Siva Mahima Ashtakam in Hindi:
|| श्रीशिवमहिमाष्टकम् ||
सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः ।
अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः || १ ||
भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः ।
धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः || २ ||
निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः ।
जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः || ३ ||
वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः ।
त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः || ४ ||
अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः ।
धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः || ५ ||
व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः ।
व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः || ६ ||
युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः ।
रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः || ७ ||
यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः ।
परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः || ८ ||
शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ||
इति श्रीनिम्बार्कपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्यजी
महाराज द्वारा रचितं श्रीशिवमहिमाष्टकं सम्पूर्णम् ।
Also Read:
Shiva Mahima Ashtakam in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil