फाल्गुन ॥ ४६॥

इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां
श्रीवासुदेवर्जुनसंवादे द्वितीयोऽध्यायः ॥२॥

अथ तृतीयोऽध्यायः ।
अर्जुन उवाच ।
मनोबुद्धीन्द्रियादीनां य आत्मा न हि गोचरः ।
स कथं लभ्यते कृष्ण तद्ब्रूहि यदुनन्दन ॥ १॥

श्रीभगवानुवाच ।
आत्मातिसूक्ष्मरूपत्वात् बुद्ध्यादीनामगोचरः ।
लभ्यते वेदवाक्येन चाचार्यानुग्रहेण च ॥ २॥

महावाक्यविचारेण गुरूपदिष्टमार्गतः ।
शिष्यो गुणाभिसम्पन्नो लभेत शुद्धमानसः ॥ ३॥

एकार्थबोधकं वेदे महावाक्यचतुष्टयम् ।
तत्त्वमसि गुरोर्वक्त्रात् श्रुत्वा सिद्धिमवाप्नुयात् ॥ ४॥

गुरुसेवां प्रकुर्वाणो गुरुभक्तिपरायणः ।
गुरोः कृपावशात् पार्थ लभ्य आत्मा न संशयः ॥ ५॥

आत्मवासनया युक्तो जिज्ञासुः शुद्धमानसः ।
विषयासक्तिसंत्यक्तः स्वात्मानं वेत्ति श्रद्धया ॥ ६॥

वैराग्यं कारणं चादौ यद्भवेद्बुधिशुद्धितः ।
कर्मणा चित्तशुद्धिः स्याद्विशेषं श‍ृणु काथ्यते ॥ ७॥

स्ववर्णाश्रमधर्मेण वेदोक्तेन च कर्मणा ।
निष्कामेन सदाचार ईश्वरं परितोषयेत् ॥ ८॥

कामसङ्कल्पसंत्यागादीश्वरप्रीतिमानसात् ।
स्वधर्मपालनाच्चैव श्रद्धाभक्तिसमन्वयात् ॥ ९॥

नित्यनैमित्तिकाचारात् ब्रह्मणि कर्मणोऽर्पणात् ।
देवायतनतीर्थानां दर्शनात् परिसेवनात् ।
यथाविधि क्रमेणैव बुद्धिशुद्धिः प्रजायते ॥ १०॥

पापेन मलिना बुद्धिः कर्मणा शोधिता यदा ।
तदा शुद्धा भवेत् सैव मलदोषविवर्जनात् ॥ ११॥

निर्मलायां तत्र पार्थ विवेक उपजायते ।
किं सत्यं किमसत्यं वेत्यद्यालोचनतत्परः ॥ १२॥

ब्रह्म सत्यं जगन्मिथ्या विवेकाद्दृढनिश्चयः ।
ततो वैराग्यमासक्तेस्त्यागो मिथ्यात्मकेषु च ॥ १३॥

भोग्यं वै भोगिभोगं विषमयविषयं प्लोषिणी चापि पत्नी
वित्तं चित्तप्रमाथं निधनकरधनं शत्रुवत् पुत्रकन्ये ।
मित्रं मित्रोपतापं वनमिव भवनं चान्धवद्बन्धुवर्गाः
सर्वं त्यक्त्वा विरागी निजहितनिरतः सौख्यलाभे प्रसक्तः ॥ १४॥

भोगासक्ताः प्रमुग्धाः सततधनपरा भ्राम्यमाणा यथेच्छं
दारापत्यादिरक्ता निजजनभरणे व्यग्रचित्ता विषण्णाः ।
लप्स्येऽहं कुत्र दर्भं स्मरणमनुदिनं चिन्तया व्याकुलात्मा
हा हा लोका विमूढाः सुखरसविमुखाः केवला दुःखभाराः ॥ १५॥

ब्रह्मादि स्तम्बपर्यन्तं वस्तु सर्वं जुगुप्सितम् ।
शुनो विष्ठासमं त्याज्यं भोगवासनया सह ॥ १६॥

नोदेति वासना भोगे घृणा वान्ताशने यथा ।
ततः शमदमौ चैव मन इन्द्रियनिग्रहः ॥ १७॥

तितिक्षोपरतिश्चैव समाधानं ततः परम् ।
श्रद्धा श्रुति-गुरोर्वाक्ये विश्वासः सत्यनिश्चयात् ॥ १८॥

संसारग्रन्धिभेदेन मोक्तुमिच्छा मुमुक्षुता ।
एतत्साधनसम्पन्नो जिज्ञासुर्गुरुमाश्रयेत् ॥ १९॥

ज्ञानदाता गुरुः साक्षात् संसारार्णवतारकः ।
श्रीगुरुकृपया शिष्यस्तरेत् संसारवारिधिम् ॥ २०॥

विनाचार्यं न हि ज्ञानं न मुक्तिर्नापि सद्गतिः ।
अतः प्रयत्नतो विद्वान् सेवया तोषयेद्गुरुम् ॥ २१॥

सेवया सम्प्रसन्नात्मा गुरुः शिष्यं प्रबोधयेत् ।
न त्वं देहो नेन्द्रियाणि न प्राणो न मनोधियः ॥ २२॥

एषां द्रष्टा च साक्षी त्वं सच्चिदानन्दविग्रहः ।
प्रतिबन्धकशून्यस्य ज्ञानं स्यात् श्रुतिमात्रतः ॥ २३॥

न चेन्मननयोगेन निदिध्यासनतः पुनः ।
प्रतिबन्धक्षये ज्ञानं स्वयमेवोपजायते ॥ २४॥

विस्मृतं स्वरूपं तत्र लब्ध्वा चामीकरं यथा ।
कृतार्थः परमानन्दो मुक्तो भवति तत्क्षणम् ॥ २५॥

अर्जुन उवाच ।
जीवः कर्ता सदा भोक्ता निष्क्रियं ब्रह्म यादव ।
ऐक्यज्ञानं तयोः कृष्ण विरुद्धत्वात् कथं भवेत् ॥ २६॥

एतन्मे संशयं छिन्धि प्रपन्नोऽहं जनार्दन ।
त्वां विना संशयच्छेत्ता नास्ति कश्चिद्विनिश्चयः ॥ २७॥

श्रीवासुदेव उवाच ।
संशोध्य त्वं पदं पूर्वं स्वरूपमवधारयेत् ।
प्रकारं श‍ृणु वक्ष्यामि वेदवाक्यानुसारतः ॥ २८॥

देहत्रयं जडत्वेन नाश्यत्वेन निरासय ।
स्थूलं सूक्ष्मं कारणं च पुनः पुनर्विचारय ॥ २९॥

काष्ठादि लोष्टवत् सर्वमनात्मजडनश्वरम् ।
कदलीदलवत् सर्वं क्रमेणैव परित्यज ॥ ३०॥

तद्बाधस्य हि सीमानं त्यागयोग्यं स्वयम्प्रभम् ।
त्वमात्मत्वेन संविद्धि चेति त्वं-पद-शोधनम् ॥ ३१॥

तत्पदस्य च पारोक्ष्यं मायोपाधिं परित्यज ।
तदधिष्ठानचैतन्यं पूर्णमेकं सदव्ययम् ॥ ३२॥

