Templesinindiainfo

Best Spiritual Website

Sri Guru Gita Lyrics in Hindi

Shri Guru Geetaa in Hindi:

॥ श्रीगुरुगीता ॥ (Dharma Mandala DLI version)
॥ अथ श्रीगुरुगीता ॥

ऋषय ऊचुः ।
गुह्याद्गुह्यतरा विद्या गुरुगीता विशेषतः ।
ब्रूहि नः सूत कृपया श‍ृणुमस्त्वत्प्रसादतः ॥ १ ॥

सूत उवाच ।
गिरीन्द्रशिखरे रम्ये नानारत्नोपशोभिते ।
नानावृक्षलताकीर्णे नानापक्षिरवैर्युते ॥ २ ॥

सर्वर्तुकुसुमामोदमोदिते सुमनोहरे ।
शैत्यसौगन्ध्यमान्द्याढ्यमरुद्भिरुपवीजिते ॥ ३ ॥

अप्सरोगणसङ्गीतकलध्वनिनिनादिते ।
स्थिरच्छायाद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥ ४ ॥

मत्तकोकिलसन्दोहसङ्घुष्टविपिनान्तरे ।
सर्वदा स्वगणैः सार्द्धमृतुराजनिपेविते ॥ ५ ॥

सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते ।
तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ६ ॥

सदाशिवं सदानन्दं करुणामृतसागरम् ।
कर्पूरकुन्दधवलं शुद्धतत्त्वमयं विभुम् ॥ ७ ॥

दिगम्बरं दीननाथं योगीन्द्रं योगिवल्लभम् ।
गङ्गाशीकरसंसिक्तजटामण्डलमण्डितम् ॥ ८ ॥

विभूतिभूषितं शान्तं व्यालमालं कपालिनम् ।
अन्धकारिं त्रिलोकेशं त्रिशूलवरधारकम् ॥ ९ ॥

आशुतोषं ज्ञानमयं कैवल्यफलदायकम् ।
निर्विकल्पं निरातङ्कं निर्विशेषं निरञ्जनम् ॥ १० ॥

सर्वेषां हितकर्तारं देवदेवं निरामयम् ।
कैलासशिखरासीनं पञ्चवक्त्रं सुभूषितम् ॥ ११ ॥

सर्वात्मनाविष्टचित्तं गिरिजामुखपङ्कजे ।
प्रणम्य परया भक्त्या कृताञ्जलिपुटा सती ॥ १२ ॥

प्रसन्नवदनं वीक्ष्य लोकानां हितकाम्यया ।
विनयाऽवनता देवी पार्वती शिवमब्रवीत् ॥ १३ ॥

श्रीमहादेव्युवाच ।
नमस्ते देवदेवेश सदाशिव जगद्गुरो ।
प्राणेश्वर महादेव गुरुगीतां वद प्रभो ॥ १४ ॥

केन मार्गेण भोः स्वामिन् देही ब्रह्ममयो भवेत् ।
त्वं कृपां कुरु मे देव नमामि चरणं तव ॥ १५ ॥

श्री महादेव उवाच ।
गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ १६ ॥

गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविमोचकः ॥ १७ ॥

गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः ।
उकारः शम्भुरित्युक्तस्त्रितयाऽऽत्मा गुरुः स्मृतः ॥ १८ ॥

श्रीमहादेव्युवाच ।
मायामोहितजीवानां जन्ममृत्युजरादितः ।
रक्षायै कः प्रभवति स्वामिन् संसारसागरे ॥ १९ ॥

त्वत्तो नाऽन्यो दयासिन्धो कश्चिच्छक्नोति वै प्रभो ।
दातुं प्रतिवचश्चाऽस्य लोकशोकविमोचनम् ॥ २० ॥

त्रितापतप्तजीवानां कल्याणार्थं मया प्रभो ।
विहितः सादरं प्रश्न उत्तरेणाऽनुगृह्यताम् ॥ २१ ॥

श्रीमहादेव उवाच ।
संसाराऽपारपाथोधेः पारं गन्तुं महेश्वरि ।
श्रीगुरोश्चरणाऽम्भोजनौकेवैकाऽवलम्बनम् ॥ २२ ॥

सद्गुरो रूपमादाय जगत्यामहमेव हि ।
उद्धराम्यखिलाञ्जीवान्मृत्युसंसारसागरात् ॥ २३ ॥

यो गुरुः स शिवः साक्षाद्यः शिवः स गुरुर्मतः ।
गुरौ मयि न भेदोऽस्ति भेदस्तत्र निरर्थकः ॥ २४ ॥

गुरुर्ज्ञानप्रदो नित्यं परमाऽऽनन्दसागरे ।
उन्मज्जयति जीवान्स ताॅंस्तथैव निमज्जयन् ॥ २५ ॥

गुरुस्त्रितापतप्तानां जीवानां रक्षिता क्षितौ ।
सच्चिदानन्दरूपं हि गुरुर्ब्रह्म न संशयः ॥ २६ ॥

