Templesinindiainfo

Best Spiritual Website

Sri Ganesha Avatara Stotram Lyrics in Sanskrit

Sri Ganesha Avatara Stotram Sanskrit Lyrics:

श्री गणेशावतार स्तोत्रम्
अङ्गिरस उवाच ।
अनन्ता अवताराश्च गणेशस्य महात्मनः ।
न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १ ॥

सङ्क्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।
अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २ ॥

वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः ।
मत्सुरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३ ॥

एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।
मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ४ ॥

महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः ।
मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ५ ॥

गजाननः स विज्ञेयः साङ्ख्येभ्यः सिद्धिदायकः ।
लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥ ६ ॥

लम्बोदरावतारो वै क्रोधासुरनिबर्हणः ।
आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥ ७ ॥

विकटो नाम विख्यातः कामासुरप्रदाहकः ।
मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥ ८ ॥

विघ्नराजावतारश्च शेषवाहन उच्यते ।
ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥ ९ ॥

धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।
आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥ १० ॥

एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।
एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥ ११ ॥

स्वानन्दवासकारी स गणेशानः प्रकथ्यते ।
स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥ १२ ॥

तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः ।
स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥ १३ ॥

माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।
सम्योगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १४ ॥

अयोगे गणराजस्य भजने नैव सिद्ध्यति ।
मायाभेदमयं ब्रह्म निर्वृत्तिः प्राप्यते परा ॥ १५ ॥

योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।
तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १६ ॥

नानाशान्तिप्रमोदश्च स्थाने स्थाने प्रकथ्यते ।
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १७ ॥

योगस्य योगतादृष्टा सर्वब्रह्म सुपुत्रक ।
न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ १८ ॥

एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ १९ ॥

पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ २० ॥

धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
भक्तिदृढकरं चैव भविष्यति न संशयः ॥ २१ ॥

इति श्रीमुद्गलपुराणे गणेशावतारस्तोत्रं सम्पूर्णम् ।

Also Read:

Sri Ganesha Avatara Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Ganesha Avatara Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top