तयोरैक्यं महाबाहो नित्याखण्डावधारणम् ।
घटाकाशो महाकाश इवात्मानं परात्मनि ।
ऐक्यमखण्डभावं त्वं ज्ञात्वा तूष्णीं भवार्जुन ॥ ३३॥

ज्ञात्वैवं योगयुक्तात्मा स्थिरप्रज्ञः सदा सुखी ।
प्रारब्धवेगपर्यन्तं जीवन्मुक्तो विहारवान् ॥ ३४॥

न तस्य पुण्यं न हि तस्य पापं निषेधनं नैव पुनर्न वैधम् ।
सदा स मग्नः सुखवारिराशौ वपुश्चरेत् प्राक्कृतकर्मयोगात् ॥ ३५॥

इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां
श्रीवासुदेवर्जुनसंवादे तृतीयोऽध्यायः ॥३॥

अथ चतुर्थोऽध्यायः ।
अर्जुन उवाच ।
योगयुक्तः कथं कृष्ण व्यवहारे चरेद्वद ।
विना कस्याप्यहङ्कारं व्यवहारो न सम्भवेत् ॥ १॥

श्रीभगवानुवाच ।
श‍ृणु तत्त्वं महाबाहो गुह्यात् गुह्यतरं परम् ।
यच्छ्रुत्वा संशयच्छेदात् कृतकृत्यो भविष्यसि ॥ २॥

व्यावहारिकदेहेऽस्मिन्नात्मबुद्ध्या विमोहितः ।
करोति विविधं कर्म जीवोऽहङ्कारयोगतः ॥ ३॥

न जानाति स्वमात्मानमहं कर्तेति मोहितः ।
अहङ्कारस्य सद्धर्मं संघातं न विचालयेत् ॥ ४॥

आत्मा शुद्धः सदा मुक्तः सङ्गहीनश्चिदक्रियः ।
न हि सम्बन्धगन्धं तत् संघातैर्मायिकैः क्वचित् ॥ ५॥

सच्चिदानन्दमात्मानं यदा जानाति निष्क्रियम् ।
तदा तेभ्यः समुत्तीर्णः स्वस्वरूपे व्यवस्थितम् ॥ ६॥

प्रारब्धात् विचरेद्देहो व्यवहारं करोति च ।
स्वयं स सच्चिदानन्दो नित्यः सङ्गविवर्जितः ॥ ७॥

अखण्डमद्वयं पूर्णं सदा सच्चित्सुखात्मकम् ।
देशकालजगज्जीवा न हि तत्र मनागपि ॥ ८॥

मायाकार्यमिदं सर्वं व्यवहारिकमेव तु ।
इन्द्रजालमयं मिथ्या मायामात्रविजृम्भितम् ॥ ९॥

जाग्रदादि विमोक्षान्तं मायिकं जीवकल्पितम् ।
जीवस्यानुभवः सर्वः स्वप्नवद्भरतर्षभ ॥ १०॥

न त्वं नाहं न वा पृथ्वी न दारा न सुतादिकम् ।
भ्रान्तोऽसि शोकसन्तापैः सत्यं मत्वा मृषात्मकम् ॥ ११॥

शोकं जहि महाबाहो ज्ञात्वा मायाविलासकम् ।
त्वं सदाद्वयरूपोऽसि द्वैतलेशविवर्जितः ।
द्वैतं मायामयं सर्वं त्वयि न स्पृश्यते क्वचित् ॥ १२॥

एकं न सङ्ख्याबद्धत्वात् न द्वयं तत्र शोभते ।
एकं स्वजातिहीनत्वाद्विजातिशून्यमद्वयम् ॥ १३॥

केवलं सर्वशून्यत्वादक्षयाच्च सदव्ययम् ।
तुरीयं त्रितयापेक्षं प्रत्यक् प्रकाशकत्वतः ॥ १४॥

साक्षि-साक्ष्यमपेक्ष्यैव द्रष्टृदृश्यव्यपेक्षया ।
अलक्ष्यं लक्षणाभावात् ज्ञानं वृत्यधिरूढतः ॥ १५॥

अर्जुन उवाच ।
का माया वाऽद्भुता कृष्ण काऽविद्या जीवसूतिका ।
नित्या वाप्यपराऽनित्या कः स्वभावस्तयोर्हरे ॥ १६॥

श्रीभगवानुवाच ।
श‍ृणु महाद्भुता माया सत्त्वादि त्रिगुणान्विता ।
उत्पत्तिरहिताऽनादिर्नैसर्गिक्यपि कथ्यते ॥ १७॥

अवस्तु वस्तुवद्भाति वस्तुसत्तासमाश्रिता ।
सदसद्भ्यामनिर्वाच्या सान्ता च भावरूपिणी ॥ १८॥

ब्रह्माश्रया चिद्विषया ब्रह्मशक्तिर्महाबला ।
दुर्घटोद्घटनाशीला ज्ञाननाश्या विमोहिनी ॥ १९॥

शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् ।
तमोऽधिकावृतिः शक्तिविक्षेपाख्या तु राजसी ॥ २०॥

विद्यारूपा शुद्धसत्त्वा मोहिनी मोहनाशिनी ।
तमःप्राधान्यतोऽविद्या सावृतिशक्तिमत्त्वतः ॥ २१॥

मायाऽविद्या न वै भिन्ना समष्टि-व्यष्टिरूपतः ।
मायाविद्या-समष्टिः सा चैकैव बहुधा मता ॥ २२॥

चिदाश्रया चितिभास्या विषयं तां करोति हि ।
आवृत्य चित्स्वभावं सद्विक्षेपं जनयेत्ततः ॥ २३॥

अर्जुन उवाच ।
यद्ब्रह्मशक्तिर्या माया सापि नाश्या भवेत् कथम् ।
यदि मिथ्या हि सा माया नाशस्तस्याः कथं वद ॥ २४॥

श्रीभगवानुवाच ।
मायाख्यां भावसंयुक्तां कथयामि श‍ृणुष्व मे ।
प्रकृतिं गुणसाम्यात्तां मायां चाद्भुतकारिणीम् ॥ २५॥

प्रधानमात्मसात्कृत्वा सर्वं तिष्ठेदुदासिनी ।
विद्या नाश्या तथाऽविद्या शक्तिर्ब्रह्माश्रयत्वतः ॥ २६॥

विना चैतन्यमन्यत्र नोदेति न च तिष्ठति ।
अत,एव ब्रह्मशक्तिरित्याहुर्ब्रह्मवादिनः ॥ २७॥

शक्तितत्त्वं प्रवक्ष्यामि श‍ृणुष्व तत्समाहितः ।
ब्रह्मणश्चिज्जडैर्भेदात् द्वे शक्ती परिकीर्तिते ॥ २८॥

चिच्छक्तिः स्वरूपं ज्ञेया माया जडा विकारिणी ।
कार्यप्रसाधिनी माया निर्विकारा चितिः परा ॥ २९॥

अग्नेर्यथा द्वयी शक्तिर्दाहिका च प्रकाशिका ।
न हि भिन्नाथवाऽभिन्ना दाहशक्तिश्च पावकात् ॥ ३०॥