यादृगस्तीह सम्बन्धो ब्रह्माण्डस्येश्वरेण वै ।
तथा क्रियाऽऽख्ययोगस्य सम्बन्धो गुरुणा सह ॥ २७ ॥

दीक्षाविधावीश्वरो वै कारणस्थलमुच्यते ।
गुरुः कार्यस्थलञ्चाऽतो गुरुर्ब्रह्म प्रगीयते ॥ २८ ॥

गुरौ मानुपबुद्धिं तु मन्त्रे चाऽक्षरभावनाम् ।
प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् ॥ २९ ॥

जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुर्विशेषतः पूज्यो धर्माऽधर्मप्रदर्शकः ॥ ३० ॥

गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ३१ ॥

श्रीमहादेव्युवाच ।
जगन्मङ्गलकृन्नाथ विशेषेणोपदिश्यताम् ।
लक्षणं सद्गुरोर्येन सम्यग्ज्ञातं भवेद्ध्रुवम् ॥ ३२ ॥

आचार्यगुरुभेदोऽपि येन स्याद्विदितो मम ।
श्रेष्ठत्वं वा तयोः केन लक्षणेनाऽनुमीयते ॥ ३३ ॥

श्रीमहादेव उवाच ।
सर्वशास्त्रपरो दक्षः सर्वशात्रार्थवित्सदा ।
सुवचाः सुन्दरः स्वङ्गः कुलीनः शुभदर्शनः ॥ ३४ ॥

जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः ।
मातृपितृहिते युक्तः सर्वकर्मपरायणः ॥ ३५ ॥

आश्रमी देशवासी च गुरुरेवं विधीयते ।
आचार्यगुरुशब्दौ द्वौ क्वचित्पर्यायवाचकौ ॥ ३६ ॥

एवमर्थगतो भेदो भवत्यपि तयोः क्वचित् ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३७ ॥

यः साधनप्रकर्षार्थं दीक्षयेत्स गुरुः स्मृतः ।
औपपत्तिकमंशन्तु धर्मशास्त्रस्य पण्डितः ॥ ३८ ॥

व्याचष्टे धर्ममिच्छूनां स आचार्यः प्रकीर्तितः ।
सर्वदर्शी तु यः साधुर्मुमुक्षूणां हिताय वै ॥ ३९ ॥

व्याख्याय धर्मशास्त्राणां क्रियासिद्धिप्रबोधकम् ।
उअपासनाविधेः सम्यगीश्वरस्य परात्मनः ॥ ४० ॥

भेदान्प्रशास्ति धर्मज्ञः स गुरुः समुदाहृतः ।
सप्तानां ज्ञानभूमीनां शास्त्रोक्तानां विशेषतः ॥ ४१ ॥

प्रभेदान् यो विजानाति निगमस्याऽऽगमस्य च् अ ।
ज्ञानस्य चाऽधिकाराॅंस्त्रीन्भवतात्पर्यलक्ष्यतः ॥ ४२ ॥

तन्त्रेषु च पुराणेषु भाषायास्त्रिविधां सृतिम् ।
सम्यग्भेदैर्विजानाति भाषातत्त्वविशारदः ॥ ४३ ॥

निपुणो लोकशिक्षायां श्रेष्ठाऽऽचार्यः स उच्यते ।
पञ्चतत्त्वविभेदज्ञः पञ्चभेदां विशेषतः ॥ ४४ ॥

सगुणोपासनां यस्तु सम्यग्जानाति कोविदः ।
चातुर्विध्येन विततां ब्रह्मणः समुपासनाम् ॥ ४५ ॥

गम्भीरार्थां विजानीते बुधो निर्मलमानसः ।
सर्वकार्येषु निपुणो जीवन्मुक्तस्त्रितापहृत् ॥ ४६ ॥

करोति जीवकल्याणं गुरुः श्रेष्ठः स कथ्यते ॥ ४७ ॥

श्रीमहादेव्युवाच ।
सच्छिष्यलक्षणं नाथ उक्षूणां त्रितापहृत् ।
गुरुभक्तस्य शिष्यस्य कर्तव्यञ्चाऽपि मे वद ॥ ४८ ॥

मुमुक्षुभिश्च शिष्यैः कैः शुभाऽऽचारैरवाप्यते ।
आत्मज्ञानं दयासिन्धो कृपया ब्रूहि तानपि ॥ ४९ ॥

येन ज्ञानेन लब्धेन शुभाऽऽचारान्वितैर्द्रुतम् ।
मुच्यते बन्धनान्नाथ शिष्यैः सद्गुरुसेवकैः ॥ ५० ॥

श्रीमहादेव उवाच ।
शिष्यः कुलीनः शुद्धाऽऽत्मा पुरुषार्थपरायणः ।
अधीतवेदः कुशलो दूरमुक्तमनोभवः ॥ ५१ ॥

हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तवञ्चनः ।
स्वधर्मनिरतो भक्त्या पितृमातृहिते स्थितः ॥ ५२ ॥

