Templesinindiainfo

Best Spiritual Website

Sri Bhuvaneshwari Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Bhuvaneshwari Ashtottara Shatanamavali in Hindi:

॥ श्री भुवनेश्वरी अष्टोत्तरशतनाम स्तोत्रम् ॥
कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ १ ॥

देव्युवाच –
भुवनेशी महाविद्या नाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥

ईश्वर उवाच –
शृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ ३ ॥

शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् ॥ ४ ॥

अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रमन्त्रस्य शक्तिः ऋषिः गायत्री छन्दः श्री भुवनेश्वरी देवता चतुर्विधफल पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ॥ ५ ॥

स्तोत्रम् –
महामाया महाविद्या महायोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ ६ ॥

वागीश्वरी योगरूपा योगिनी कोटिसेविता ।
जया च विजया चैव कौमारी सर्वमङ्गला ॥ ७ ॥

पिङ्गला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ ८ ॥

वैष्णवी सुभगाकारी सुकुल्या कुलपूजिता ।
वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥ ९ ॥

डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ १० ॥

भूचरी खेचरी माया मातङ्गी भुवनेश्वरी ।
कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी ॥ ११ ॥

उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इन्द्राणी ब्रह्मचण्डाली चण्डिका वायुवल्लभा ॥ १२ ॥

सर्वधातुमयी-मूर्ति-र्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥ १३ ॥

नर्मदा मोक्षदा चैव कामधर्मार्थदायिनी ।
गायत्री चाऽथ सावित्री त्रिसन्ध्या तीर्थगामिनी ॥ १४ ॥

अष्टमी नवमी चैव दशम्यैकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥ १५ ॥

सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥ १६ ॥

लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्ति-रगाधा धृतकुण्डला ॥ १७ ॥

क्षतरूपी क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ता-व्यक्तलोका च शम्भुरूपा मनस्विनी ॥ १८ ॥

मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा ।
दैत्यहन्त्री च वाराही सर्वशास्त्रमयी शुभा ॥ १९ ॥

य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥ २० ॥

मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥ २१ ॥

वैश्यस्तु धनवान्भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ॥ २२ ॥

ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥ २३ ॥

ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ॥ २४ ॥

शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् ॥ २५ ॥

इति श्रीरुद्रयामले देवीशङ्करसंवादे भुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥

Also Read:

Sri Bhuvaneshwari Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Bhuvaneshwari Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top