न ज्ञायते कथं कुत्र विद्यते दाहतः पुरा ।
कार्यानुमेया सा ज्ञेया दाहेनानुमितिर्यतः ॥ ३१॥

मणिमन्त्रादियोगेन रुध्यते न प्रकाशते ।
सा शक्तिरनलाद्भिन्ना रोधनान्न हि तिष्ठति ॥ ३२॥

नोदेति पावकाद्भिन्ना ततोऽभिन्नेति मन्यते ।
नानले वर्तते सा च न कार्ये स्फोटके तथा ॥ ३३॥

अनिर्वाच्याद्दता चैव मायाशक्तिस्तथेष्यताम् । dda?dhR^i
या शक्तिर्नानलाद्भिन्ना तां विनाग्निर्न किञ्चन ॥ ३४॥

अनलस्वरूपा ज्ञेया शक्तिः प्रकाशरूपिणी ।
चिच्छक्तिर्ब्रह्मणस्तद्वत् स्वरूपं ब्रह्मणः स्मृतम् ॥ ३५॥

दाहिकासदृशी माया जडा नाश्या विकारिणी ।
मृषात्मिका तु याऽवस्तु तन्नाशस्तत्त्वदृष्टितः ॥ ३६॥

मिथ्येति निश्चयात् पार्थ मिथ्यावस्तु विनश्यति ।
आश्चर्यरूपिणी माया स्वनाशेन हि हर्षदा ॥ ३७॥

अज्ञानात् मोहिनी माया प्रेक्षणेन विनश्यति ।
मायास्वभावविज्ञानं सान्निध्यं न हि वाञ्छति ॥ ३८॥

महामाया घोरा जनयति महामोहमतुलं
ततो लोकाः स्वार्थे विवशपतिताः शोकविकलाः ।
सहन्ते दुःसह्यं जनिमृतिजराक्लेशबहुलं
सुभुञ्जाना दुःखं न हि गतिपरां जन्मबहुभिः ॥ ३९॥

इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां चतुर्थोऽध्यायः ॥४॥

अथ पञ्चमोऽध्यायः ।
अर्जुन उवाच ।
मायाऽवस्तु मृषारूपा कार्यं तस्या न सम्भवेत् ।
वन्ध्यापुत्रो रणे दक्षो जयी युद्धे तथा न किम् ॥ १॥

व्योमारविन्दवासेन यथा वासः सुवासितम् ।
मायायाः कार्यविस्तारस्तथा यादव मे मतिः ॥ २॥

श्रीभगवानुवाच ।
दृश्यते कार्यबाहुल्यं मिथ्यारूपस्य भारत ।
असत्यो भुजगो रज्ज्वां जनयेद्वेपथुं भयम् ॥ ३॥

उत्पादयेद्रूप्यखण्डं शुक्तौ च लोभमोहनम् ।
सूयते हि मृषामाया व्यवहारास्पदं जगत् ॥ ४॥

तत्त्वज्ञस्य मृषामाया पुरा प्रोक्ता मयानघ ।
मृषामाया च तत्कार्यं मृषाजीवः प्रपश्यति ।
सर्वं तत्स्वप्नवद्भानं चैतन्येन विभास्यते ॥ ५॥

अज्ञः सत्यं विजानाति तत्कार्येण विमोहितः ॥ ६॥

प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः ।
तमन्तमःकार्यमसत्यसर्वं न दृश्यते भानुमहाप्रकाशे ॥ ७॥

अर्जुन उवाच ।
अकर्मकर्मणोर्भेदं पुरोक्तं यत्त्वया हरे ।
तत्तात्पर्यं सुगूढं यद्विशेषं कथयाधुना ॥ ८॥

श्रीवासुदेव उवाच ।
कर्मण्यकर्म यः पश्येद्यदुक्तं कुरुनन्दन ।
श‍ृणुष्वावहितो विद्वन् तत्तात्पर्यं वदामि ते ॥ ९॥

भवति स्वप्ने यत्कर्म शयानस्य न कर्तृता ।
पश्यत्यकर्म बुद्धः सन्नसङ्गं न फलं यतः ॥ १०॥

स्वप्नव्यापारमिथ्यात्वात् न सत्यं कर्म तत्फलम् ।
अतोऽकर्मैव तत्कर्म दार्ष्टान्तिकमतः श‍ृणु ॥ ११॥

सङ्घात्यैर्मायिकैः कर्म व्यवहारश्च लौकिकः ।
मायानिद्रावशात्स्वप्नमनृतं सर्वमेव हि ॥ १२॥

साभासाहङ्कृतिर्जीवः कर्ता भोक्ता च तत्र वै ।
ज्ञानी प्रबुद्धो निद्रायाः सर्वं मिथ्येति निश्चयी ॥ १३॥

कर्मण्यकर्म पश्येत् स स्वयं साक्षिस्वरूपतः ।
ज्ञानाभिमानिनस्त्वज्ञास्त्यक्त्वा कर्माण्यवस्थिताः ॥ १४॥

प्रत्यवायाद्भवेद्भोगः ज्ञानी कर्म तमिच्छति ।
उद्देश्यं सर्ववेदानां सफलं कृत्स्नकर्मणाम् ॥ १५॥

तत्तत्त्वज्ञो यतो विद्वानतः स कृत्स्नकर्मकृत् ।
सर्वे वेदा यत्र चैकीभवन्तीति प्रमाणतः ।
उद्देश्यं सर्ववेदानां फलं तत्कृत्स्नकर्मणाम् ॥ १६॥

अज्ञानिनां जगत् सत्यं तत्तुच्छं हि विचारिणाम् ।
विज्ञानां मायिकं मिथ्या त्रिविधो भावनिर्णयः ॥ १७॥

अर्जुन उवाच ।
ज्ञात्वा तत्त्वमिदं सत्यं कृतार्थोऽहं न संशयः ।
अन्यत् पृच्छामि तत्तथ्यं कथयस्व सविस्तरम् ॥ १८॥

सर्वकर्म परित्यज्य मामेकं शरणं व्रज ।
पुरा प्रोक्तस्य तात्पर्यं श्रोतुमिच्छामि तद्वद ॥ १९॥

श्रीभगवानुवाच ।
नित्यं नैमित्तिकं कार्यं स्वाभाव्यं च निषेधितम् ।
एतत् पञ्चविधं कर्म विशेषं श‍ृणु कथ्यते ॥ २०॥

कर्तुं विधानं यद्वेदे नित्यादि विहितं मतम् ।
निवारयति यद्वेदस्तन्निषिद्धं परन्तप ।
वेदः स्वाभाविके सर्वं औदसीन्यावलम्बितः ॥ २१॥

प्रत्यवायो भवेद्यस्याऽकरणे नित्यमेव तत् ।
फलं नास्तीति नित्यस्य केचिद्वदन्ति पण्डिताः ॥ २२॥

न सत् तद्युक्तितः पार्थ कर्तव्यं निष्फलं कथम् ।
न प्रवृत्तिः फलाभावे तां विनाचरणं न हि ॥ २३॥

नित्येनैव देवलोकं तथैव बुद्धिशोधनम् ।
फलमकरणे पापं प्रत्यवायाच्च दृश्यते ॥ २४॥

प्रत्यवायः फलं पापं फलाभावे न सम्भवेत् ।
नाभावाज्जायते भावो फलाभावो न सम्मतः ॥ २५॥

नैमित्तिकं निमित्तेन कर्तव्यं विहितं सदा ।
चन्द्रसूर्यग्रहे दानं श्राद्धादि तर्पणं यथा ॥ २६॥

काम्यं तत् कामनायुक्तं स्वर्गादिसुखसाधनम् ।
धनागमश्च कुशलं समृद्धिर्जय ऐहिके ॥ २७॥

तद्बन्धदृढताहेतुः सत्यबुद्धेस्तु संसृतौ ।
अतः प्रयत्नतस्त्याज्यः काम्यञ्चैव निषेधितम् ॥ २८॥

अधिकारिविशेषे तु काम्यस्याप्युपयोगिता ।
कामनासिद्धिरुक्तत्वात् काम्ये लोभप्रदर्शनात् ॥ २९॥

प्रवृत्तिजननाच्चैव लोभवाक्यं प्रलोभनात् ।
बहिर्मुखानां दुर्वृत्तिनिवृत्तिः काम्यकर्मभिः ॥ ३०॥

सत्प्रवृत्तिविवृद्ध्यर्थं विधानं काम्यकर्मणाम् ।
काम्योऽवान्तरभोगश्च तदन्ते बुद्धिशोधनम् ॥ ३१॥

ईश्वराराधनादुग्धं कामनाजलमिश्रितम् ।
वैराग्यानलतापेन तज्जलं परिशोष्यते ॥ ३२॥

ईश्वराराधना तत्र दुग्धवदवशिष्यते ।
तेन शुद्धं भवेच्चित्तं तात्पर्यं कामकर्मणः ॥ ३३॥

कर्मबीजादिहैकस्माज्जायते चाङ्कुरद्वयम् ।
अपूर्वमेकमपरा वासना परिकीर्तिता ॥ ३४॥

भवत्यपूर्वतो भोगो दत्वा भोगं स नश्यति ।
वासना सूयते कर्म शुभाशुभविभेदतः ॥ ३५॥

वासनया भवेत् कर्म कर्मणा वासना पुनः ।
एताभ्यां भ्रमितो जीवः संसृतेर्न निवर्तते ॥ ३६॥

दुःखहेतुस्ततः कर्म जीवानां पदश‍ृङ्खलम् ।
चिन्ता वैषम्यचित्तस्य अशेषदुःखकारणम् ॥ ३७॥

सर्वं कर्म परित्यज्य एकं मां शरणं व्रजेत् ।
मांशब्दस्तत्त्वदृष्ट्या तु न हि सङ्घातदृष्टितः ॥ ३८॥

एकोऽहं सच्चिदानन्दस्तात्पर्येण तमाश्रय ।
सदेकासीदिति श्रौतं प्रमाणमेकशब्दके ।
एकं मां सर्वभूतेषु यः पश्यति स पश्यति ॥ ३९॥

सर्वकर्म महाबाहो त्यजेत् सन्न्यासपूर्वकम् ।
सर्वकर्म तथा चिन्तां त्यक्त्वा सन्न्यासयोगतः ।
जानीयादेकमात्मानं सदा तच्चित्तसंयतः ॥ ४०॥

विधिना कर्मसंत्यागः सन्न्यासेन विवेकतः ।
अवैधं स्वेच्छया कर्म त्यक्त्वा पापेन लिप्यते ॥ ४१॥

आत्मज्ञानं विना न्यासं पातित्यायैव कल्प्यते ।
कर्म ब्रह्मोभयभ्रष्टो नद्यां द्विकूलवर्जितः ।
अहङ्कारमहाग्राहग्रस्यमानो विनश्यति ॥ ४२॥

जाठरे भरणे रक्तः संसक्तः सञ्चये तथा ।
पराङ्मुखः स्वात्मतत्त्वे स सन्न्यासी विडम्बितः ॥ ४३॥

सर्वकर्मविरागेण सन्न्यसेद्विधिपूर्वकम् ।
अथवा सन्न्यसेत् कर्म जन्महेतुं हि सर्वतः ॥ ४४॥

एकं मां संश्रयेत् पार्थ सच्चिदानन्दमव्ययम् ।
अहंपदस्य लक्ष्यं तदहमः साक्षि निष्कलम् ॥ ४५॥

आत्मानं ब्रह्मरूपेण ज्ञात्वा मुक्तो भवार्जुन ॥ ४६॥

देहात्ममानिनां दृष्टिर्देहेऽहंममशब्दतः ।
कुबुद्धयो न जानन्ति मम भावमनामयम् ॥ ४७॥

चैतन्यं त्वमहं सर्वं स्वरूपमवलोकय ।
इति ते कथितं तत्त्वं सर्वसारमनुत्तमम् ॥ ४८॥

इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां पञ्चमोऽध्यायः ॥५॥

अथ षष्ठोऽध्यायः ।
अर्जुन उवाच ।
किं कर्तव्यं विदां कृष्ण किं निरुद्धं वदस्व मे ।
विशेषलक्षणं तेषां विस्तरेण प्रकाशय ॥ १॥

श्रीकृष्ण उवाच ।
कर्तव्यं वाप्यकर्तव्यं नास्ति तत्त्वविदां सखे ।
तेऽकर्तारो ब्रह्मरूपा निषेधविधिवर्जिताः ॥ २॥

वेदः प्रभुर्न वै तेषां नियोजननिषेधने ।
स्वयं ब्रह्म सदानन्दा विश्रान्ताः परमात्मनि ॥ ३॥

न प्रवृत्तिर्निवृत्तिर्वा शुभे वाप्यशुभे तथा ।
फलं भोगस्तथा कर्म नादेहस्य भवेत्क्वचित् ॥ ४॥

देहः प्राणो मनो बुद्धिश्चित्ताहङ्कारमिन्द्रियम् ।
दैवं च वासना चेष्टा तद्योगात् कर्म सम्भवेत् ॥ ५॥

ज्ञानी सर्वं विचारेण निरस्य जडबोधतः ।
स्वरूपे सच्चिदानन्दे विश्रान्तश्चाद्वयत्वतः ॥ ६॥

कर्मलेशो भवेन्नास्य निष्क्रियात्मतया यतेः ।
तस्यैव फलभोगः स्याद्येन कर्म कृतं भवेत् ॥ ७॥

शरीरे सति यत्कर्म भवतीति प्रपश्यसि ।
अहङ्कारश्च साभासः कर्ता भोक्तात्र कर्मणः ॥ ८॥

साक्षिणा भास्यते सर्वं ज्ञानी साक्षी स्वयंप्रभः ।
सङ्गस्पर्शौ ततो न स्तो भानुवल्लोककर्मभिः ॥ ९॥

विचरति गृहकार्ये त्यक्तदेहाभिमानो
विहरति जनसङ्गे लोकयात्रानुरूपम् ।
पवनसमविहारी रागसङ्गादिमुक्तो
विलसति निजरूपे तत्त्वविद्व्यक्तलिङ्गः ॥ १०॥

लक्षणं किं ते वक्ष्यामि स्वभावतो विलक्षणः ।
भावातीतस्य को भावः किमलक्ष्यस्य लक्षणम् ॥ ११॥

विहरेद्विविधैर्भावैर्भावाभावविवर्जितः ।
सर्वाचारानतीतः स नानाचारैश्चरेद्यतिः ॥ १२॥

प्रारब्धैर्नीयते देहः कञ्चुकं पवनैर्यथा ।
भोगे नियोज्यते काले यथायोग्यं शरीरकम् ॥ १३॥

नानावेशधरो योगी विमुक्तः सर्ववेशतः ।
क्वचिद्भिक्षुः क्वचिन्नग्नो भोगे मग्नमनाः क्वचित् ॥ १४॥

शैलूषसदृशो वेशैर्नानारूपधरः सदा ।
भिक्षाचाररतः कश्चित् कश्चित्तु राजवैभवः ॥ १५॥

कश्चिद्भोगरतः कामी कश्चिद्वैराग्यमाश्रितः ।
दिव्यवासाश्चीराच्छन्नो दिग्वासा बद्धमेखलः ॥ १६॥

कश्चित् सुगन्धलिप्ताङ्गः कश्चिद्भस्मानुलेपितः ।
कश्चिद्भोगविहारी च युवती-यान-ताम्बूलैः ॥ १७॥

कश्चिदुन्मत्तवद्वेशः पिशाच इव वा वने ।
कश्चिन्मौनी भवेत् पार्थ कश्चिद्वक्तातितार्किकः ॥ १८॥

कश्चिच्छुभाशीः सत्पात्रः कश्चित्तद्भाववर्जितः ।
कश्चिद्गृही वनस्थोऽन्यः कश्चिन्मूढोऽपरः सुखी ॥ १९॥

इत्यादि विविधैर्भावैश्चरन्ति ज्ञानिनो भुवि ।
अव्यक्ता व्यक्तलिङ्गश्च भ्रमन्ति भ्रमवर्जिताः ॥ २०॥

नानाभावेन वेशेन चरन्ति गतसंशयाः ।
न ज्ञायते तु तान् दृष्ट्वा किञ्चिच्चिह्नञ्च बाह्यतः ॥ २१॥

देहात्मबुद्धितो लोके बाह्यलक्षणमीक्षते ।
अन्तर्भावे न वै वेद्यो बहिर्लक्षणतः क्वचित् ॥ २२॥

यो जानाति स जानाति नान्ये वादरता जनाः ।
शास्त्रारण्ये भ्रमन्ते ते न तेषां निष्कृतिः क्वचित् ॥ २३॥

दुष्प्राप्यतत्त्वं बहुना धनेन लभ्यं परं जन्मशतेन चैव ।
भाग्यं यदि स्याच्छुभसञ्चयेन पुण्येन चाचार्यकृपावशेन ॥ २४॥

यदि सर्वं परित्यज्य मयि भक्तिपरायणः ।
साधयेदेकचित्तेन साधनानि पुनः पुनः ॥ २५॥

विधाय कर्म निष्कामं सत्प्रीति-लाभ-मानसः ।
मयि कृत्वार्पणं सर्वं चित्तशुद्धिरवाप्यते ॥ २६॥

ततो विवेकसम्प्राप्तः साधनानि समाचरेत् ।
आत्मवासनया युक्तो बुभुत्सुर्व्यग्रमानसः ॥ २७॥

संश्रयेत् सद्गुरुं प्राज्ञं दम्भादिदोषवर्जितः ।
गुरुसेवारतो नित्यं तोषयेद्गुरुमीश्वरम् ।
तत्त्वातीतो भवेत्तत्त्वं लब्ध्वा गुरुप्रसादतः ॥ २८॥

गुरौ प्रसन्ने परतत्त्वलाभस्ततः क्व तापो भवबन्धमुक्तः ।
विमुक्तसङ्गः परमात्मरूपो न संसरेत् सोऽपि पुनर्भवाब्धौ ॥ २९॥

ज्ञानी कश्चिद्विरक्तः प्रविरतविषयस्त्यक्तभोगो निराशः
कश्चिद्भोगी प्रसिद्धो विचरति विषये भोगरागप्रसक्तः ।
प्रारब्धस्तत्र हेतुर्जनयति विविधा वासनाः कर्मयोगात्
प्रारब्धे यस्य भोगः स यतति विभवे भोगहीनो विरक्तः ॥ ३०॥

प्रारब्धाद्वासना चेच्छा प्रवृत्तिर्जायते नृणाम् ।
प्रवृत्तो वा निवृत्तो वा प्रभुत्वं तस्य सर्वतः ॥ ३१॥

भोगो ज्ञानं भवेद्देहे एकेनारब्धकर्मणा ।
प्रारब्धं भोगदं लोके दत्वा भोगं विनश्यति ॥ ३२॥

प्रारब्धं लक्ष्यसम्पन्ने घटवज्ज्ञानजन्मतः ।
शेषस्तिष्ठेत्समुत्पन्ने घटे चक्रस्य वेगवत् ॥ ३३॥

प्रारब्धं विदुषाः पार्थ ज्ञानोत्तरमृषात्मकम् ।
कर्तुं नातिशयं किञ्चित् प्रारब्धं ज्ञानिनां क्षमम् ॥ ३४॥

तद्देहारम्भिका शक्तिर्भोगदानाय देहिनाम् ।
दद्याज्ज्ञानोत्तरं भोगं देहाभासं विधाय तत् ॥ ३५॥

आभासशरीरे भोगो भवेत् प्रारब्धकल्पिते ।
मुक्तो ज्ञानदशायान्तु तत्त्वज्ञो भोगवर्जितः ॥ ३६॥

इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां षष्ठोऽध्यायः ॥६॥

अथ सप्तमोऽध्यायः ।
श्रीभगवनुवाच ।
सारं तत्त्वं प्रवक्ष्यामि तच्छृणुष्व सखेऽर्जुन ।
अतिगुह्यं महत्पूर्णं यच्छ्रुत्वा मुच्यते नरः ॥ १॥

पूर्णं चैतन्यमेकं सत्ततोऽन्यन्न हि किञ्चन ।
न माया नेश्वरो जीवो देशः कालश्चराचरम् ॥ २॥

न त्वं नाहं न वा पृथ्वी नेमे लोका भुवादयः ।
किञ्चिन्नास्त्यपि लेशेन नास्ति नास्तीति निश्चिनु ॥ ३॥

केवलं ब्रह्ममात्रं सन्नान्यदस्तीति भावय ।
पश्यसि स्वप्नवत्सर्वं विवर्तं चेतने खलु ॥ ४॥

विषयं देशकालादिं भोक्तृज्ञातृक्रियादिकम् ।
मिथ्या तत्स्वप्नवद्भानं न किञ्चिन्नापि किञ्चन ॥ ५॥

यत्सत्त्वं सततं प्रकाशममलं संसारधारावहं
नान्यत् किञ्च तरङ्गफेनसलिलं सत्तैव विश्वं तथा ।
दृश्यं स्वप्नमयं न चास्ति विततं मायामयं दृश्यते
चैतन्यं विषयो विभाति बहुधा ब्रह्मादिकं मायया ॥ ६॥