गुरुशुश्रूषणरतो वाङ्मनःकायकर्मभिः ।
शिष्यस्तु स गुणैर्युक्तो गुरुभक्तिरतः सदा ॥ ५३ ॥

धर्मकामादिसंयुक्तो गुरुमन्त्रपरायणः ।
सत्यबुद्धिर्गुरोमन्त्रे देवपूजनतत्परः ॥ ५४ ॥

गुरूपदिष्टमार्गे च सत्यबुद्धिरुदारधीः ।
अलुब्धः स्थिरगात्रश्च आज्ञाकारी जितेन्द्रियः ॥ ५५ ॥

एवंविधो भवेच्छिष्य इतरो दुःखकृद्गुरोः ।
शरीरमर्थं प्राणाॅंश्च गुरुभ्यो यः समर्पयन् ॥ ५६ ॥

गुरुभिः शिष्यते योगं स शिष्य इति कथ्यते ।
दीर्घदण्डवदानम्य सुमना गुरुसन्निधौ ॥ ५७ ॥

आत्मदाराऽऽदिकं सर्वं गुरवे च निवेदयेत् ।
आसनं शयनं वस्त्रं वाहनं भूषणाऽऽदिकम् ॥ ५८ ॥

साधकेन प्रदातव्यं गुरोः सन्तोषकारणात् ।
गुरुपादोदकं पेयं गुरोरुच्छिष्टभोजनम् ॥ ५९ ॥

गुरुमूर्तेः सदा ध्यानं गुरुस्तोत्रं सदा जपेत् ।
ऊर्ध्वं तिष्ठेद्गुरोरग्रे लब्धाऽनुज्ञो वसेत् पृथक् ॥ ६० ॥

निवीतवासा विनयी प्रह्वस्तिष्ठेद्गुरौ परम् ।
गुरौ तिष्ठति तिष्ठेच्चोपविष्टेऽनुज्ञया वसेत् ॥ ६१ ॥

सेवताऽङ्घ्री शयानस्य गच्छन्तञ्चाऽप्यनुव्रजेत् ।
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ॥ ६२ ॥

नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ।
नित्यमुद्रितपाणिः स्यात् साध्वाचारः सुसंयतः ॥ ६३ ॥

आस्यतामिति चोक्तः सन्नासीताऽभिमुखं गुरोः ।
हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ ॥ ६४ ॥

उत्तिष्ठेत् प्रथमं चाऽस्य चरमं चैव संविशेत् ।
दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ॥ ६५ ॥

परिवादं न श्रुणुयादन्येषामपि कुर्वताम् ।
नीचं शय्यासनं चाऽस्य सर्वदा गुरुसन्निधौ ॥ ६६ ॥

गुरोस्तु चक्षुर्विषये न यथेष्टाऽऽसनो भवेत् ।
चापल्यं प्रमदागाथामहङ्कारं च वर्जयेत् ॥ ६७ ॥

नाऽपृष्टो वचनं किंचिद्ब्रूयान्नाऽपि निषेधयेत् ।
गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ॥ ६८ ॥

गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ।
गुरुरूपे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ॥ ६९ ॥

जात्याश्रमयशोविद्यावित्तगर्वं परित्यजन् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ ७० ॥

गुरुवक्त्रे स्थिता विद्या गुरुभक्त्याऽनुलभ्यते ।
तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ ७१ ॥

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न च वाऽस्याऽनुकुर्वीत गतिभाषितचेष्टितम् ॥ ७२ ॥

गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ७३ ॥

परीवादात् खरो भवेत् श्वा वै भवति निन्दकः ।
परिभोक्ता भवेत्कृमिः कीटो भवति मत्सरी ॥ ७४ ॥

गुरोः शय्याऽसनं यानं पादुकोपानौत्पीठकम् ।
स्नानोदकं तथा छायां कदापि न विलङ्घयेत् ॥ ७५ ॥

गुरोरग्रे पृथक् पूजामौद्धत्यं च विवर्जयेत् ।
दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे परित्यजेत् ॥ ७६ ॥

ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।
न कुर्याद्गुरुणा सार्द्धे शिष्यो भृत्वा कदाचन ॥ ७८ ॥

न प्रेरयेद्गुरुं तातं शिष्यः पुत्रश्च कर्मसु ।
गुरवे देवि पित्रे च नित्यं सर्वस्वमर्पयेत् ॥ ७९ ॥

स च शिष्यः स च ज्ञानी य आज्ञां पालयेद्गुरोः ।
न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ॥ ८० ॥

गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः ।
अहिताऽऽचरणाद्देवि विष्ठायां जायते कृमिः ॥ ८१ ॥

यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ ८२ ॥

आसमाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ ८३ ॥

श्रीमहादेव्युवाच ।
हे विश्वात्मन् महायोगिन् दीनबन्धो जगद्गुरो ।
त्रितापाद्रक्षितुं जीवान्नेतुं मुक्तेः पदं तथा ॥ ८४ ॥

योगमार्गप्रचारोऽत्र गुरुभिर्यः प्रकाशितः ।
तल्लक्षणानि भेदाॅंश्च कृपया वद मे प्रभो ॥ ८५ ॥

