Shri Shiva Karnamritam Lyrics in Hindi:
॥ श्रीशिवकर्णामृतं ॥
श्रीशिवकर्णामृतं is a beautiful treatise, in praise of Bhagavan Shiva on reading which devotion on Shiva is easy to sprout. The author of this work is श्रीमदप्पय्य दीक्षित यतीन्द्र who writes on the name of his gotra, bharadvaja. He is a renowned आलङ्कारिक, वैयाकरण, वेदान्ती, शिवभक्त, and much more.
This powerful work, from 17th century, resembles श्रीकृष्णकर्णामृतं in many ways. It has 3 chapters named adhyayas,and the total number of verses is 102+102+164 i.e. 368. More than 60 kinds of अलङ्कार are employed in this work along with बन्ध, गर्भ, and चित्र कवित्व. So it is a perfect combination of काव्यसौन्दर्य and भक्ति.
ॐ श्रीगणेशाय नमः ।
श्रीसरस्वत्यै नमः ।
ॐ श्रीगुरुभ्यो नमः ।
१। प्रथमोऽध्यायः ।
श्रीपार्वतीसुकुचकुङ्कुमराजमानवक्षःस्थलाञ्चितममेयगुणप्रपञ्चम् ।
वन्दारुभक्तजनमङ्गलदायकं तं वन्दे सदाशिवमहं वरदं महेशम् ॥ १.१ ॥
नन्दन्नन्दनमिन्दिरापतिमनोवन्द्यं सुमन्दाकिनी-
स्यन्दत्सुन्दरशेखरं प्रभुनुतम्मन्दारपुष्पार्चितम् ।
भास्वन्तं सुरयामिनीचरनुतं भव्यम्महो भावये
हेरम्बं हिमवत्सुतामतिमहानन्दावहं श्रीवहम् ॥ १.२ ॥
आलोक्य बालकमचञ्चलमुच्चलत्सुकर्णाविबोधितनिजाननलोकनं सः ।
साम्बः स्वमौलिसुभगाननपूत्कृतैस्तमालिङ्गयन्नवतु मामलमादरेण ॥ १.३ ॥
कण्ठोत्पलं विमलकायरुचिप्रवाहं
अर्धेन्दुकैरवमहं प्रणमामि नित्यम् ।
हस्ताम्बुजं विमलभूतिपरागरीतिं
ईशह्रदं चटुललोचनमीनजालम् ॥ १.४ ॥
रङ्गत्तुङ्गतरङ्गसङ्गतलसद्गङ्गाझरप्रस्फुरद्-
भस्मोद्धूलितसर्वकायममलं मत्तेभकृत्त्यावृतम् ।
आरूढं वृषमद्भुताकृतिमहं वीक्षे नितम्बस्फुरन्-
नीलाभ्रच्चुरितोरुशृङ्गमहितं तं सन्ततम्मानसे ॥ १.५ ॥
सितमहोज्ज्वलमेकमुपास्महे विमलपाण्डुरुचिं दधदानने ।
उभययोगमतीव सरस्वतीत्रिपथगाझरयोः शिवयोरिव ॥ १.६ ॥
लालाटलोचनपुरःस्फुरणातिरक्तं याम्ये दिशि प्रधवलावृतभूनभोन्तम् ।
चित्रं धनेशककुबन्तविजृम्भिपाण्डु पश्चात् स्मरामि घनवेणिविनीलमोजः ॥ १.७ ॥
भव्यचन्द्रकृशानुभास्करलोचनं भवमोचनं
वारिजोद्भववासवादिकरक्षणं गजशिक्षणम् ।
मन्दिरायितराजताचलकन्दरं घनसुन्दरं
भावयामि दयाभिनन्दितकिङ्करं हृदि शङ्करम् ॥ १.८ ॥
अनेकरूपाभिरचञ्चलाभिः समाधिनिष्ठा सरसान्तराभिः ।
प्रतिक्षणं सत्प्रमदावलीभिः प्रपूज्यमानं प्रभुमाश्रयेऽहम् ॥ १.९ ॥
ललितं शरदभ्रशुभ्रदेहं करुणापाङ्गतरङ्गरङ्गदीक्षम् ।
परिशीलितवेदसौधमोदं कलयेऽकिञ्चिदवार्यधैर्यमोजः ॥ १.१० ॥
सरसिजभवमुख्यैः सादरं पूजिताभ्यां मणियुतफणिरूपैर्नूपुरै राजिताभ्याम् ।
सततनतजनालीसर्वसम्पत्प्रदाभ्यां बहुमतिहृदयम्मे भावुकं श्रीपदाभ्याम् ॥ १.११ ॥
विपुलतरविभाभ्यां विश्रुतप्राभवाभ्यां प्रमथगणनुताभ्यां प्रस्फुरद्यावकाभ्याम् ।
त्रिभुवनविदिताभ्यां दिव्यपुष्पार्चिताभ्यां शिववरचरणाभ्यां सिद्धिदाभ्यां नमोऽस्तु ॥ १.१२ ॥
तुङ्गान्तरङ्गघनगाङ्गतरङ्गसाङ्गशृङ्गारसङ्गतमहोल्लसदुत्तमाङ्गम् ।
अङ्गीकृताङ्गभवभङ्गमसङ्गलिङ्गसङ्गीतमीशमनिशं कलयामि चित्ते ॥ १.१३ ॥
नित्यं प्रभञ्जनसुजीवनपुञ्जमञ्जुमञ्जीररञ्जिततरं पुरभञ्जनस्य ।
कञ्जातसञ्जयधुरन्धरमञ्जसा नः सञ्जीवनं भवतु सन्ततमङ्घ्रियुग्मम् ॥ १.१४ ॥
मन्महे मन्मनोदेशे तत्पदं परमेशितुः ।
यत् सदा वेदवेदान्तप्रतिपादितवैभवम् ॥ १.१५ ॥
शरणम्ममास्तु तरुणीयुता स्फुरचरणद्वयी फणिफणामणिप्रभा ।
सकलं प्रकाशयतु सर्वदेवराण्मकुटस्थरत्नमहनीयदीपिका ॥ १.१६ ॥
शरणागतभरणाततकरुणाकरहृदयं
सुरमानितपरमाद्भुतशरमारितविमतम् ।
शमलालितकमलासनविमलासनविनुतं
भज मानस निजमाश्रयमजमाहतमदनम् ॥ १.१७ ॥
गौरीविलासरसलालससत्कटाक्षवीक्षादृताब्दविमलामृतरुक्प्रसारम् ।
कन्दर्पदर्पमथनं घननीलकण्ठं वन्दामहे वयमनादिमनन्तमीशम् ॥ १.१८ ॥
पदप्रचुरकिङ्किणीकिणिकिणिध्वनिभ्राजितं
हरिप्रमुखदेवताधृतलसन्मृदङ्गादिकम् ।
धिमिन्धिमितदिद्धितोद्धुररवानुसारिक्रमं
सदा स्वमति मङ्गलं दिशतु शाम्भवं ताण्डवम् ॥ १.१९ ॥
स्वान्तं भ्रान्तिसमृद्धबाह्यविषयव्यावृत्तपञ्चेन्द्रियं
सद्योजातमुखाद्यमन्त्रसहितं पद्मासनात्यद्भुतम् ।
ध्यायन् मन्मनसि स्मरामि महितं सत्यस्वरूपानुभू-
त्यानन्दैकरसोल्लसत्पशुपतेश्चित्तं यमत्वान्वितम् ॥ १.२० ॥
अनन्तनिष्ठातिगरिष्ठयोगं सदाशयैर्वापि विराजमानम् ।
पिनाकपाणिस्तु विनाधुनापि शिवं न पश्यामि दयासमुद्रम् ॥ १.२१ ॥
अपूर्वताभासिपुनर्भवाप्तं विभूतिविन्यासविशेषकान्तिम् ।
सरोजभूविष्णुसुरेशकाम्यं द्रक्ष्ये कदा शैवपदम्मुदाहम् ॥ १.२२ ॥
सुमुखम्मुखमस्य दर्शयद्विधुचूडामणिशोभितदैवतं
सदयं हृदयं सदा कदा कलितानन्दकरं करोति नः ॥ १.२३ ॥
अक्षरक्षणनिरीक्षणरक्षं दक्षयागवरशिक्षणदक्षम् ।
शिक्षितोऽग्रविषभक्षणपक्षं लक्षयामि शमलक्षणदीक्षम् ॥ १.२४ ॥
गङ्गातरङ्गपतदम्बुकणावृतेन मस्तेन्दुखण्डमृदुचन्द्रिकयावृतेन ।
प्रत्यक्षतामुपगतेन त्वदाननेन श्रीकण्ठ मेऽक्षियुगलं कुरु शीतलं त्वम् ॥ १.२५ ॥
कदा वा श्रूयन्ते प्रमथजयशब्दद्विगुणिताः
शिवोद्वाहप्राञ्चद्वृषभगलसत्किङ्किणिरवाः ।
