Sri Vallabhashtakam 3 Lyrics in Hindi:
श्रीवल्लभाष्टकम् ३
मन्दिरं सुन्दरं सुन्दरीशोभितं
दर्शय गोकुलाधीश मे नित्यम् ।
कोटिसौन्दर्यता अङ्ग आनन्दमयी
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ १॥
केशशोभामरे भालरेखा उभय-
दीर्घता नासिका लोलता ईक्षणम् ।
माथुरीमत्तता श्रीमुखावलोकने
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ २॥
कुण्डलोद्योतता कर्णभामयी
हेममुक्तामणि शुभ्रता भूषणम् ।
चित्तचिन्तामणि नयनशृङ्गार ये
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ३॥
रङ्गबिम्बाधरे नागवेलीयुतं
दानरूपामृते पानप्रेमामृते ।
चारुहास्ये कृपाभावलोभिन्नता
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ४॥
मालग्रीवालसे स्वेतधोतीधरे
मुद्रिका अङ्गुली राजते मुद्रितम् ।
प्रियप्रेमावली सिञ्चने सर्वदा
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ५॥
भोगरागे रसे भामिनीसंयुतं
भोग्यतानित्य ये दक्षहानाधिपम् ।
केलिलीलारसोद्बोधभावप्रदे
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ६॥
लग्नता चित्त मे विस्मृता सर्वतः
प्राप्तितो भावये दीनता निश्चितम् ।
रूक्षता नन्दता सत्त्वता तत्फलं
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ७॥
तप्त आसक्तता विप्रयोगे स्थिति-
र्जीवते दुर्लभा सिद्धयोगे मतिः ।
सत्यसङ्कल्प अङ्गीकृतौ नाथ ये
सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ८॥
इति भाई गोकुलदासकृतं वल्लभाष्टकं ३ सम्पूर्णम् ।