श्रीमहादेव उवाच ।
मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ।
योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ८६ ॥

नामरूपात्मिका सृष्टिर्यस्मात्तदवलम्बनात् ।
बन्धनान्मुच्यमानोऽयं मुक्तिमाप्नोति साधकः ॥ ८७ ॥

तामेव भूमिमालम्ब्य स्खलनं यत्र जायते ।
उत्तिष्ठति जनस्सर्वोऽध्यक्षेणैतत्समीक्ष्यते ॥ ८८ ॥

नामरूपात्मकैर्भावैर्बध्यन्ते निखिला जनाः ।
अविद्याकलिताश्चैव तादृक्प्रकृतिवैभवात् ॥ ८९ ॥

आत्मनस्सूक्ष्मप्रकृतिं प्रवृत्तिञ्चाऽनुसृत्य वै ।
नामरूपात्मनोश्शब्दभावयोरवलम्बनात् ॥ ९० ॥

यो योगः साध्यते सोऽयं मन्त्रयोगः प्रकीर्तितः ।
प्राणाऽपाननादबिन्दुजीवात्मपरमात्मनाम् ॥ ९१ ॥

मेलनाद्घटते यस्मात्तस्माद्वै घट उच्यते ।
आमकुम्भमिवाऽम्भस्थं जीर्यमाणं सदा घटम् ॥ ९२ ॥

योगानलेन सन्दह्य घटशुद्धिं समाचरेत् ।
घटयोगसमायोगाद्धठयोगः प्रकीर्तितः ॥ ९३ ॥

मन्त्राद्धठेन सम्पाद्यो योगोऽयमिति वा प्रिये ।
हठयोग इति प्रोक्तो हठाज्जीवशुभप्रदः ॥ ९४ ॥

हठयोगेन प्रथमं जीर्यमाणामिमां तनुम् ।
द्रढ्यन्सूक्ष्मदेहं वै कुर्याद्योगयुजं पुनः ॥ ९५ ॥

स्थूलः सूक्ष्मस्य देहो वै परिणामान्तरं यतः ।
कादिवर्णान्समभ्यस्य शास्त्रज्ञानं यथाक्रमम् ॥ ९६ ॥

यथोपलभ्यते तद्वत्स्थूलदेहस्य साधनैः ।
योगेन मनसो योगो हठयोगः प्रकीर्तितः ॥ ९७ ॥

ब्रह्माण्डपिण्डे सदृशे ब्रह्मप्रकृतिसम्भवात् ।
समष्टिव्यष्टिसम्बन्धादेकसम्बन्धगुम्फिते ॥ ९८ ॥

ऋषिदेवाश्च पितरो नित्यं प्रकृतिपूरुषौ ।
तिष्ठन्ति पिण्डे ब्रह्माण्डे ग्रहनक्षत्रराशयः ॥ ९९ ॥

पिण्डज्ञानेन ब्रह्माण्डज्ञानं भवति निश्चितम् ।
गुरूपदेशतः पिण्डज्ञानमाप्त्वा यथायथम् ॥ १०० ॥

ततो निपुणया युक्त्या पुरुषे प्रकृतेर्लयः ।
लययोगाऽभिधेयः स्यात् कृतः शुद्धैर्महर्षिभिः ॥ १०१ ॥

भवन्ति मन्त्रयोगस्य षोडशाङ्गानि निश्चितम् ।
यथा सुधांशोर्जायन्ते कलाः षोडश शोभनाः ॥ १०२ ॥

भक्तिः शुद्धिश्चाऽऽसनञ्च पञ्चाङ्गस्याऽपि सेवनम् ।
आचारधारणे दिव्यदेशसेवनमित्यपि ॥ १०३ ॥

प्राणक्रिया तथा मुद्रा तर्पणं हवनं बलिः ।
यागो जपस्तथा ध्यानं समाधिश्चेति षोडश ॥ १०४ ॥

षट्कर्माऽऽसनमुद्राः प्रत्याहारः प्राणसंयमश्चैव ।
ध्यानसमाधी सप्तैवाङ्गानि स्युर्हठस्य योगस्य ॥ १०५ ॥

अङ्गानि लययोगस्य नवैवेति बुधा विदुः ।
यमश्च नियमश्चैव स्थूलसूक्ष्मक्रिये तथा ॥ १०६ ॥

प्रत्याहारो धारणा च ध्यानञ्चापि लयक्रिया ।
समाधिश्च नवाङ्गानि लययोगस्य निश्चितम् ॥ १०७ ॥

ध्यानं वै मन्त्रयोगस्याऽध्यात्मभावाद्विनिर्गतम् ।
परानन्दमये भावेऽतीन्द्रिये च विलक्षणे ॥ १०८ ॥

भ्रमद्भिः साधकश्रेयोवाञ्छद्भिर्योगवित्तमैः ।
उपासनां पञ्चविधां ज्ञात्वा साधकयोग्यताम् ॥ १०९ ॥

मन्त्रध्यानं हि कथितमध्यात्मस्याऽनुसारतः ।
वेदतन्त्रपुराणेषु मन्त्रशास्त्रप्रवर्तकैः ॥ ११० ॥

वर्णितं श्रेयैच्छद्भिर्मन्त्रयोगपरस्य वै ।
ध्यानानां वै बहुत्वेऽपि तत्प्रोक्तं पञ्चधैव हि ॥ १११ ॥

तेषां भावमयत्वेन समाधिरधिगम्यते ।
मन्त्रयोगो हठश्चैव लययोगः पृथक् पृथक् ॥ ११२ ॥

स्थूलं ज्योतिस्तथा बिन्दु ध्यानं तु त्रिविधं विदुः ।
स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं भवेत् ॥ ११३ ॥

बिन्दुं बिन्दुमयं ब्रह्म कुण्डली परदेवता ।
सृष्टिस्थितिविनाशानां हेतुता मनसि स्थिता ॥ ११४ ॥

तत्साहाय्यात्साध्यते यो राजयोग इति स्मृतः ।
मन्त्रे हठे लये चैव सिद्धिमासाद्य यत्नतः ॥ ११५ ॥

पूर्णाऽधिकारमाप्नोति राजयोगपरो नरः ।
समाधिर्मन्त्रयोगस्य महाभाव इतीरितः ॥ ११६ ॥

हठस्य च महाबोधः समाधिस्तेन सिध्यति ।
प्रशस्तो लययोगस्य समाधिर्हि महालयः ॥ ११७ ॥

विचारबुद्धेः प्राधान्यं राजयोगस्य साधने ।
ब्रह्मध्यानं हि तद्ध्यानं समाधिर्निर्विकल्पकः ॥ ११८ ॥

तेनोपलब्धसिद्धिर्हि जीवन्मुक्तः प्रकथ्यते ।
उपलब्ध महाभावा महाबोधाऽन्विताश्च वा ॥ ११९ ॥

महालयं प्रपन्नाश्च तत्त्वज्ञानाऽवलम्बतः ।
योगिनो राजयोगस्य भूमिमासादयन्ति ते ॥ १२० ॥

योगसाधनमूर्द्धर्न्यो राजयोगोऽभिधीयते ॥ १२१ ॥

श्रीमहादेव्युवाच ।
योगेश जगदाधार कतिधोपासना च के ।
तद्विधेर्भगवन् भेदा मुक्तिमार्गप्रदर्शिनः ॥ १२२ ॥

तस्या के दिव्यदेशाश्च दिव्यभावेन भास्वराः ।
तत्सर्वं कृपया नाथ वदस्व वदतां वर ॥ १२३ ॥

श्रीमहादेव उवाच ।
सगुणो निर्गुणश्चाऽपि द्विविधो भेद ईर्यते ।
उपासनाविधेर्देवि सगुणोऽपि द्विधा मतः ॥ १२४ ॥

सकामोपासनायाश्च भेदा यद्यपि नैकशः ।
परन्त्वनन्यभक्तानां जनानां मुक्तिमिच्छताम् ॥ १२५ ॥

भेदत्रितयमेवैतद्रहस्यं देवि गोपितम् ।
वक्ष्ये गुप्तरहस्यं तद्भवतीं भाग्यशालिनीम् ॥ १२६ ॥

समाहितेन शान्तेन स्वान्तेनैवाऽवधार्यताम् ।
पञ्चानामपि देवानां ब्रह्मणो निर्गुणस्य च ॥ १२७ ॥

लीलाविग्रहरूपाणाञ्चेत्युपास्तिस्त्रिधा मता ।
विष्णुः सूर्यश्च शक्तिश्च गणाधीशश्च शङ्करः ॥ १२८ ॥

पञ्चोपास्याः सदा देवि सगुणोपासनाविधौ ।
एते पञ्च महेशानि सगुणो भेद ईरितः ॥ १२९ ॥

सच्चिदानन्दरूपस्य ब्रह्मणो नाऽत्र संशयः ।
निर्गुणोऽपि निराकारो व्यापकः स परात्परः ॥ १३० ॥

साधकानां हि कल्याणं विधातुं वसुधातले ।
बिभर्ति सगुणं रूपं त्वत्साहाय्यात्पतिव्रते ॥ १३१ ॥

यथा गवां शरीरेषु व्याप्तं दुग्धं रसात्मकम् ।
परं पयोधरादेव केवलं क्षरते ध्रुवम् ॥ १३२ ॥

तथैव सर्वव्याप्तोऽपि देवो व्यापकभावतः ।
दिव्यषोडशदेशेषु पूज्यते परमेश्वरः ॥ १३३ ॥

वह्न्यम्बुलिङ्गकुड्यानि स्थण्डिलं पटमण्डले ।
विशिखं नित्ययन्त्रञ्च भावयन्त्रञ्च विग्रहः ॥ १३४ ॥

पीठश्चापि विभूतिश्च हृन्मूर्द्धापि महेश्वरि ।
एते षोडश दिव्याश्च देशाः प्रोक्ता मयाऽनघे ॥ १३५ ॥

यद्यच्छरीरमाश्रित्य भगवान्सर्वशक्तिमान् ।
वतीर्णो विविधा लीला विधाय वसुधातले ॥ १३६ ॥

जगत्पालयते देवि लीलाविग्रह एव सः ।
उपासनाऽनुसारेण वेदशास्त्रेषु भूरिशः ॥ १३७ ॥

लीलाविग्रहरूपाणामितिहासोऽपि लभ्यते ।
तदुपासनकञ्चाऽपि सगुणं परिकीर्तितम् ॥ १३८ ॥

विष्णोः सूर्यश्च शक्तेश्च गणेशस्य शिवस्य च ।
गीतासु गीता ये शब्दा विष्णुसूर्यादयः प्रिये ॥ १३९ ॥

ब्रह्मणश्चाद्वितीयस्य साक्षात्ते चापि वाचकः ।
भक्तिस्तु त्रिविधा ज्ञेया वैधी रागात्मिका परा ॥ १४० ॥

देवे परोऽनुरागस्तु भक्तिः सम्प्रोच्यते बुधैः ।
विधिना या विनिर्णीता निषेधेन तथा पुनः ॥ १४१ ॥

साध्यमाना च या धीरैः सा वैधी भक्तिरुच्यते ।
ययाऽऽस्वाद्य रसान्भक्तेर्भावे मज्जति साधकः ॥ १४२ ॥

रागात्मिका सा कथिता भक्तियोगविशारदैः ।
पराऽऽनन्दप्रदा भक्तिः पराभक्तिर्मता बुधैः ॥ १४३ ॥

या प्राप्यते समाधिस्थैर्योगिभिर्योगपारगैः ।
त्रैगुण्यभेदास्त्रिविधा भक्ता वै परिकीर्तिताः ॥ १४४ ॥

आर्तो जिज्ञासुरर्थार्थी तथा त्रिगुणतः परः ।
पराभक्त्यधिकारी यो ज्ञानिभक्तः स तुर्यकः ॥ १४५ ॥

उपासकाः स्युस्त्रिविधास्त्रिगुणस्याऽनुसारतः ।
ब्रह्मोपासक एवाऽत्र श्रेष्ठः प्रोक्तो मनीषिभिः ॥ १४६ ॥

प्रथमा सगुणोपास्तिरवताराऽर्चनाश्च याः ।
विहिता ब्रह्मबुद्ध्या चेदत्रैवाऽन्तर्भवन्ति ताः ॥ १४७ ॥

सकामबुद्ध्या विहितं देवर्षिपितृपूजनम् ।
मध्यमं मध्यमा ज्ञेयास्तत्कर्तारस्तथा पुनः ॥ १४८ ॥

अधमा वै समाख्याताः क्षुद्रशक्तिसमर्चकाः ।
प्रेत्याद्युपासङ्काश्चैव विज्ञेया ह्यधमाऽधमाः ॥ १४९ ॥

सर्वोपासनहीनास्तु पशवः परिकीर्तिताः ।
ब्रह्मोपासनमेवाऽत्र मुख्यं परममङ्गलम् ॥ १५० ॥

निःश्रेयसकरं ज्ञेयं सर्वश्रेष्ठं शुभावहम् ॥ १५१ ॥

श्रीमहादेव्युवाच ।
यथा मे गुरुमाहात्म्यं सम्यग्ज्ञातं भवेत्प्रभो ।
तथा विस्तरतो नाथ तन्माहात्म्यमुदाहर ॥ १५२ ॥

सद्गुरोमहिमा देव सम्यग्ज्ञातः श्रुतो भुवि ।
अज्ञानतमसाऽऽच्छन्नं मनोमलमपोहति ॥ १५३ ॥

श्रीमहादेव उवाच ।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १५४ ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५५ ॥

अज्ञानतिमिराऽन्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १५६ ॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराऽचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५७ ॥

चिन्मयं व्याप्नुवन्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५८ ॥

सर्वश्रुतिशिरोरत्नविराजितपदाऽम्बुजः ।
वेदान्ताऽम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ १५९ ॥

चेतनः शाश्वतः शान्तो व्योमाऽतीतो निरञ्जनः ।
बिन्दुनादकलातीतस्तस्मै श्रीगुरवे नमः ॥ १६० ॥

ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ १६१ ॥

अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ १६२ ॥

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १६३ ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६४ ॥

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १६५ ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६६ ॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १६७ ॥

सप्तसागरपर्यन्ततीर्थस्नानादिकैः फलम् ।
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशेन दुर्लभम् ॥ १६८ ॥

गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नाऽस्ति तस्मात् सम्पूजयेद्गुरुम् ॥ १६९ ॥

ज्ञानं विना मुक्तिपदं लभते गुरुभक्तितः ।
गुरोः परतरं नाऽस्ति ध्येयोऽसौ गुरुमार्गिणा ॥ १७० ॥

गुरोः कृपाप्रसादेन ब्रह्मविष्णुसदाशिवाः ।
सृष्ट्यादिकसमर्थास्ते केवलं गुरुसेवया ॥ १७१ ॥

देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणाविधिम् ॥ १७२ ॥

न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः ।
ऋषयः सर्वसिद्धाश्च गुरुसेवापराङ्मुखाः ॥ १७३ ॥

श्रुतिस्मृतिमविज्ञाय केवलं गुरुसेवया ।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १७४ ॥

गुरोः कृपाप्रसादेन आत्मारामो हि लभ्यते ।
अनेन गुरुमार्गेण आत्मज्ञानं प्रवर्तते ॥ १७५ ॥

सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ।
सर्वतीर्थावगाहस्य फलं प्राप्नोति निश्चितम् ॥ १७६ ॥

यज्ञव्रततपोदानजपतीर्थाऽनुसेवनम् ।
गुरुतत्त्वमविज्ञाय निष्फलं नाऽत्र संशयः ॥ १७७ ॥

मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
श्रुतिवेदान्तवाक्येन गुरुः साक्षात्परं पदम् ॥ १७८ ॥

गुरुर्देवो गुरुर्धर्मो गुरुनिष्ठा परं तपः ।
गुरोः परतरं नास्ति नास्ति तत्त्वं गुरोः परम् ॥ १७९ ॥

धन्या माता पिता धन्यो धन्यो वंशः कुलं तथा ।
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ १८० ॥

शरीरमिन्द्रियप्राणा अर्थस्वजनबान्धवाः ।
माता पिता कुलं देवि गुरुरेव न संशयः ॥ १८१ ॥

आजन्मकोट्यां देवेशि जपव्रततपःक्रियाः ।
एतत्सर्वं समं देवि गुरुसन्तोषमात्रतः ॥ १८२ ॥

विद्याधनमदेनैव मन्दभाग्याश्च ये नराः ।
गुरोः सेवां न कुर्वन्ति सत्यं सत्यं वदाम्यहम् ॥ १८३ ॥

गुरुसेवापरं तीर्थमन्यत्तीर्थमनर्थकम् ।
सर्वतीर्थाश्रयं देवि सद्गुरोश्चरणाम्बुजम् ॥ १८४ ॥

गुरुध्यानं महापुण्यं भुक्तिमुक्तिप्रदायकम् ।
वक्ष्यामि तव देवेशि श‍ृणुष्व कमलानने ॥ १८५ ॥

प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराऽभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् ॥ १८६ ॥

वामोरुशक्तिसहितं कारुण्येनाऽवलोकितम् ।
प्रियया सव्यहस्तेन धृतचारुकलेवरम् ॥ १८७ ॥

वामेनोत्पलधारिण्या रक्ताऽऽभरणभूषया ।
ज्ञानाऽऽनन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् ॥ १८८ ॥

अखण्डमण्डलाऽऽकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १८९ ॥

नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ।
यस्य वाक्याऽमृतं हन्ति विषं संसारसंज्ञितम् ॥ १९० ॥

श्रीमहादेव्युवाच ।
मदेकहृदयाऽऽनन्द जगदात्मन् महेश्वर ।
उपास्यस्य रहस्यं मे माहात्म्यञ्चापि सद्गुरोः ॥ १९१ ॥

वर्णितं यत्त्वया नाथ कृतकृत्याऽस्मि साम्प्रतम् ।
भूयोऽपि श्रोतुमिच्छामि त्वन्मुखाज्जगदीश्वर ॥ १९२ ॥

परतत्त्वैकरूपस्य तत्त्वाऽतीतपराऽऽत्मनः ।
समासेन स्वरूपं मे वर्णयित्वा कृपां कुरु ॥ १९३ ॥

श्रीमहदेव उवाच ।
स एक एव सद्रूपः सत्योऽद्वैतः परात्परः ।
स्वप्रकाशः सदा पूर्णः सच्चिदानन्दलक्षणः ॥ १९४ ॥

निर्विकारो निराधारो निर्विशेषो निराकुलः ।
गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग्विभुः ॥ १९५ ॥

गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः ।
सर्वेन्द्रिय गुणाभासः सर्वेन्द्रियविवर्जितः ॥ १९६ ॥

लोकाऽतीतो लोकहेतुरवाङ्मनसगोचरः ।
स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ १९७ ॥

तदधीनं जगत्सर्वं त्रैलोक्यं सचराऽचरम् ।
तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ १९८ ॥

तत्सत्यतामुपाऽऽश्रित्य सद्वद्भाति पृथक् पृथक् ।
तेनैव हेतुभूतेन वयं जाता महेश्वरि ॥ १९९ ॥

कारणं सर्वभूतानां स एकः परमेश्वरः ।
लोकेषु सृष्टिकरणात्स्रष्टा ब्रह्मेति गीयते ॥ २०० ॥

विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया ।
इन्द्राऽऽदयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ २०१ ॥

स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया ।
त्वं पुरा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ २०२ ॥

तेनाऽन्तर्यामिरूपेण तत्तद्विपययोजिताः ।
स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ २०३ ॥

यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् ।
वर्षन्ति तोयदाः काले पुष्ष्यन्ति तरवो वने ॥ २०४ ॥

कालं कलयते काले मृत्योर्मृत्युर्भियो भयम् ।
वेदान्तवेद्यो भगवान्यत्तच्छब्दोपलक्षितः ॥ २०५ ॥

सर्वे देवाश्च देव्यश्च तन्मयाः सुरवन्दिते ।
आब्रह्मस्तम्बपर्यन्तं तन्मयं सकलं जगत् ॥ २०६ ॥

तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ।
तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ २०७ ॥

तरोर्मूलाऽभिषीकेण यथा तद्भुजपल्लवाः ।
तृप्यन्ति तदनुष्ठानात्तथा सर्वेऽमरादयः ॥ २०८ ॥

श्रीमहादेव्युवाच ।
संसाररोगहृन्नाथ करुणावरुणाऽऽलय ।
गुरोत्माहात्म्यपूर्णा या गुरोर्गीता सुवर्णिता ॥ २०९ ॥

तत्स्वाध्यायस्य माहात्म्यं फलञ्चाऽपि विनिर्दिश ।
जीवमङ्गलमेतेन कृपातोऽतः कृपाऽर्णव ॥ २१० ॥

सम्यग्विविच्य संवर्ण्य विनोदय दयार्णव ।
त्वदृते को हि देवेश शिक्षां मेऽन्यो विधास्यति ॥ २११ ॥

श्रीमहादेव उवाच ।
इदं तु भक्तिभावेन पठ्यते श्रूयतेऽथवा ।
लिखित्वा वा प्रदीयेत सर्वकामफलप्रदम् ॥ २१२ ॥

गुरुगीताऽभिधं देवि शुद्धं तत्त्वं मयोदितम् ।
भवव्याधिविनाशार्थं स्वयमेव सदा जपेत् ॥ २१३ ॥

गुरुगीताऽक्षरैकैकं मन्त्रराजमिदं प्रिये ।
अनेन विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ २१४ ॥

सर्वपापहरं स्तोत्रं सर्वदारिद्र्यनाशनम् ।
अकालमृत्युहरणं सर्वसङ्कटनाशनम् ॥ २१५ ॥

यक्षराक्षसभूतानां चौरव्याघ्रभयाऽपहम् ।
महाव्याधि हरञ्चैव विभूतिसिद्धिदं ध्रुवम् ॥ २१६ ॥

मोहनं सर्वभूतानां परं बन्धनमोचनम् ।
देवभूतप्रियकरं लोकान्स्ववशमानयेत् ॥ २१७ ॥

मुखस्तम्भकरं नॄणां सद्गुणानां विवर्धनम् ।
दुष्कर्मनाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१८ ॥

भक्तिदं सिद्धयेत् कार्यं नवग्रहभयाऽपहम् ।
दुःस्वप्ननाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१९ ॥

सर्वशान्तिकरं नित्यं वन्ध्यापुत्रफलप्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं परम् ॥ २२० ॥

आयुरारोग्यमैश्वर्यपुत्रपौत्रादिवर्धकम् ।
निष्कामतस्त्रिवारं वा जपन्मोक्षमवाप्नुयात् ॥ २२१ ॥

सर्वदुःखभयं विघ्नं नाशयेत्तापहारकम् ।
सर्वबाधाप्रशमनं धर्माऽर्थकाममोक्षदम् ॥ २२२ ॥

यो यं चिन्तयते कामं स तमाप्नोति निश्चितम् ।
कामिनां कामधेनुश्च कल्पितं च सुरद्रुमः ॥ २२३ ॥

चिन्तामणिं चिन्तितस्य सर्वमङ्गलकारकम् ।
जपेच्छाक्तस्य शैवश्च गाणपत्यश्च वैष्णवः ॥ २२४ ॥

सौरश्च सिद्धिदं देवि धर्मार्थकाममोक्षदम् ।
संसारमलनाशाऽर्थं भवतापनिवृत्तये ॥ २२५ ॥

गुरुगीताऽम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ।
योगयुञ्जानचित्तानां गीतेयं ज्ञानवर्धिका ॥ २२६ ॥

त्रितापतापितानाञ्च जीवानां परमौषधम् ।
संसाराऽपारपाथोधौ मज्जतां तरणिः शुभा ॥ २२७ ॥

देशः शुद्धः स यत्राऽसौ गीता तिष्ठति दुर्लभा ।
तत्र देवगणाः सर्वे क्षेत्रपीठे वसन्ति हि ॥ २२८ ॥

शुचिरेव सदा ज्ञानी गुरुगीताजपेन तु ।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ २२९ ॥

सत्यं सत्यं पुनः सत्यं निजधर्मो मयोदितः ।
गुरुगीतासमो नाऽस्ति सत्यं सत्यं वरानने ॥ २३० ॥

इति श्रीगुरुगीता समाप्ता ।

Also Read:

Sri Guru Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Guru Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top