Templesinindiainfo

Best Spiritual Website

Shri Radha Ashtakam Lyrics in Hindi | Sri Radha Stotram

Sri Radhashtakam Lyrics in Hindi:

॥ श्रीराधाष्टकम् ॥
ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं
विलसितखुरलीभिः खञ्जरीटस्य खेलाम् ।
हृदयमधुपमल्लीं वल्लवाधीशसूनो-
रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥

पितुरिह वृषभानो रत्नवायप्रशस्तिं
जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् ।
व्रजनृपतिकुमारं खेलयन्तीं सखीभिः
सुरभिनि निजकुण्डे राधिकामर्चयामि ॥ २॥

शरदुपचितराकाकौमुदीनाथकीर्त्ति-
प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् ।
नटयदभिदपाङ्गोत्तुङ्गितानं गरङ्गां
वलितरुचिररङ्गां राधिकामर्चयामि ॥ ३॥

विविधकुसुमवृन्दोत्फुल्लधम्मिल्लधाटी-
विघटितमदघृर्णात्केकिपिच्छुप्रशस्तिम् ।
मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग-
स्फुरदमलकपोलां राधिकामर्चयामि ॥ ४॥

नलिनवदमलान्तःस्नेहसिक्तां तरङ्गा-
मखिलविधिविशाखासख्यविख्यातशीलाम् ।
स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं
धृतमधुरविनोदां राधिकामर्चयामि ॥ ५॥

अतुलमहसिवृन्दारण्यराज्येभिषिक्तां
निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् ।
अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां
जगदघहरकीर्तिं राधिकामर्चयामि ॥ ६॥

हरिपदनखकोटीपृष्ठपर्यन्तसीमा-
तटमपि कलयन्तीं प्राणकोटेरभीष्टम् ।
प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा-
गुरुमपि गुरुकीर्तिं राधिकामर्चयामि ॥ ७॥

अमलकनकपट्टीदृष्टकाश्मीरगौरीं
मधुरिमलहरीभिः सम्परीतां किशोरीम् ।
हरिभुजपरिरब्ध्वां लघ्वरोमाञ्चपालीं
स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ ८॥

तदमलमधुरिम्णां काममाधाररूपं
परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः ।
अहिमकिरणपुत्रीकूलकल्याणचन्द्रः
स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ९॥

इति श्रीराधाष्टकं सम्पूर्णम् ॥

Shri Radha Ashtakam Lyrics in Hindi | Sri Radha Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top