विश्वं दृश्यमसत्यमेतदखिलं मायाविलासास्पदं
आत्माऽज्ञाननिदानभानमनृतं सद्वच्च मोहालयम् ।
बाध्यं नाश्यमचिन्त्यचित्ररचितं स्वप्नोपमं तद्ध्रुवम्
आस्थां तत्र जहि स्वदुःखनिलये रज्ज्वां भुजङ्गोपमे ॥ ७॥

अर्जुन उवाच ।
निर्गुणं परमं ब्रह्म निर्विकारं विनिष्क्रियम् ।
जगत्सृष्टिः कथं तस्माद्भवति तद्वदस्व मे ॥ ८॥

श्रीभगवानुवाच ।
सृष्टिर्नास्ति जगन्नास्ति जीवो नास्ति तथेश्वरः ।
मायया दृश्यते सर्वं भास्यते ब्रह्मसत्तया ॥ ९॥

यथा स्तिमितगम्भीरे जलराशौ महार्णवे ।
समीरणवशाद्वीचिर्न वस्तु सलिलेतरत् ॥ १०॥

तथा हि पूर्णचैतन्ये मायया दृश्यते जगत् ।
न तरङ्गो जलाद्भिन्नो ब्रह्मणोऽन्यज्जगन्न हि ॥ ११॥

चैतन्यं विश्वरूपेण भासते मायया तथा ।
किञ्चिद्भवति नो सत्यं स्वप्नकर्मेव निद्रया ॥ १२॥

यावन्निद्रा ऋतं तावत् तथाऽज्ञानादिदं जगत् ।
न माया कुरुते किञ्चिन्मायावी न करोत्यणु ।
इन्द्रजालसमं सर्वं बद्धदृष्टिः प्रपश्यति ॥ १३॥

अज्ञानजनबोधार्थं बाह्यदृष्ट्या श्रुतीरितम् ।
बालानां प्रीतये यद्वद्धात्री जल्पति कल्पितम् ।
तत्प्रकारं प्रवक्ष्यामि श‍ृणुष्व कुन्तिनन्दन ॥ १४॥

चैतन्ये विमले पूर्णे कस्मिन् देशेऽणुमात्रकम् ।
अज्ञानमुदितं सत्तां चैतन्यस्फूर्तिमाश्रितम् ॥ १५॥

तदज्ञानं परिणतं स्वस्यैव शक्तिभेदतः ।
मायारूपा भवेदेका चाविद्यारूपिणीतरा ॥ १६॥

सत्त्वप्रधानमायायां चिदाभासो विभासितः ।
चिदध्यासाच्चिदाभास ईश्वरोऽभूत्स्वमायया ॥ १७॥

मायावृत्या भवेदीशः सर्वज्ञः सर्वशक्तिमान् ।
इच्छादि सर्वकर्तृत्वं मायावृत्या तथेश्वरे ॥ १८॥

ततः सङ्कल्पवानीशस्तद्वृत्या स्वेच्छया स्वतः ।
बहुः स्यामहमेवैकः सङ्कल्पोऽस्य समुत्थितः ॥ १९॥

मायाया उद्गतः कालो महाकाल इति स्मृतः ।
कालशक्तिर्महाकाली चाद्या सद्यसमुद्भवात् ॥ २०॥

कालेन जायते सर्वं काले च परितिष्ठति ।
काले विलयमाप्नोति सर्वे कालवशानुगाः ॥ २१॥

सर्वव्यापी महाकालो निराकारो निरामयः ।
उपाधियोगतः कालो नानाभावेन भासते ॥ २२॥

निमेषादिर्युगः कल्पः सर्वं तस्मिन् प्रकाशितम् ।
कालतोऽभून्महत्तत्त्वं महत्तत्त्वादहङ्कृतिः ॥ २३॥

त्रिविधः सोऽप्यहङ्कारः सत्त्वादिगुणभेदतः ।
अहङ्काराद्भवेत् सूक्ष्मतन्मात्राण्यपि पञ्च वै ॥ २४॥

सूक्ष्माणि पञ्चभूतानि स्थूलानि व्याकृतानि तु ।
सत्त्वांशात् सूक्ष्मभूतानां क्रमाद्धीन्द्रियपञ्चकम् ।
अन्तःकरणमेकं तत् समष्टिगुणतत्त्वतः ॥ २५॥

कर्मेन्द्रियाणि रजसः प्रत्येकं भूतपञ्चकात् ।
पञ्चवृत्तिमयः प्राणः समष्टिः पञ्चराजसैः ॥ २६॥

पञ्चीकृतं तामसांशं तत्पञ्चस्थूलतां गतम् ।
स्थूलभूतात् स्थूलसृष्टिर्ब्रह्माण्डशरीरादिकम् ॥ २७॥

मायोपाधिर्भवेदीशश्चाविद्या जीवकारणम् ।
शुद्धसत्त्वाधिका माया चाविद्या सा तमोमयी ॥ २८॥

मलिनसत्त्वप्रधाना ह्यविद्याऽऽवरणात्मिका ।
चिदाभासस्तत्र जीवः स्वल्पज्ञश्चापि तद्वशः ।
चैतन्ये कल्पितं सर्वं बुद्बुदा इव वारिणि ॥ २९॥

तैलबिन्दुर्यथा क्षिप्तः पतितः सरसीजले ।
नानारूपेण विस्तीर्णो भवेत्तन्न जलं तथा ॥ ३०॥

अनन्तपूर्णचैतन्ये महामाया विजृम्भिता ।
कस्मिन् देशे चाणुमात्रं बिभृता नामरूपतः ॥ ३१॥

न मायातिशयं कर्तुं ब्रह्मणि कश्चिदर्हति ।
चैतन्यं स्वबलेनैव नानाकारं प्रदर्शयेत् ॥ ३२॥

विवर्तं स्वप्नवत्सर्वमधिष्ठाने तु निर्मले ।
आकाशे धूमवन्माया तत्कार्यमपि विस्तृतम् ।
सङ्गः स्पर्शस्ततो नास्ति नाम्बरं मलिनं ततः ॥ ३३॥

कार्यानुमेया सा माया दाहकानलशक्तिवत् ।
अधिज्ञैरनुमीयेत जगद्दृष्ट्यास्य कारणम् ॥ ३४॥

न माया चैतन्ये न हि दिनमणावन्धकारप्रवेशः
दिवान्धाः कल्पन्ते दिनकरकरे शार्वरं घोरदृष्ट्या ।
न सत्यं तद्भावः स्वमतिविषयं नास्ति तल्लेशमात्रः
तथा मूढाः सर्वे मनसि सततं कल्पयन्त्येव माया ॥ ३५॥

स्वसत्ताहीनरूपत्वादवस्तुत्वात्तथैव च ।
अनात्मत्वाज्जडत्वाच्च नास्ति मायेति निश्चिनु ॥ ३६॥

माया नास्ति जगन्नास्ति नास्ति जीवस्तथेश्वरः ।
केवलं ब्रह्ममात्रत्वात् स्वप्नकल्पेव कल्पना ॥ ३७॥

एकं वक्त्रं न योग्यं तद्द्वितीयं कुत इष्यते ।
संख्याबद्धं भवेदेकं ब्रह्मणि तन्न शोभते ॥ ३८॥

