Templesinindiainfo

Best Spiritual Website

Sri Shani Stotram (Dasaratha Kritam) Lyrics in Hindi

Sri Shani Stotram (Dasaratha Kritam) in Hindi:

॥ श्री शनि स्तोत्रम् (दशरथ कृतं) ॥
नमः कृष्णाय नीलाय शिखिखण्डनिभाय च ।
नमो नीलमधूकाय नीलोत्पलनिभाय च ॥ १ ॥

नमो निर्मांसदेहाय दीर्घश्रुतिजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयानक ॥ २ ॥

नमः पौरुषगात्राय स्थूलरोमाय ते नमः ।
नमो नित्यं क्षुधार्ताय नित्यतृप्ताय ते नमः ॥ ३ ॥

नमो घोराय रौद्राय भीषणाय करालिने ।
नमो दीर्घाय़ शुष्काय कालदम्ष्ट्र नमोऽस्तु ते ॥ ४ ॥

नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः ।
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ ५ ॥

सूर्यपुत्त्र नमस्तेऽस्तु भास्वरोभयदायिने ।
अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ॥ ६ ॥

नमो मन्दगते तुभ्यं निष्प्रभाय नमोनमः ।
तपसा ज्ञानदेहाय नित्ययोगरताय च ॥ ७ ॥

ज्ञान चक्षुर्नमस्तेऽस्तु काश्यपात्मजसूनवे ।
तुष्टो ददासि राज्यं त्वं क्रुद्धो हरसि तत्‍ क्षणात् ॥ ८ ॥

देवासुरमनुष्याश्च सिद्ध विद्याधरोरगाः ।
त्वयावलोकितास्सौरे दैन्यमाशुव्रजन्तिते ॥ ९ ॥

ब्रह्मा शक्रोयमश्चैव मुनयः सप्ततारकाः ।
राज्यभ्रष्टाः पतन्तीह तव दृष्ट्याऽवलोकितः ॥ १० ॥

त्वयाऽवलोकितास्तेऽपि नाशं यान्ति समूलतः ।
प्रसादं कुरु मे सौरे प्रणत्वाहित्वमर्थितः ॥ ११ ॥

Also Read:

Sri Shani Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Shani Stotram (Dasaratha Kritam) Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top