Templesinindiainfo

Best Spiritual Website

Shri Kashi Viswanatha Suprabhatam Lyrics in Marathi

Sri Kashi Vishwanatha Suprabhatam in Marathi:

॥ श्री विश्वनाथ सुप्रभातम ॥
उत्तिष्ट भैरवस्वामिन काशिकापुरपालक ।
श्रीविश्वनाथभक्तानां संपूरय मनोरथम ॥ १ ॥

स्नानाय गाङ्गसलिले.अथ समर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः ।
श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातम ॥ २ ॥

यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदा.असि ।
कारुण्यपूरमयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रब्ब्भातम ॥ ३ ॥

दुग्धप्रवाहकमनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्घे ।
नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातम ॥ ४ ॥

वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेष्टफलदानसमर्थमूर्ते ।
उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातम ॥ ५ ॥

पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम ।
गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातम ॥ ६ ॥

कात्यायनि प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे ।
ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातम ॥ ७ ॥

प्रातः प्रसीद विमले कमलायताक्शि कारुण्यपूर्णहृदये नमतां शरण्ये ।
निर्धूतपापनिचये सुरपूजिताङ्घ्रे श्रीविश्वनाथदयिते तव सुप्रभातम ॥ ८ ॥

सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम ।
सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातम ॥ ९ ॥

सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान भुवि मर्त्यवर्गः ।
तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातम ॥१०।

शईकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ ।
उत्तिष्ट सर्वजनमङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम ॥ ११ ॥

गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातम ॥ १२ ॥

श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसमलंकृतभव्यचूड ।
भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातम ॥ १३ ॥

देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग ।
नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातम ॥ १४ ॥

वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते ।
त्वय्यर्पितार्जितसमस्तसुरक्शणस्य वाराणसीपुरपते तव सुप्रभातम ॥ १५ ॥

कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप ।
वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातम ॥ १६ ॥

श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल ।
श्रीविश्वनाथमृदुपङ्कजमञ्जुपाद श्रीकाशिकापुरपते तव सुप्रभातम ॥ १७ ॥

काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या ।
विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातम ॥ १८ ॥

श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि ।
वाचं तवैव यशसा.अनघ भूषयामि वाराणसीपुरपते तव सुप्रभातम ॥ १९ ॥

नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि ।
गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातम ॥ २० ॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ *

ॐ मङ्गलं भगवान शम्भो मङ्गलम व‍ईषभध्वज ।
मङ्गलं पार्वतीनाथ मङ्गलं भक्तवत्सल ॥ *

* एतत श्लोकद्वयं प्राचीनकविक‍ईतम ।

Also Read:

Shri Kashi Viswanatha Suprabhatam Lyrics in Hindi | English | Bengali | Gujarati | Marathi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Kashi Viswanatha Suprabhatam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top