लेशमात्रं न हि द्वैतं द्वैतं न सहते श्रुतिः ।
शब्दातीतं मनोऽतीतं वाक्यातीतं सदामलम् ।
उपमाभावहीनत्वादीदृशस्तादृशो न हि ॥ ३९॥

न हि तत् श्रूयते श्रोत्रैर्न स्पृश्यते त्वचा तथा ।
न हि पश्यति चक्षुस्तद्रसनास्वादयेन्न हि ।
न च जिघ्रति तद्घ्राणं न वाक्यं व्याकरोति च ॥ ४०॥

सद्रूपो ह्यविनाशित्वात् प्रकाशत्वाच्चिदात्मकः ।
आनन्दः प्रियरूपत्वान्नात्मन्यप्रियता क्वचित् ॥ ४१॥

व्यापकत्वादधिष्ठानाद्देहस्यात्मेति कथ्यते ।
बृंहणत्वाद्बृहत्वाच्च ब्रह्मेति गीयते श्रुतौ ॥ ४२॥

यदा ज्ञात्वा स्वरूपं स्वं विश्रान्तिं लभसे सखे ।
तदा धन्यः कृतार्थः सन् जीवन्मुक्तो भविष्यसि ॥ ४३॥

मोक्षरूपं तमेवाहुर्योगिनस्तत्त्वदर्शिनः ।
स्वरूपज्ञानमात्रेण लाभस्तत्कण्ठहारवत् ॥ ४४॥

प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः ।
तमस्तमःकार्यमसत्यसर्वं न दृश्यते भानोर्महाप्रकाशे ॥ ४५॥

अतस्ततो नास्ति जगत्प्रसिद्धं शुद्धे परे ब्रह्मणि लेशमात्रम् ।
मृषामयं कल्पितनामरूपं रज्ज्वां भुजङ्गो मृदि कुम्भभाण्डम् ॥ ४६॥

इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायां सप्तमोऽध्यायः ॥७॥

अथाष्टमोऽध्यायः ।
अर्जुन उवाच ।
किं लक्ष्यं स्वात्मरूपेण यद्ब्रह्म कथ्यते विदा ।
यज्ज्ञात्वा ब्रह्मरूपेण स्वात्मानं वेद्मि तद्वद ॥ १॥

श्रीभगवनुवाच ।
अङ्गुष्ठमात्रः पुरुषो हृत्पद्मे यो व्यवस्थितः ।
तमात्मानञ्च वेत्तारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ २॥

हृदयकमलं पार्थ अङ्गुष्ठपरिमाणतः ।
तत्र तिष्ठति यो भाति वंशपर्वणीवाम्बरम् ।
अङ्गुष्ठमात्रं पुरुषं तेनैव वदति श्रुतिः ॥ ३॥

महाकाशे घटे जातेऽवकाशो घटमध्यगः ।
घटावच्छिन्न आकाशः कथ्यते लोकपण्डितैः ॥ ४॥

कूटस्थोऽपि तथा बुद्धिः कल्पिता तु यदा भवेत् ।
तदा कूटस्थचैतन्यः बुद्ध्यन्तस्थं विभासते ।
बुद्ध्यवच्छिन्नचैतन्यं जीवलक्ष्यं त्वमेव हि ॥ ५॥

प्रज्ञानं तच्च गायन्ति वेदशास्त्रविशारदाः ।
आनन्दं ब्रह्मशब्दाभ्यां विशेषणविशेषितम् ॥ ६॥

श‍ृणोति येन जानाति पश्यति च विजिघ्रति ।
स्वादास्वादं विजानाति शीतञ्चोष्णादिकं तथा ॥ ७॥

चैतन्यं वेदनारूपं तत्सर्ववेदनाश्रयम् ।
अलक्ष्यं शुद्धचैतन्यं कूटस्थं लक्षयेत् श्रुतिः ॥ ८॥

बुद्ध्यावच्छिन्नचैतन्यं वृत्यारूढं यदा भवेत् ।
ज्ञानशब्दाभिधं तर्हि तेन चैतन्यबोधनम् ॥ ९॥

यदा वृत्तिः प्रमाणेन विषयेणैकतां व्रजेत् ।
वृत्तविषयचैतन्ये एकत्वेन फलोदयः ॥ १०॥

तदा वृत्तिलये प्राप्ते ज्ञानं चैतन्यमेव तत् ।
प्रबोधनाय चैतन्यं ज्ञानशब्देन कथ्यते ॥ ११॥

श‍ृणोषि वीक्षसे यद्यत्तत्र संविदनुत्तमा ।
अनुस्यूततया भाति तत्तत्सर्वप्रकाशिका ॥ १२॥

संविदं तां विचारेण चैतन्यमवधारय ।
तत्र पश्यसि यद्वस्तु जानामीति विभासते ।
तद्धि संवित्प्रभावेन विज्ञेयं स्वरूपं ततः ॥ १३॥

सर्वं निरस्य दृश्यत्वादनात्मत्वाज्जडत्वतः ।
तमविच्छिन्नमात्मानं विद्धि सुसूक्ष्मया धिया ॥ १४॥

या संवित् सैव हि त्वात्मा चैतन्यं ब्रह्म निश्चिनु ।
त्वंपदस्य च लक्ष्यं तज्ज्ञातव्यं गुरुवाक्यतः ॥ १५॥

घटाकाशो महाकाश इव जानीहि चैकताम् ।
अखण्डत्वं भवेदैक्यं ज्ञात्वा ब्रह्ममयो भव ॥ १६॥

कुम्भाकाशमहाकाशो यथाऽभिन्नो स्वरूपतः ।
तथात्मब्रह्मणोऽभेदं ज्ञात्वा पूर्णो भवार्जुन ॥ १७॥

नानाधारे यथाकाशः पूर्ण एको हि भासते ।
तथोपाधिषु सर्वत्र चैकात्मा पूर्णनिरद्वयः ॥ १८॥

यथा दीपसहस्रेषु वह्निरेको हि भास्वरः ।
तथा सर्वशरीरेषु ह्येकात्मा चित्सदव्ययः ॥ १९॥

सहस्रधेनुषु क्षीरं सर्पिरेकं न भिद्यते ।
नानारणिप्रस्तरेषु कृशानुर्भेदवर्जितः ॥ २०॥

नानाजलाशयेष्वेवं जलमेकं स्फुरत्यलम् ।
नानावर्णेषु पुष्पेषु ह्येकं तन्मधुरं मधु ॥ २१॥

इक्षुदण्डेष्वसंख्येषु चैकं हि रसमैक्षवम् ।
तथा हि सर्वभावेषु चैतन्यं पूर्णमद्वयम् ॥ २२॥

अद्वये पूर्णचैतन्ये कल्पितं माययाखिलम् ।
मृषा सर्वमधिष्ठानं नानारूपेण भासते ॥ २३॥

अखण्डे विमले पूर्णे द्वैतगन्धविवर्जिते ।
नान्यत्किञ्चित्केवलं सन्नानाभावेन राजते ॥ २४॥

स्वप्नवद्दृश्यते सर्वं चिद्विवर्तं चिदेव हि ।
केवलं ब्रह्ममात्रन्तु सच्चिदानन्दमव्ययम् ॥ २५॥

सच्चिदानन्दशब्देन तल्लक्ष्यं लक्षयेत् श्रुतिः ।
अक्षरमक्षरातीतं शब्दातीतं निरञ्जनम् ।
तत्स्वरूपं स्वयं ज्ञात्वा ब्रह्मवित्त्वं परित्यज ॥ २६॥

अभिमानावृतिर्मुख्या तेनैव स्वरूपावृतिः ।
पञ्चकोशेष्वहङ्कारः कर्तृभावेन राजते ॥ २७॥

ब्रह्मवित्त्वाभिमानं यद्भवेद्विज्ञानसंज्ञिते ।
अहङ्कारस्य तद्धर्म पिहिते स्वरूपेऽमले ॥ २८॥

अतः संत्यज्य तद्भावं केवलं स्वरूपे स्थितम् ।
तत्त्वज्ञानमिति प्राहुर्योगिनस्तत्त्वदर्शिनः ॥ २९॥

अन्धकारगृहे शायी शरीरं तूलिकावृतम् ।
देहादिकं च नास्तीति निश्चयेन विभावय ॥ ३०॥

न पश्यसि तदा किञ्चिद्विभाति साक्षि सत्स्वयम् ।
अहमस्मीति भावेन चान्तः स्फुरति केवलम् ॥ ३१॥

निःशेषत्यक्तसंघातः केवलः पुरुषः स्वयम् ।
अस्ति नास्ति बुद्धिधर्मे सर्वात्मना परित्यजेत् ॥ ३२॥

अहं सर्वात्मना त्यक्त्वा सर्वभावेन सर्वदा ।
अहमस्मीत्यहं भामि विसृज्य केवलो भव ॥ ३३॥

जाग्रदपि सुषुप्तिस्थो जाग्रद्धर्मविवर्जितः ।
सौषुप्ते क्षयिते धर्मे त्वज्ञाने चेतनः स्वयम् ॥ ३४॥

हित्वा सुषुप्तावज्ञानं यद्भावो भाववर्जितः ।
प्रज्ञया स्वरूपं ज्ञात्वा प्रज्ञाहीनस्तथा भव ॥ ३५॥

न शब्दः श्रवणं नापि न रूपं दर्शनं तथा ।
भावाभावौ न वै किञ्चित् सदेवास्ति न किञ्चन ॥ ३६॥

सुसूक्ष्मया धिया बुद्ध्वा स्वरूपं स्वस्थचेतनम् ।
बुद्धौ ज्ञानेने लीनायां यत्तच्छुद्धस्वरूपकम् ॥ ३७॥

इति ते कथितं तत्त्वं सारभूतं शुभाशय ।
शोको मोहस्त्वयि नास्ति शुद्धरूपोऽसि निष्कलः ॥ ३८॥

शान्तव्रत उवाच ।
श्रुत्वा प्रोक्तं वासुदेवेन पार्थो हित्वाऽऽसक्तिं मायिकेऽसत्यरूपे ।
त्यक्त्वा सर्वं शोकसन्तापजालं ज्ञात्वा तत्त्वं सारभूतं कृतार्थः ॥ ३९॥

कृष्णं प्रणम्याथ विनीतभावैर्ध्यात्वा हृदिस्थं विमलं प्रपन्नम् ।
प्रोवाच भक्त्या वचनेन पार्थः कृताञ्जलिर्भावभरेण नम्रः ॥ ४०॥

अर्जुन उवाच ।
त्वमाद्यरूपः पुरुषः पुराणो न वेद वेदस्तव सारतत्त्वम् ।
अहं न जाने किमु वच्मि कृष्ण नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४१॥

त्वमेव विश्वोद्भवकारणं सत् समाश्रयस्त्वं जगतः प्रसिद्धः ।
अनन्तमूर्तिर्वरदः कृपालुर्नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४२॥

वदामि किं ते परिशेषतत्त्वं न जाने किञ्चित्तव मर्म गूढम् ।
त्वमेव सृष्टिस्थितिनाशकर्ता नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ ४३॥

विश्वरूपं पुरा दृष्टं त्वमेव स्वयमीश्वरः ।
मोहयित्वा सर्वलोकान् रूपमेतत् प्रकाशितम् ॥ ४४॥

सर्वे जानन्ति त्वं वृष्णिः पाण्डवानां सखा हरिः ।
किं ते वक्ष्यामि तत्तत्त्वं न जानन्ति दिवौकसः ॥ ४५॥

श्रीभगवानुवाच ।
तत्त्वज्ञोऽसि यदा पार्थ तूष्णीं भव तदा सखे ।
यद्दृष्टं विश्वरूपं मे मायामात्रं तदेव हि ॥ ४६॥

तेन भ्रान्तोऽसि कौन्तेय स्वस्वरूपं विचिन्तय ।
मुह्यन्ति मायया मूढास्तत्त्वज्ञा मोहवर्जिताः ॥ ४७॥

शान्तिगीतामिमां पार्थ मयोक्तां शान्तिदायिनीम् ।
यः श‍ृणुयात् पठेद्वापि मुक्तः स्याद्भवबन्धनात् ॥ ४८॥

न कदाचिद्भवेत् सोऽपि मोहितो मम मायया ।
आत्मज्ञानाच्छोकशान्तिर्भवेद्गीताप्रसादतः ॥ ४९॥

शान्तव्रत उवाच ।
इत्युक्त्वा भगवान् कृष्णः प्रफुल्लवदनः स्वयम् ।
अर्जुनस्य करं धृत्वा युधिष्ठिरान्तिकं ययौ ॥ ५०॥

इयं गीता तु शान्त्याख्या गुह्याद्गुह्यतरा परा ।
तव स्नेहान्मया प्रोक्ता यद्दत्ता गुरुणा मयि ॥ ५१॥

न दातव्या क्वचिन्मोहाच्छठाय नास्तिकाय च ।
कुतर्काय च मूर्खाय निर्देयोन्मार्गवर्तिने ॥ ५२॥

प्रदातव्या विरक्ताय प्रपन्नाय मुमुक्षवे ।
गुरुदैवतभक्ताय शान्ताय ऋजवे तथा ॥ ५३॥

सश्रद्धाय विनीताय दयाशीलाय साधवे ।
विद्वेषक्रोधहीनाय देया गीता प्रयत्नतः ॥ ५४॥

इति ते कथिता राजन् शान्तिगीता सुगोपिता ।
शोकशान्तिकरी दिव्या ज्ञानदीपप्रदीपनी ॥ ५५॥

गीतेयं शान्तिनाम्नी मधुरिपुगदिता पार्थशोकप्रशान्त्यै
पापौघं तापसंघं प्रहरति पठनात् सारभूतातिगुह्या ।
आविर्भूता स्वयं सा स्वगुरुकरुणया शान्तिदा शान्तभावा
काशीसत्त्वे सभासा तिमिरचयहरा नर्तयन् पद्यबन्धैः ॥ ५६॥

इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे
शान्तिगीतायामष्टमोऽध्यायः ॥८॥

इति शान्तिगीता समाप्ता ॥

Also Read:

Shanti Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shanti Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top