कदा वा कैलासाचलनिलयदिव्या गुरुचयाः
कथं वा दृश्यन्ते कलितभसिताङ्गाभिरुचिराः ॥ १.२६ ॥
अनिन्द्यमानन्दमयं निरामयं निरञ्जनं निष्कलमद्वयं विभुम् ।
अनादिमध्यान्तमहो परं शिवं हृदन्तरे साधु विदन्ति योगिनः ॥ १.२७ ॥
अर्धाङ्गोपरिगिरिकन्यकाललाम-
प्रोद्भासित्रिनयनमिन्दुखण्डभूषम् ।
भक्तानामभयदमीश्वररस्वरूपं
प्रत्यक्षम्मम भवतात् परात्परं तत् ॥ १.२८ ॥
अनुग्रहान्मे सुमुखो भवाशु
कृतार्थतामस्मि गतस्ततोऽहम् ।
किमात्मभक्त्या सुमुखे त्वयीश
किमात्मभक्त्या विमुखे त्वयीश ॥ १.२९ ॥
निपत्य पादाब्जयुगे त्वदीये
विभो विधायाञ्जलिमीश याचे ।
ममोग्रतापं तव दर्शनैक-
कथामृतासारभरान्निरस्य ॥ १.३० ॥
नित्यं सुरासुरगजावनकीर्तनीये
सिंहासनस्य गिरिजापतिदर्शनीये ।
गन्धर्वगानरचनानुगतानुकू(का)ले
लोलं विलोचनयुगम्मम ताण्डवेऽस्तु ॥ १.३१ ॥
त्वत्ताण्डवं सकललोकसुखै(शुभै)कमूलं
गौरीमनोहरमनेकविधिक्रमाढ्यम् ।
द्रष्टुम्महेश मम चर्मविलोचनाभ्यां
भोग्यं भवान्तरसहस्रकृतं कदा नु ॥ १.३२ ॥
श्रीमन्ति पावनतराणि सुधान्तराणि
सर्वोत्तराणि हृदयाद्वयजीवनानि ।
अन्योन्यमीश तव चाद्रितनूभवायाः
सल्लापरूपवचनानि कदा शृणोमि ॥ १.३३ ॥
अनेकलीलागतिचातुरीयुतं
तवेश वोढुर्वृषभस्य नर्तितम् ।
सभूषणध्वानखुरारारवं कदा
करिष्यति श्रोत्रयुगोत्सवम्मम ॥ १.३४ ॥
शार्दूलचर्मपरिवीतपवित्रमूर्तिं
चन्द्रावतंसकसमञ्चितचारुमस्तम् ।
नन्दीशवाहनमनाथमनाथनाथं
त्वां पातुमुत्सुकतरोऽस्मि विलोचनाभ्याम् ॥ १.३५ ॥
कुरङ्गरङ्गत्तरमध्यभागं भुजङ्गमश्रीकरकङ्कणाढ्यम् ।
हस्तं प्रशस्तं तव मस्तके मे निधाय नित्याभयमीश देहि ॥ १.३६ ॥
यावन्न मां भवददर्शनरन्द्रवेदि तापत्रयं परिदृढं नितरान्धुनोति ।
तावन्महेश कुरु चन्द्रविलोचनेन दृष्ट्वा सुशीतलमतीव सुधामयेन ॥ १.३७ ॥
यावन्न मे मनसि दुष्टतमोऽभिवृद्धिः सर्वार्थदर्शनविघातकरी दुरन्ता ।
तावत्क्षणं तव विलोचनरूपसूर्यतेजः प्रसारय मयीश्वर दीनबन्धो ॥ १.३८ ॥
हे रुद्र हे महित हे परमेश शम्भो
हे शर्व हे गिरिश हे शिव हे स्वयम्भो ।
हे देव हे पशुपते करुणार्द्रचित्त
गन्तुम्ममाक्षिपथमेष कथं विलम्बः ॥ १.३९ ॥
किमिदमुदितं वारं वारं त्रिलोकधुरन्धरं
मदनमथनम्मायातीतम्मदन्तरवर्तिनम् ।
यमनियमनं कारुण्याम्भोनिधिं परमेश्वरं
बहु रसनया स्तुत्वा कर्तुं प्रसन्नतरं यते ॥ १.४० ॥
हे शम्भो शिव हे महेश्वर विभो वाराणसीश प्रभो
हे मृत्युञ्जय हे हिमाद्रितनयाप्राणेश हे शङ्कर ।
हे कैलासगिरीश हे पशुपते हे शेषभूषादृते
हे नन्दीश्वरवाहनाञ्चितगते हे देवदेवेश्वर ॥ १.४१ ॥
हे गौरीकुचकुम्भमर्दनपटो हे सर्वलोकप्रभो
हे हेरम्बकुमारनन्दनगुरो हे चन्द्रचूडामणे ।
हे गङ्गाधर हे गजासुररिपो हे वीरभद्राकृते
हे विश्वेश्वर हे महागणपते हे पञ्चबाणाप्रिय ॥ १.४२ ॥
हे श्रीकण्ठ जनार्दनप्रिय गुरो हे भक्तचिन्तामणे
हे सर्वाञ्चित सर्वमङ्गलतनो हे सत्कृपावारिधे ।
हे रुद्रामितभूतनायकपते हे विष्टपालङ्कृते
हे सर्वेश समस्तसद्गुणनिधे हे राजराजप्रिय ॥ १.४३ ॥
हे विष्ण्वमेयचरणरजरङ्गविभीकर ।
करवालहतामित्र मित्रकोटिसमप्रभ ॥ १.४४ ॥
वन्दितामन्दकुन्दारविन्देन्दुसत्सुन्दरानन्दसन्दोहकन्दाकृते
मन्दमन्दार्थसंसारनिन्दामते पाहि मां हे विभो पार्वतीश प्रभो ॥ १.४५ ॥
अत्रिगोत्रप्रभूमित्रचित्रांशुसद्गोत्रनेत्रत्रयीपात्रचित्रानन ।
शत्रुवित्रासकृज्जैत्रायात्रास्थिते पाहि मां हे विभो पार्वतीश प्रभो ॥ १.४६ ॥
चण्डदोर्दण्डपिण्डीकृतोद्दण्डसत्तुण्डशौर्यप्रचण्डेभगण्डस्थल ।
कुण्डलश्रीभजत्कुण्डलीश प्रभो पाहि मां हे विभो पार्वतीश प्रभो ॥ १.४७ ॥
भद्ररौद्राभकद्रूतनूजाधिराण्मुद्रिताक्षुद्ररुद्राक्षमालाधर ।
रुद्र चिद्रूपदृग्वीरभद्राकृते पाहि मां हे विभो पार्वतीश प्रभो ॥ १.४८ ॥
दुर्गमस्वर्गमार्गत्रिमार्गापवर्गप्रदानर्गलाञ्चन्निसर्गाकर ।
भर्गगर्गादिमौनीड्य दुर्गापते पाहि मां हे विभो पार्वतीश प्रभो ॥ १.४९ ॥
तरुणारुणतुल्यफणस्थमणीघृणिमण्डितशेषकिरीटधर ।
शरणागतरक्षणदक्ष विभो करुणाकर शङ्कर पालय माम् ॥ १.५० ॥
त्रयीनिर्माणचतुरचतुराननवन्दित ।
वन्दितालम्बिविबुध विबुधप्रथ रक्ष माम् ॥ १.५१ ॥
शशिमकुटतडिदरुणजटमुखकृपीट-
स्फुटनिटलतटघटितविकटकटुवह्ने ।
वटविटपिनिकटपटुचटुलनटनाति
प्रकटभटकुटिलपटविघटन शम्भो ॥ १.५२ ॥
रुचिरवरनिचयमृगमदरचनगौरी-
कुचलिकुचरुचिनिचयखचितशुचिमूर्ते ।
प्रचुरतरचतुरनिगमवचनपाली
निचयसुवचनविकचविमलगुण शम्भो ॥ १.५३ ॥
अदरदरकरविसरपुरहरणकेली
स्थिरमुरहृदमरधरशरवरशरास ।
सरससुरनिकरकरसरसिरुहपूजा-
भरभरणगुरुशरणचरणयुग शम्भो ॥ १.५४ ॥
शोणप्रभं चरणमेकमहं नमामि
शुभ्रं विलोचनयुगेक्षणनीलमन्यम् ।
अन्योन्ययोगशिवयोः शशिपद्मयोश्च
युग्मं कलङ्कमधुपस्फुटयोस्तयोश्च ॥ १.५५ ॥
श्रीमदनन्तभव्यगुणसीमसमादृतदेवतानते
सोमकलावतंस घनसुन्दर कन्धर बन्धुराकृते ।
कामिनिकामभीम निजकामितदानलसन्महामते
सामजचर्मचेल शिव शङ्कर मामव पार्वतीपते ॥ १.५६ ॥
सर्वशरीरगस्त्वमसि सर्वनियामक एक एव सन्
सर्वविदादिदेव हर सर्वदृगीश्वर सर्वरक्षिता ।
सर्वसमश्च मामवतु सन्नतमेवमुपेक्षसे कथं
शर्व भवोग्र भीम शिव शङ्कर मामव पार्वतीपते ॥ १.५७ ॥
कर्म तथेति चेद्वदसि काधिकता तव सर्वतः प्रभो
धर्मरतस्य सर्वमपि धर्मत एव भवान् किमन्तरम् ।
निर्मलपुण्यकर्म महनीय कथं त्वदनुग्रहं विना
शर्म ददाशु देहि शिव शङ्कर मामव पार्वतीपते ॥ १.५८ ॥
अन्यमनाथनाथ फणिहंसकमान गृहाण मानसे
धन्य तथा न बोधयति तत्त्वमसीति वचस्त्रिपञ्चतम् ।
शून्यमिदं त्वयि स्फुरति शुक्तिदले रजतं यथार्जुनं
सन्यसनादि तस्य शिव शङ्कर मामव पार्वतीपते ॥ १.५९ ॥
सन्महनीयमीश तव सावयवं वपुरीश सागमं
चिन्मयविग्रहस्य परिशीलनमीश्वर मे भवेत्कथम् ।
त्वन्मयभावना तु हृदि नास्ति हि नास्ति हि नास्ति नास्ति मे
जन्म निरर्थकं हि शिव शङ्कर मामव पार्वतीपते ॥ १.६० ॥
रूपमवेक्षितं न तव रुद्र मयेह कथापि न श्रुता
धूपसुवासनापि गणतोषण नो मम नासिकां गता ।
नापि सुपीतमीषदपि नामकथामृतमङ्घ्रिवारि न
स्थापितमात्ममूर्ध्नि शिव शङ्कर मामव पार्वतीपते ॥ १.६१ ॥
पादयुगं कदाचिदपि बालतया तव नार्चितं मया
वेदमहं न शास्त्रमपि वेद्मि तवेश्वर न स्तुतिः कृता ।
वादरतोहमल्पगृहवासनया नितरामहर्निशं
सादरमाशु वीक्ष्य शिव शङ्कर मामव पार्वतीपते ॥ १.६२ ॥
स्वर्गनदीशसायक न जन्म भवश्च मृतिश्च सन्ति ते
दुर्गममेषु तद्बहु न दुःखमिदं भवतानुभूयते ।
भर्ग तदेवमेभिरतिबाधकभावमुपैषि नो ध्रुवं
सर्गलयस्तितीश शिव शङ्कर मामव पार्वतीपते ॥ १.६३ ॥
आकृतिरेव नास्ति तव हा कथमीश्वर भावयाम्यहं
स्वीकृतहेतिभूतिविषशेषजटाविकपालमालिके ।
धीकृतविग्रहे विषमदृष्टिदिगम्बरपञ्चवक्त्रता
साकृति भीतिदा हि शिव शङ्कर मामव पार्वतीपते ॥ १.६४ ॥
पात्रतयाहमद्य परिभाव्य च दीनदयालुतां तव
स्तोत्रमहं करोमि मम दोषगणं परिहृत्य शाश्वतम् ।
गोत्रभिदादिकाम्यवर गोपतिवाह वितीर्य ते पदं
शात्रवतोषशोष शिव शङ्कर मामव पार्वतीपते ॥ १.६५ ॥
त्वं जननी पिता च मम दैवतमीश गुरुस्सखेशिता
त्वं जगदीश बन्धुरपि वस्तु च मूलधनं च जीवितम् ।
त्वं जय धाम भूम परतत्त्वमवैमि न किञ्चिनापरं
त्वं जनमैशमाशु शिव शङ्कर मामव पार्वतीपते ॥ १.६६ ॥
जय जय हारहारिशशिचारुशरीर विकासहासभृत्
जय जय शान्त दान्त वसुचन्द्ररवीक्षण नित्यनृत्यकृत् ।
जय जय चण्डदण्डधरशासन सन्ततभक्तसक्तहृत्
जय जय शेषभूष शिव शङ्कर मामव पार्वतीपते ॥ १.६७ ॥
स्थूलात् स्थूलतममुरुज्ञानिहितं सूक्ष्मतममहो सूक्ष्मात् ।
रूपं तावकमतुलं ज्ञातुं मे भवति नेश सामर्थ्यम् ॥ १.६८ ॥
गौरीमनोहरं दिव्यसुन्दरं तव विग्रहम् ।
भक्तानुग्राहकं शम्भो दृष्ट्वाहं स्तोतुमुत्सहे ॥ १.६९ ॥
त्वत्सौभाग्यं त्वद्दयां त्वद्विलासान्
त्वत्सामर्थ्यं त्वद्विभूतिं त्वदीक्षाम् ।
त्वद्विद्याश्च त्वत्पदं त्वच्छरीरं
तत्त्वं शम्भो वर्णितुं कस्समर्थः ॥ १.७० ॥
अङ्गम्मौक्तिकराशिमञ्जिममहोदारं शिरश्चन्द्रमः
कोटीरं निटलम्मनोभवदवज्वालाकरालाग्नियुक् ।
वक्त्रं ते शिव मन्दहासकलितं ग्रीवं विनीलप्रभं
चेतो दीनदयापरं परमिदं रूपं हृदि स्तान्नु मे ॥ १.७१ ॥
व्योमकेशाः सुधासूतिः किरीटं स्रक्सुरापगा ।
तारा पुष्पाणि भोः शम्भो तव श्लाघ्यतरं शिरः ॥ १.७२ ॥
हस्तौ विनिर्मितशिवाघनकेशहस्तौ
पादौ पवित्रतमहारजताद्रिपादौ ।
वाचः स्फुटं रचितबन्धुरपूर्ववाचो-
वृत्तिर्महेश तव सम्भृतलोकवृत्तिः ॥ १.७३ ॥
देहेऽर्जुनं कण्ठतले च कृष्णं ललाटमध्ये ज्वलनं दृगन्तः ।
भास्वज्जटाल्यामरुणम्महेश रूपं त्वदीयं बहुदेवचित्रम् ॥ १.७४ ॥
चरणं शरणं भरणं करणं हृदयं सदयं वदनं मदनम् ।
अलिकं फलिकं विमलं कमलं तव भूतपते भव भास्वरते ॥ १.७५ ॥
इदमद्भुतमीशाख्यमविज्ञेयं सुरासुरैः ।
वैराग्ये बहुभोगे च समं समरसं महः ॥ १.७६ ॥
कैलासे प्रमथैः सुरासुरयुतैः स्वस्वस्तिकं साञ्जलि-
प्रस्थं स्थापितरत्नकाञ्चनमहासिंहासने संस्थितम् ।
अर्धाङ्गे निहिताद्रिराजतनयां सानन्दमिन्दुप्रभं
त्वां भक्त्या हि भजन्ति शङ्कर तथा तद्द्रष्टुमत्युत्सुकः ॥ १.७७ ॥
कारुण्यसीम कपटाचरणैकसीम
वैराग्यसीम वनितादरणैकसीम ।
आनन्दसीम जगदाहरणैकसीम
कैवल्यसीम कलये गणभाग्यसीम ॥ १.७८ ॥
श्वेतोच्छलद्गाङ्गतरङ्गबिन्दुमुक्तास्रगानद्धजटाकलापम् ।
निरन्तरं चन्द्रकिरीटशोभि नमामि माहेश्वमुत्तमाङ्गम् ॥ १.७९ ॥
भूतित्रिपुण्ड्राश्रितफालभागं नेत्रत्रयीरञ्जितमञ्जुशोभम् ।
भक्तावलीलालनलोलहासं माहेश्वरं पञ्चमुखं नमामि ॥ १.८० ॥
त्रिशूलपाशाङ्कुशपट्टिपासिगदाधनुर्बाणधरं नतानाम् ।
अभीतिदं कुण्डलिकङ्कणाढ्यां माहेश्वरं हस्तचयं भजेऽहम् ॥ १.८१ ॥
समस्तसुरपूजिते स्वरबलाभिनीराजिते
विभूतिभरभासिते विमलपुष्पसंवासिते ।
भुजङ्गपतिनूपुरे बुधजनावनश्रीपरे
महामहिमनी भजे मनसि शैवपादाम्बुजे ॥ १.८२ ॥
जटावलीचन्द्रकलाभ्रगङ्गां कपालमालाकलिलोत्तमाङ्गाम् ।
दिगम्बरां पञ्चमुखीं त्रिनेत्रां शिवाश्रितां शैवतनुं भजेऽहम् ॥ १.८३ ॥
भेरीमृदङ्गपणवानकतूर्यशङ्खवीणारवैः सह जयध्वनिवेणुनादः ।
सप्तस्वरानुगुणगानमनोहरोऽयं कर्णद्वयं मम कदा समुपैति शम्भो ॥ १.८४ ॥
शिवमस्तेन्दुरेखयाश्चन्द्रिकेयं समागता ।
सत्यं यतो निरस्तम्मे बाह्यमाभ्यन्तरं तमः ॥ १.८५ ॥
सन्दृश्यतेऽसौ वृषभो ध्वजाग्रे वसन्मया शृङ्गयुगेन कोपात् ।
वक्रस्वभावं सदृशं द्विकोटिमर्धेन्दुमाहन्तुमिवोत्पतन् खम् ॥ १.८६ ॥
मुक्तिद्वारस्तम्भशुम्भद्विषाणो लीलाचारश्रीचतुर्वर्तिताङ्घ्रिः ।
प्राप्तोऽयम्मे दृक्पथम्मन्दगामी बुभ्रच्छम्भुं शुभ्रदेहो महोक्षः ॥ १.८७ ॥
मयि स्थितं शम्भुमवेक्ष्य तूर्णमागत्य धन्या भवतेति संज्ञाम् ।
कुर्वन्निवायाति पुरो वृषोऽयं मुहुर्मुहुः कम्पनतो मुखस्य ॥ १.८८ ॥
भात्ययं वृषभः शुभ्रां महतीं ककुदं दधत् ।
प्रीतये पुरतः शम्भोः कैलासाद्रिं वहन्निव ॥ १.८९ ॥
किमिदं युगपच्चित्रं पुष्पवन्ताविहोदिता ।
प्रत्यक्षीभवतः शम्भोरिमे नेत्रे भविष्यतः ॥ १.९० ॥
सहस्रांशुसहस्राणां प्रकाशकमिदम्महः ।
प्रार्थितः सम्प्रति शिवः प्रत्यक्षत्वं गतो मम ॥ १.९१ ॥
रोमाञ्चितं सर्वमिदं शरीरं सानन्दबाष्पे नयने मनोऽनु ।
विकासि कायम्महदाशु जातं शिवस्य सन्दर्शनतो ममाहो ॥ १.९२ ॥
अनेकजन्मार्जितपातकानि दग्धानि मे दर्शनतः शिवस्य ।
नेदं विचित्रं शिवदर्शनेन कामो हि दग्धोऽखिलदुष्प्रधर्षः ॥ १.९३ ॥
अहो भाग्यमहो भाग्यम्महदीश्वरदर्शनात् ।
कृतार्थोऽहं कृतार्थोऽहं त्रैलोक्येऽपि न संश्यः ॥ १.९४ ॥
नमस्करोम्यहमिदं कायेन मनसा गिरा ।
आनन्दैकरसं देवं भक्तानुग्रहणं शिवम् ॥ १.९५ ॥
नमः परमकल्याणदायिने हतमायिने ।
हिमालचलतनूजाता रागिणेऽतिविरागिणे ॥ १.९६ ॥
नमः कुन्देन्दुधवलमूर्तये भव्यकीर्तये ।
निरस्तभक्तसंसारनीतयेऽनेकभूतये ॥ १.९७ ॥
भारतीश्रीशचीमुख्यसौरकान्तार्चिताङ्घ्रये ।
वाराणसीपुराधीश साराचाराय ते नमः ॥ १.९८ ॥
नमो वेदस्वरूपाय गुणत्रयविभागिने ।
लोककर्त्रे लोकभर्त्रे लोकहर्त्रे च ते नमः ॥ १.९९ ॥
नमस्ते पार्वतीनाथ नमस्ते वृषभध्वज ।
नमस्ते परमेशान नमस्ते नन्दिवाहन ॥ १.१०० ॥
नमस्ते नमस्ते महादेवशम्भो
नमस्ते नमस्ते परेश स्वयम्भो ।
नमस्ते नमस्तेशिरस्सौरसिन्धो
नमस्ते नमस्ते त्रिलोकैकबन्धो ॥ १.१०१ ॥
श्रीकरी पठतामेषा शिवकर्णामृतस्तुतिः ।
शिवानन्दकरी नित्यं भूयादाचन्द्रतारकम् ॥ १.१०२ ॥
२। द्वितीयोऽध्यायः ।
घनमधुमधुरोक्तिस्यन्दमानन्दकन्दं
वरगुणमणिवृन्दं वन्द्यमोजः पुरारेः ।
भजतु निजजनार्त्रेर्भेषकृद्रोषदोष-
द्विषदतिमतियोषाभूषितं भाषितम्मे ॥ २.१ ॥
यद्वीक्ष्यामृतमित्यमर्त्यवनिताः पातुं यतन्ते मुदा
यज्ज्योत्स्नेति चकोरिकाततिरतिप्रेम्णाभिधावत्यलम् ।
यत्क्षीराम्बुधिरित्यनङ्गजननी सन्तोषतः प्रेक्षते
तत्तेजः पुरमर्दनस्य धवलं पायात् सदा साधु माम् ॥ २.२ ॥
स्वोद्वाहार्थं दृढमतिजले शीतले कण्ठदघ्ने
कुर्वन्त्याः स्वम्प्रति बहु तपः शैलजायास्तदा नु ।
प्रत्यक्षः सन् परिधृकरःसस्मितः कान्तयालं
प्रीतस्फीतं चकितचकितं प्रेक्षितो नः शिवोऽव्यात् ॥ २.३ ॥
यदङ्गमच्चं गिरिजोत्पलविच्छविर्विलोचनालोकनसम्प्रकीर्णम् ।
स्फुटोत्पलं गाङ्गमिव स्म भाति स्रोतस्स पायात् सततं शिवो नः ॥ २.४ ॥
बुद्धे शुद्धे जननि भवतीं दुष्टभोगानुषक्तां
कुर्वे सर्वेष्वहमनितरं वक्रकर्मा दुरात्मा ।
तत्त्वं क्षेमं कलय कुशले न ध्रुवं नान्यसक्ता
नित्यं स्थित्वा चरणयुगले योगरूपस्य शम्भोः ॥ २.५ ॥
तत्तन्मन्त्रैर्निगमविदितैर्वायुनापूर्य नासान्
संरुन्दन्तं सविधचरमारेचनादङ्गुलीभिः ।
योगे मार्गान्निभृतनयनं बद्धपद्मासनाङ्घ्रिं
सेवे भावे हिमगिरितटे तं तपस्यन्तमीशम् ॥ २.६ ॥
नित्यं नित्यं निगमवचनैर्धर्मनर्माणि साङ्गं
कैलासाद्रौ घनमुनिवरैर्वादयन्तं वसन्तम् ।
तत्त्वार्थं प्राग्वचनशिरसां तं त्रयाणां पुराणां
हर्तारम्मानस भज सदा शैलजाप्राणनाथम् ॥ २.७ ॥
मस्तन्यस्तातुलितविलसच्चन्द्ररेखावतंसो
हेमाभाभिर्विहितमहितश्रीजटाभिस्तटिद्भिः ।
कुर्वन् सर्वानगणितफलान् हंससन्तोषकारी
वारं वारं हृदयमयते मे शरत्कालमेघः ॥ २.८ ॥
यस्मिन् सर्वाधिकबहुगुणैर्वञ्चयित्वा मनस्स्वं
हृत्वान्तर्धिं गतवति तपोवैभवेन स्वदेशम् ।
प्रत्याकृष्याहरदगसुता यन्मनःसार्धदेहं
यावज्जीवं सरसमवतान्नो महेशः स नित्यम् ॥ २.९ ॥
कैलासाद्रौ वनविहरणे हासतो वञ्चनार्थं
वृक्षस्कन्धान्तरितवपुषं धीरमाराददृष्ट्वा ।
यः पौरस्त्ये सितमणितटे विस्मितां पार्वतीं द्राग्
आलिङ्गन् मां स परमशिवः पातु मायाविलासी ॥ २.१० ॥
भवतु मम भविष्यज्जन्म कैलासभूमी-
धरतटवसुधायां बिल्वरूपेण पत्रम् ।
यदि विनिहितमेकं जातु केनापि शम्भोः
सरसपदयुगे वा शेषभाग्यं भजेयम् ॥ २.११ ॥
कथय कथय जिह्वे कामदे मे त्रिसन्ध्यं
रविशशिशिखिनेत्रं राजराजस्य मित्रम् ।
प्रमथनिवहपालं पार्वतीभाग्यजालं
गुरुतररुचिमल्लीगुच्छसच्छायमीशम् ॥ २.१२ ॥
अयि भुजगपते त्वं वर्तसे कर्णमूले
निरतमपि सहस्रं सन्ति वक्त्राणि सन्ति ।
भवति च तव सद्वाक्चातुरी तेव याचे
बहु वद समये मे प्रार्थनां साधु शम्भोः ॥ २.१३ ॥
विहितरजतशैलं वेदजालैकमूलं
मदनमथनशीलं मस्तकाञ्चत् कपालम् ।
अनलरुचिरफालं हस्तभास्वत् त्रिशूलं
सुरनुतगुणजालं स्तौमि गौरीविलोलम् ॥ २.१४ ॥
पुरजयघनयोधं पूरितानन्दबोधं
घटितयमनिरोधं खण्डितारातियूथम् ।
मदसुहृदपराधं मन्दबुद्धेरगाधं
भज हुतवहबाधं पार्वतीप्राणनाथम् ॥ २.१५ ॥
रुचिरकण्ठविकुण्ठितमेघभं
स्फटिककान्तिकृताग्रहविग्रहम् ।
प्रणवनादसमोदभरादरं
कमपि योगिवरेण्यमुपास्महे ॥ २.१६ ॥
स्वकरे विनिधाय पुस्तकं स्वं
घनशिष्यप्रकराय सर्वविद्याः ।
गुरुरादिशति स्फुटम्महेशो
वटमूले वटुयुक्तबोधशाली ॥ २.१७ ॥
भुवनावनशालियोगिवेषं
भुजगाधीश्वरभूषणातताङ्गम् ।
भजताद् भजतां शुभप्रदम्मे
हृदयं हीरपटीरहारितेजः ॥ २.१८ ॥
अयमात्तविषस्तु रक्षणार्थं भयमापन्नमवेक्ष्य विष्टसौघम् ।
वयमाशु भजाम देवदेवं जयमानन्दभरं च किं न दद्यात् ॥ २.१९ ॥
निटलस्फुटभासितत्रिपुण्ड्रं
कटिमध्ये घटिताहियोगपट्टम् ।
हृदये परिभावितस्वरूपं
हृदये भावय भावभावदावम् ॥ २.२० ॥
कोऽपि प्रकामगरिमाशु स धाम भूमा-
रामाभिरामवपुरादरणीयमेव ।
यो भास्करे शशिनि च प्रणवे च नित्यं
गौरीमनःसरसिजे च चकास्ति भूयः ॥ २.२१ ॥
तं मल्लिकासुमसमानविभासमानं
सारङ्गपाणिमणिमादिविराजमानम् ।
मुक्ताप्रवालपरिपूरणचारुभद्र-
रुद्राक्षमालिकमहं प्रणमामि रुद्रम् ॥ २.२२ ॥
नो वैष्णवम्मतमवैमि न चापि शैवं
नो सौरमन्त्रविदितं न तु मन्त्रजालम् ।
शङ्का तथापि न हि शङ्करपादपद्मे
सञ्चारमेति मम मानसचञ्चरीकः ॥ २.२३ ॥
गौरी करोतु शुभमीशविलोलदृष्टि-
मध्ये दधत्यतुलकाञ्चनकण्ठमालाम् ।
तद्दृग्रसाननुभवन् प्रणमन्तमिन्द्रं
किं क्षेममम्बुजभवेति वदन् शिवोऽपि ॥ २.२४ ॥
कर्पूरपूरधवलाधिकचारुदेहं
कस्तूरिकाभ्रमरविभ्रमकारिकण्ठम् ।
कल्याणभूधरनिवासविभासमानं
कन्दर्पवैरिणमहं कलयामि नित्यम् ॥ २.२५ ॥
योऽन्तेऽतिवृद्धिमनयज्जलधीन् पयोधि-
र्यस्येषुधिः शिरसि देवनदी च मूर्तिः ।
आपोऽभिषिञ्चति जनोऽधरधीर्विचित्रं
तं नारिकेलपयसा कलशीजलेन ॥ २.२६ ॥
शैवम्मतम्मम तु वैष्णवमप्यभीष्टं
सर्वेषु दैवतपदेषु समत्वबुद्धेः ।
सत्यं तथापि करुणामृदु शङ्करस्य
सर्वेश्वरस्य पदमेति सदा मनो मे ॥ २.२७ ॥
मम वचनमिदं गृहाण सत्यं
दुरधिगमोपनिषद्विचारतः किम् ।
क्षितिभृति रचयन्नितान्तमायां
परमशिवो दृढजिष्णुबाहुबन्धः ॥ २.२८ ॥
मूर्धराजिततरैन्दवखण्डो
मर्दिताततघनाहितषण्डः ।
दैवतं हि यमशासनचण्डः
शङ्करो मम कृते यमदण्डः ॥ २.२९ ॥
श्रोत्रकुण्डलितकुण्डलीट्फणा रत्ननूत्नरुचिगण्डमण्डलम् ।
सन्मतं सकललोकनायकं साम्बमूर्तिमनिशं भजामहे ॥ २.३० ॥
स्वेषां दुरन्तभवबन्धनदुःखशान्त्यै सूक्ष्मे मनस्यतिदृढम्मुनयो बबन्धुः ।
सर्वेश्वरं दृढशमादिगुणैर्विचित्रं तत्तुल्यकष्टमपि सूक्ष्मतरस्य नासीत् ॥ २.३१ ॥
योगीश्वरः कोऽपि दिगम्बरः सन् जटाधरः सर्वविदस्ति शैले ।
तद्दर्शने चेतनशक्तिरस्ति निवृत्तिमेवैष्यति देहकष्टम् ॥ २.३२ ॥
न यात हे तीर्थचराः कदाचित् तपोवनं दुर्गममर्जुनस्य ।
मायाकिरातः खलु तत्र कश्चिद् दृष्टस्तनुच्छेदमरं करोति ॥ २.३३ ॥
कैलासभूमिभृतिमन्दरशैलमूर्ध्नि स्याद्गन्धमादनगिरौ हिमवत्तटीषु ।
वेदेषु वेदशिखरेषु च दैवतम्मे गौर्यर्धदक्षिणतनौ निजभक्तचित्ते ॥ २.३४ ॥
गिरीशकाल्योश्च सितासिताभशरीरयोः सङ्गतिरर्थयोर्मे ।
स्वान्तेऽस्तु गङ्गायमुनातटिन्योर्या सङ्गतिर्वेति विराजमाना ॥ २.३५ ॥
कर्पूरपूरप्रभमिन्द्रनीलविनीलकण्ठं वपुरीश्वरस्य ।
सुवर्णसङ्काशजटाप्रयोगी नदीत्रयीसङ्गतिभासि नोऽव्यात् ॥ २.३६ ॥
रत्नसिंहासने स्वां निवेश्य प्रियां भूषणैर्भूषितां तां भवानीं पुरः ।
काममुद्यन्मुखश्रीः प्रदोषोत्सवे सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.३७ ॥
तापसान् तापसान्नन्तरा देवता देवता देवताश्चान्तरा तापसाः ।
एवमादृत्य वागीश्वरादिस्थितौ सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.३८ ॥
कुम्भिकुम्भाहतिस्तम्भितसम्भावितश्रीमदङ्घ्रिद्वयीविक्रमी विक्रमी ।
भक्तिसक्तावली भुक्तिमुक्तिप्रदः सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.३९ ॥
त्वङ्गदुत्तुङ्गरङ्गद्वराङ्गोद्धता मन्दमन्दाकिनी बिन्दुभिर्व्याप्य खम् ।
चारुविन्दत्सु संस्फारताराकृतिः सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४० ॥
देवमुक्तागतं कल्पपुष्पस्रजं द्राक्सवर्णं समालिङ्गितुम्मस्तकात् ।
उत्पतत्यादराद् गाङ्गबिन्दूत्करे सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४१ ॥
अच्छ वक्षःस्थलालम्बिनीलोत्पलस्रक्षु दृक्षूत्पलाक्ष्या महीभृद्भुवा ।
अर्पितास्वेवमानन्द्य वृत्तोत्सवे सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४२ ॥
एकतो भारतीमुख्यदेवीस्तुतीरन्यतो भारतीः शब्दभेदाकृतीः ।
सर्वतो भारतीः काममाकर्णयन् सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४३ ॥
चञ्चला भासिता काञ्चनाञ्चद्रुचा चञ्चलद्भासिता व्योमयाता जटाः ।
चञ्चलाभासितावेव भासी दधत् सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४४ ॥
तक्कतोधिक्कतोतौतथातैतथै तोङ्गदद्माङ्गधिन्नर्तशब्दान्मुहुः ।
उच्चरन् हासविन्यासचञ्चन्मुखं सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४५ ॥
मूर्छनाभिर्गिरां देवतायां समीकृत्य तन्त्रीर्नखैर्वल्लकीं च श्रुतीः ।
साधु सप्तस्वरान् वादयन्त्याम्मुदा सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४६ ॥
शुम्भदारम्भगम्भीरसम्भावना गुम्भनोज्जृम्भणो जम्भदम्भापहे ।
लम्बयत्युत्कटं वेणुनादामृतं सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४७ ॥
सम्भृतोत्कण्ठिताकुण्ठकण्ठस्वरश्रीरमाभामिनीस्फीतगीतामृतम् ।
विश्रुतप्रक्रमं सुश्रुतिभ्यां पिबन् सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४८ ॥
दर्शयत्यादराद्वादने नैपुणीं सन्मृदङ्गस्य गोविन्दमार्दङ्गिके ।
तालभेदं सहोदाहरत्यब्जजेः सन्ननर्त स्वयं श्रीभवानीपतिः ॥ २.४९ ॥
समस्तमुखलालनं न हि मुखस्य मे षण्मुख
समस्तमुखलालनं खलु मृगाङ्करेखानन ।
इति स्वसुखवादनम्मुदितमुन्मुखैः पञ्चभिः
सुतस्य मतिलालनं विरचयञ्छिवः पातु नः ॥ २.५० ॥
मम हस्तगतास्तु विष्टवत्रयसृष्टिस्थितिसंहृतिक्रियाः ।
इति सूचयितुं वहन्निव त्रिशिखं शूलमयं शिवोऽवतु ॥ २.५१ ॥
भस्मविलेपाशांशुकभोगी सक्तजटः संसारविरागी ।
ब्रह्मविचिन्ताभागनुरागी पातु सदा मामादिमयोगी ॥ २.५२ ॥
अर्धाङ्गे हिमशैलजां दधदयं बन्धुं गृहं तद्गुरोः
कैलासाचलमुद्वहन् करतले कृत्वा सुमेरुं धनुः ।
गङ्गाम्मूर्धतले तदाभमपि सन्मौलौ विधुं तत्कृते
काशीवासकरः शुभं वितनुतां शम्भुर्महाकार्मुकः ॥ २.५३ ॥
को वा हे शैलजाते वपुषि द्रुततरालिङ्गितो वर्तते ते
मायामद्वेषधारी वद विदितमहो तावकीनं हि शीलम् ।
इत्युर्वीभृत्तनूजां क्षणं चकिततरां भीषयित्वा सहासो
वीक्ष्यात्मानं तदङ्गप्रतिफलितमुमाप्राणनाथोऽवतान्नः ॥ २.५४ ॥
पञ्चबाणविजयस्य काञ्चनस्तम्भताविलसितप्रतीतिकृत् ।
राजताद्रिनिहितो धिनोतु मां श्वेतपीतमहसोः समागमः ॥ २.५५ ॥
अन्योन्यनैर्मल्यसमृद्धिभाजोरन्योन्यदेहप्रतिबिम्बिनेन ।
तेजोऽर्धनारीश्वरयोर्ध्वयोः सत्प्रकाशमानम्मम मानसेऽस्तु ॥ २.५६ ॥
श्मशानभूसञ्चारणादरोऽपि श्मशानभस्माकलितोऽपि नित्यम् ।
कपालमालाभियुतोऽपि चित्रं स्वमङ्गलादानपटुर्महेशः ॥ २.५७ ॥
वन्दे वन्दे वेदशिरोवर्णितकेलिं वन्दे वन्दे पालितपादानतपालिम् ।
वन्दे वन्दे निर्जितमर्तालिपुरारिं वन्दे वन्देऽहं हृदि गङ्गाधरमौलिम् ॥ २.५८ ॥
अन्योन्यसंवर्धिततत्प्रशंसादिनगम्बराभूतिजटावतंसाः ।
सहस्रशः सम्प्रहासा वदन्ति शम्भो महेश्वरेश्वर शङ्करेति ॥ २.५९ ॥
अतो महतः सङ्गतिरेव कार्या यतो जटाधारिसुपञ्जरस्थाः ।
अमी शुकाश्चानुवदन्ति नित्यं शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६० ॥
कैलासभूमीभृदिलाततेषु विभूतिरुद्राक्षधराखिलाङ्गाः ।
तदेकभक्ताः प्रमथाः पठन्ति शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६१ ॥
धिक् तस्य जिह्वां वचनं च दिग्धिग्जीवितं जन्मकुलं च धिग्धिक् ।
नित्यम्मुदा यः पुरुषो न वक्ति शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६२ ॥
स पण्डिताद्यः स हि लोकपूज्यः
स दिव्यभाग्यः स हि भव्यजन्मा ।
यो वक्ति मोदातिशयेन नित्यं
शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६३ ॥
जिह्वा मदीया वसताद्दुरुक्तिर्नीचस्थितिः क्षारजलान्विता या ।
सोमस्य नामाख्यसुधासमुद्रे शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६४ ॥
विहाय भेरीघनतूर्यवेणुवीणामृदङ्गादिरवं च गानम् ।
शृणोति मे कर्णयुगं सुशब्दं शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६५ ॥
प्राणप्रयाणे पततादनन्तसंसारतापान्तमहौषधं तत् ।
नामामृतम्मद्रसनाग्रदेशे शम्भो महेश्वरेश्वर शङ्करेति ॥ २.६६ ॥
शान्तं चन्द्रकिरीटमुज्ज्वलतमं पद्मासनस्थं विभुं
पञ्चास्यं त्रिदृशं सशूलपरशुं खड्गं सवज्रं शुभम् ।
नागं पाशसृणीसघण्टमभितः कालानलं बिभ्रतं
भव्यालङ्कृतिमर्करत्नधवलं श्रीपार्वतीशं भजे ॥ २.६७ ॥
अमेयमानन्दघनं गिरीशं भजामि नित्यं प्रणवैकगम्यम् ।
उमापतिं शङ्करमुज्ज्वलाङ्गं महेश्वरं साधुमनोनिवेशम् ॥ २.६८ ॥
आदिस्वरं तृतीयेन सहितं बिन्दुसंयुतम् ।
ध्यायामि हृदये योगिध्येयं कामितमोक्षदम् ॥ २.६९ ॥
न जननी जनगर्भनिवासजं न च निरन्तरसंसृतिजम्मम ।
न यमदूतकृतं च भयं यतोऽनवरतम्मम दैवतमीश्वरः ॥ २.७० ॥
महावीररुद्रम्मनोजातिरौद्रं महीभृत्कुमारीमनःपद्ममित्रम् ।
मखध्वंसिनं सम्मतश्रीकरम्मन्मनोमन्दिरं श्री महादेवमीडे ॥ २.७१ ॥
शिवेतरापहन्तारं शिवसन्धायिनं परम् ।
शिवानन्दकरं शान्तं शिवं सेवे निरन्तरम् ॥ २.७२ ॥
वासुकीश्वरविभूषितकण्ठं वामभागपरिपूरितबालम् ।
वारणास्यभिधपट्टणवासं वामदेवमधिदैवतमीडे ॥ २.७३ ॥
यदुनाथपद्मभववासवादयो यदुदारभावगुणनायकाः शिवम् ।
यमशासनोग्रतरमाश्रयन्त्यहो यमनाथनाथमहमाश्रयामि तम् ॥ २.७४ ॥
नमः सृष्टिस्थितिलयान् कुर्वते जगतां सदा ।
शिवयैक्यं गतायान्तु परमानन्दरूपिणे ॥ २.७५ ॥
लिङ्गरूपं जगद्योनिं सत्रिशूलाक्षमालिकम् ।
श्रेष्ठं समृगखट्वाङ्गकपालडमरुं भजे ॥ २.७६ ॥
लम्बोदरगुरुं नित्यं हंसवाहनसेवितम् ।
यन्त्रतन्त्ररतं लोकरञ्जनं भावये शिवम् ॥ २.७७ ॥
शम्भो पश्य न मां भयं भवति ते दग्धो दृशा मन्मथः
कण्ठे ते भुजबन्धनं न मम भोस्तत्रास्ति हालाहलः ।
गण्डे गण्डतलार्पणं न भुजगः कर्णेन चालिङ्गनं
देहे तत्र विभूतिरित्यपहसादुक्तोऽम्बयाव्याच्छिवः ॥ २.७८ ॥
श्रीगौरीं प्रणयेन जातु कुपितां वैमुख्यसन्दायिनीं
अङ्गीकारमकुर्वतीमनुनयैः कन्दर्पचेष्टास्वलम् ।
सङ्क्रान्तः किमुरोजयोर्हृदि च ते पाषाणभारः परं
तातस्येति नवदंश्चिरादभिमुखीकुर्ञ्छिवः पातु नः ॥ २.७९ ॥
धिं धिमि धिमि धिमि शब्दैर्बन्धुरपजमन्दरं नटन्तं तम् ।
झं झण झण झणरावारञ्जितमणिमण्डनं शिवं वन्दे ॥ २.८० ॥
प्रत्यक् प्रकाशं प्रतिताघनाशं गानप्रवेशं गतमोहनाशम् ।
वस्त्रीकृताशं वनितैकदेशं कीशापुरीशं कलये महेशम् ॥ २.८१ ॥
देवाय दिव्यशशिखण्डविभूषणाय चर्माम्बराय चतुराननसेविताय ।
सामप्रियाय सदयाय सदा नमस्ते सर्वेश्वराय सगुणाय सदाशिवाय ॥ २.८२ ॥
रक्षाधिकारी हरिरात्तसत्त्वो ररक्ष लोकानिति किं विचित्रम् ।
लयाभिमानी सततं जगन्ति रक्षत्यहो शीघ्रतरं पुरारिः ॥ २.८३ ॥
कृपानिधिख्यातिरतिप्रसिद्धा शम्भोस्तथा शङ्कर नामधेयम् ।
विभात्यसाधारणमादिदेवः सनातनोऽयं निखिलैः प्रसेव्यः ॥ २.८४ ॥
चञ्चलमतितरुणं किम्पञ्चाननपादपद्मसञ्चरणम् ।
अञ्चितविभवः को वा वञ्चितपञ्चाशुगश्च सेवे तम् ॥ २.८५ ॥
कलितभवभीतिभेदे करुणासङ्घटनपूरितामोदे ।
विलसतु शङ्करपादे विद्या मम चारुकिङ्करश्रीदे ॥ २.८६ ॥
चान्द्रीरेखा शिखायां तटिदुपमजटास्वच्छगङ्गातरङ्गाः
कर्णद्वन्द्वे भुजङ्गप्रवरमयमहाकुण्डले दाहशीले ।
वह्निज्वाला ललाटे गरलमपि गले वामभागेन योषा
यत् स्वानन्दम्महस्तत्प्रभवतु हृदि मे कोटिसूर्यप्रकाशम् ॥ २.८७ ॥
जटाजूटत्वङ्गत्तरसुरनदीतुङ्गलविलसत्तरङ्गोद्बिन्दूत्करविकचमल्लीसुमभरः ।
निजार्धाङ्गस्वङ्गीकृतगिरिसुतामङ्गलतनुर्महेशः पायान्मामनिशनिजचिन्तामणिनिभः ॥ २.८८ ॥
घनाम्बुदनिभाकृतिं घटितमिन्दुपुष्पोल्लसल्लताग्रथितमौलिकं ललितनेत्ररक्तोत्पलम् ।
सचापशरभीषणं समणिमन्त्रसिद्धिक्रियं धनञ्जयजयं भजे धृतकिरातवेषं शिवम् ॥ २.८९ ॥
धात्रीमनन्तां विपुलां स्थिरां विश्वम्भरां धराम् ।
गां गोत्रामवनीमाद्याम्मूर्तिं शम्भोर्भजाम्यहम् ॥ २.९० ॥
अमृतं जीवनं वारि कमलं सर्वतोमुखम् ।
द्वितीयमस्य रूपं च भजेऽहं परमेशितुः ॥ २.९१ ॥
ज्वलनं पावकं दिव्यं सुवर्णं काञ्चनं शुचिम् ।
तृतीयमूर्तिं तेजोऽहं कलये पार्वतीपतेः ॥ २.९२ ॥
सदागतिं जगत्प्राणं मरुतं मारुतं सदा ।
चतुर्थन्तमूर्तिभेदं शङ्करस्य भजाम्यहम् ॥ २.९३ ॥
आकाशं पुष्करं नाकमनन्तं शब्दकारणम् ।
पञ्चमं मूर्तिरूपं च शम्भोः सेवे निरन्तरम् ॥ २.९४ ॥
प्रभाकरमिनं हंसं लोकबन्धुं तमोपहम् ।
त्रयीमूर्तिं मूर्तिभेदं षष्ठं शम्भोर्भजाम्यहम् ॥ २.९५ ॥
शुभ्रांशुसोममृतकरं चन्द्रमसं सदा ।
कलानिधिं मूर्तिभेदं सप्तमं शूलिनो भजे ॥ २.९६ ॥
आहिताग्निं यागकारं यज्वानं सोमयाजिनम् ।
अष्टमं मूर्तिसम्भेदमष्टमूर्तेर्भजाम्यहम् ॥ २.९७ ॥
हस्तद्वयेनाङ्घ्रितलद्वयं स्वमूरुद्वये सम्परियोजयन्तम् ।
पद्मासने रूढतरं जपन्तं मुनिम्महेशम्मुहुराश्रयामि ॥ २.९८ ॥
सततं सितचन्द्रमण्डलोपरिस्थितपद्मासनसंस्थितं विभुम् ।
घनमञ्जुलचन्द्रवर्णकं विलसच्चन्द्रकलाधरं परम् ॥ २.९९ ॥
योगमुद्राक्षमालादिद्योतिताधःकरद्वयम् ।
विधृतामृतसौवर्णकलशोर्ध्वकरद्वयम् ॥ २.१०० ॥
सोमार्काग्निविलोचनं धृतजटाजूटं सदानन्ददं
सन्नागाञ्चितयज्ञसूत्रमधिकं नागेन्द्रभूषाधरम् ।
श्रीमन्तं भसिताङ्गरागसहितं शार्दूलचर्माम्बरं
भक्तानुग्रहकारणं मनसि तं श्रीरुद्रमीडे परम् ॥ २.१०१ ॥
श्रीकरी पठतामेषा शिवकर्णामृतस्तुतिः ।
शिवानन्दकरी नित्यं भूयादाचन्द्रतारकम् ॥ २.१०२ ॥
३। तृतीयोऽध्यायः ।
श्रीमन्तं स्वनितान्तकान्तपदकञ्जस्वान्तचिन्तामणिं
शान्तं नान्तरमन्तकान्तकमतिक्रान्तप्रियं सन्ततम् ।
सन्तं भान्तमनन्तकुन्तलसुविभ्रान्तम्महान्तं शिवं
दान्तं कन्तुरिपुं तमन्तरहितं स्वर्दन्तिकान्तिं स्तुमः ॥ ३.१ ॥
एकं वन्दनमस्तु ते परमितो हे नित्यकर्माधुना
हे नैमित्तिककर्म तेऽपि च तथा तीर्थान्यये वो नमः ।
क्षेमं वो गृहदेवता भवदभिप्रायानुसारोऽस्तु मा
वारं वारमहं करोमि च नुतिं शम्भोरशम्भोः कुतः ॥ ३.२ ॥
सारानिद्रामुदश्रीकरमहिमयुता त्रासवद्राविकासा
साका विद्रावसत्रा रजतगिरितटस्थानसद्मापभासा ।
सा भा पद्मासनस्था गिरिशशिवतनुः ख्यातसुज्ञानुदासा
सादानुज्ञा सुतख्याभिरतिरवतु वः श्रीदमुद्रा निरासा ॥ ३.३ ॥
हारहीरसमाकार कारुण्यजलधे प्रभो ।
वरवाराणसीवास गुरो गौरीश पाहि माम् ॥ ३.४ ॥
भव भवनितरौप्यशैल गङ्गाशरशरणेन्दुकिरीटशस्तमस्त ।
स्वमहितहितदान मानसे मे वसनीकृतदिक्करीन्द्रचर्मन् ॥ ३.५ ॥
मानमानससन्देही मत्क्लेशापहरे हरे ।
मानमानसदादित्ये सत्ये पुरहरे हरे ॥ ३.६ ॥
सवासहंसभं सत्यासक्तसर्वं सभं समम् ।
सवासवसमासत्तिं सर सत्रं सखे सदा ॥ ३.७ ॥
यस्य भक्तिः सदा शम्भौ निश्चला स पुमान् पुमान् ।
स पुमान् यत्र जननं सम्प्राप्तस्तत्कुलं कुलम् ॥ ३.८ ॥
सर्वेशं चतुरं गवेन्द्रियवशः शेषाहिताख्यं भवं
तत्पाकक्रतुकारकप्रियमकध्वंसिस्ववन्तं ध्रुवम् ।
कर्पूरामितभं जटावयवचित्रं सप्रथत्वं वरं
रङ्गद्भासमनन्तमन्धकरिपुं वन्दे शिवं शङ्करम् ॥ ३.९ ॥
निजजनावनं नित्यपावनं भुजगकङ्कणं भूतिलेपनम् ।
भज सदाशिवं भावसंस्तवं त्यज भवे रतिं त्यक्तसद्गतिम् ॥ ३.१० ॥
तं हंसं विश्वरूपम्महितसुरवरप्रीणनं सप्रमेयं
नम्रासक्तं सुधातिप्रविमलमलघुं युक्तमस्तं शरेण ।
कामा सोमेन च श्री सततनुतविभं प्रीतिदं रूढियुक्ता
तथ्यं शर्वं सकामा स्थिरतरमनवं चक्रिसुत्रं भजेऽहम् ॥ ३.११ ॥
देवतावनिताकरार्चितदिव्यपादसरोरुहौ
सेवमानसुरासुरोरगसिद्धयक्षशुभावहौ ।
भावनामहितौ जगत्त्रयपालनावविनश्वरौ
भावयामि सदा हृदा मम पार्वतीपरमेश्वरौ ॥ ३.१२ ॥
तारहारहीरसौरनीरपूरसौरभं
भङ्गसङ्गतान्यमङ्गलप्रदं हृदम्भजे ।
जेतृगातृदातृताप्तमाप्तवागदुर्लभं
भञ्जनं पुरां नृरञ्जनं निरञ्जनं भजे ॥ ३.१३ ॥
मस्ते चन्द्रकलाकिरीटमलिके भूतित्रिपुण्ड्रेक्षणे
ग्रीवायां कटुकालकूटमुरसि स्फारा हि हारावलिम् ।
वामाङ्गे हिमशैलजां करयुगे शूलं मृगं चोद्वहन्
मौनीन्द्रैः परितोर्चितः पशुपतिर्योगीश्वरो राजते ॥ ३.१४ ॥
शङ्करं परमं काममकामं लोकरक्षकम् ।
कन्दर्पदमनं शान्तं सदानन्दं भजेऽनिशम् ॥ ३.१५ ॥
नारदादिमुनिवन्दितपादं शारदापतिमुखस्तुतकेलिम् ।
क्रूरवारणविदारणदक्षं नीरदाभगलमीश्वरमीडे ॥ ३.१६ ॥
हर शङ्कर सर्वेश त्रिपुरारे महाप्रभो ।
पाहि पाहि भवार्तं मां हरीष्ट जितमन्मथ ॥ ३.१७ ॥
विलसमानसमानयुताकृतिं सुरविराजिविराजिततेजसम् ।
विहितमोहतमोहतिमीश्वरं भज मनो मम नो मतिरन्यथा ॥ ३.१८ ॥
मदनमदनधीनं मानितामर्त्यमेवं शमनशमनधीरं शाश्वतं देवदेवम् ।
जननजननदाने जातभव्यस्वभावं सदनसदनमीडे साधुसंसारदावम् ॥ ३.१९ ॥
कनज्ज्ञानविभो शङ्का का शम्भो विनतस्य ते ।
मम दीनदयासिन्धो नवनाघ घनावन ॥ ३.२० ॥
धीर मारहर श्रीदः वेदसादर भो विभो ।
शम्भो सोम मम श्यामग्रीव देव भव प्रभो ॥ ३.२१ ॥
गङ्गातुङ्गतरङ्गसङ्गतिलसन्मस्तं समस्तामरी-
हस्तस्वस्तरुसूनसंस्तवघनप्रस्तावनिस्तारितम् ।
भावे बम्भरदम्भगुम्भितविभासम्भावितग्रीवकं
सेवे सेवकभावकप्रदकृपापूरं परं दैवतम् ॥ ३.२२ ॥
नन्दिवाहं नताशेषं देवं देवेश्वरं परम् ।
निन्दिताहं कृताश्लेषं शिवं सेवे निरन्तरम् ॥ ३.२३ ॥
इन्दुचन्दनकुन्दसुन्दरगात्र गोत्रसुतारते
नन्दनन्दन नन्दिताधिकजैत्रयात्रहतक्रतो ।
कन्दनिन्दककान्तिकन्दर कालकाल दयानिधे
चन्द्रशेखर शङ्करालघु शं कुरु श्रितसन्तते ॥ ३.२४ ॥
भीतकाम दमस्फार परापर सुरासुर ।
रक्ष मामवविदज्ञेय यज्ञेदविममाक्षर ॥ ३.२५ ॥
भूतेश भूतिधवलाङ्ग सभूतिसङ्घ
नागाजिनांशुक नगालय नागशालिन् ।
पञ्चास्य पञ्चविशिखाहत पञ्चताद
भावे भवा भव भवाभव भाविताशु ॥ ३.२६ ॥
सदा विभातु प्रतिभा मदीया तेऽद्रिजापते ।
गुणस्तुत्या महितया ब्रह्मादिसुरकाम्यया ॥ ३.२७ ॥
दिव्याकारं दीनाधारं भव्यामोदं भक्तश्रीदम् ।
नव्यानन्दं नाथं भावे श्रव्यालापं शम्भुं सेवे ॥ ३.२८ ॥
राजहीररमणीयविग्रहं भूरिभव्यभुजगेशभूषणम् ।
ब्रह्मविष्णुपरिसेव्यमीश्वरं भावयामि परमं हि शङ्करम् ॥ ३.२९ ॥
रमाराज जरामार रहिताग गताहिर ।
रवधीर मताभास सभातामर धीवर ॥ ३.३० ॥
भजेऽहि वलयं लयङ्गतनयं नयन्तमकलं कलङ्करहितम् ।
हितं सुहसितं सितं जितपुरं पुरन्दरमतम्मतङ्गजपरम् ॥ ३.३१ ॥
ततातीति ततातीत ताततात ततोततिः ।
तातितां तान्ततुत्तातां तां तां तत्ता तते ततात् ॥ ३.३२ ॥
क्षीराम्भोनिधिवन्नितान्तधवले कैलासभूमीधरे
शम्भुः साधु विभाति नैकवदनः शेषो यथा श्वेतभाः ।
तत्कण्ठे गरलं पुरन्दरमणिस्तोमाभिरामप्रभं
शेषाङ्गे शयितस्य गात्रमिव वैकुण्ठस्य संशोभते ॥ ३.३३ ॥
गोग गोगाङ्गगोङ्गाङ्ग मामुमामीममामम ।
हे ह हेहे हहाहाह विवोवावा विवाववा ॥ ३.३४ ॥
मनसि चषकतुल्ये स्थापितं शुद्धशुद्धे बहुरुचिममृतेन स्फारहारामलेन ।
सदृशमसमदृष्टेर्देहमात्तातितृप्तिर्जयति समनुभूयामर्त्यवत्साधुमर्त्यः ॥ ३.३५ ॥
वन्दे देवं वेदविदं देवदेवं वदावदम् ।
दिवि वादवदाविद्धा विविदाव विविद्दवम् ॥ ३.३६ ॥
जटास्तटित्पिङ्गलतुङ्गभासो बभासिरेभावजदेहदग्धुः ।
ललाटमध्यस्थितलोचनाग्नेः प्रभा इवोर्ध्वप्रसृताः समन्तात् ॥ ३.३७ ॥
भाविता दिवि देवे शाशा वेदे विदिता विभा ।
दासदार प्रमकरी रीकम प्रर दासदा ।
दासदाप्रमाकारीहा हारी कामप्रदा सदा ॥ ३.३८ ॥
स्थिरं शिरोधौ गरलं विनीलं गौरीमनःपद्मरवेः शिवस्य ।
स्रस्तं शिरःसंस्थसुरापगाया विभाति शैवालमिवाभिलग्नम् ॥ ३.३९ ॥
शशिभास्करवह्नीक्षं याजकामितसम्मदम् ।
सहेलमश्वसन्मारं भावयामि महेश्वरम् ॥ ३.४० ॥
लक्ष्मीवन्द्याङ्घ्रिं देवेशं नित्यापत्यं मुक्तौ गौरम् ।
शौरीढ्यं तं नागक्रोधं वन्दे नित्यं गौरीनाथम् ॥ ३.४१ ॥
निजाशिवपदं मौनिवन्द्यं तं देवतानिधिम् ।
धीरं परतरं वीरं शिवं वन्दे निरन्तरम् ॥ ३.४२ ॥
सुराणामसुराणां च भक्तानां सर्वसम्पदाम् ।
विश्राणनेऽधिके तूर्णं शिवेन सदृशः शिवः ॥ ३.४३ ॥
समस्तजगदाधार दासरक्षाधुरन्धर ।
शिरःस्थचन्द्र मां पाहि वह्नीन्दुरविलोचन ॥ ३.४४ ॥
सृष्टिः स्थितिरिवाश्चर्यं स्थितिः सृष्टिरिवाद्भुता ।
लयस्तद्वत्तौल्यवत् हि जगतां परमेशितुः ॥ ३.४५ ॥
ब्रह्मादिकाम्यया नित्यं दयया परिपूर्णया ।
क्रियान्मङ्गलमस्माकं गौरीनेतारमव्ययम् ॥ ३.४६ ॥
योगम्मूर्तिधरं विदन्ति परमं योगीश्वराः कामुकाः
शृङ्गाराख्यरसं सकामहृदयाः कल्पद्रुमं केवलम् ।
वह्निं शुद्धतराः समूढमभितः सौन्दर्यवत्तां बुधाः
विद्यामोक्षमविद्भिदः परतरं शम्भुं भवानीपतिम् ॥ ३.४७ ॥
पञ्चवक्त्रः पुरहरः कं दर्पदमनो बुधः ।
ददातु मे महादेवः पार्वतीप्राणवल्लभः ॥ ३.४८ ॥
अत्यन्तधवले देहे शिवस्यामृतवारिणि ।
चन्द्रमण्डलविभ्रान्तिश्चकोरिणामभूधरम् ॥ ३.४९ ॥
शिवाव्यय महादेव गङ्गाधर कृपानिधे ।
चन्द्रशेखर गौरीश कैलासाचलवास माम् ॥ ३.५० ॥
कपालमालो विषकण्ठकालो जटातटिद्भागभिलाषसस्यम् ।
दयाभिवृष्ट्या फलितं करोतु मनोजजिच्छारदनीरदो मे ॥ ३.५१ ॥
भव स्वमतिपार त्वं वरदान स्थिरामल ।
स्वदासनरभारापा मनसः श्रीकर स्थितिः ॥ ३.५२ ॥
संसारार्णवमग्नस्य ममोन्मज्जनरञ्जनः ।
भवन्ति शम्भोः करुणाकटाक्षाणां प्रवृत्तयः ॥ ३.५३ ॥
गौरीनाथ धनारीगौ रीशनास्य स्यनाशरी ।
नानातेव वतेनाना थस्य वप्र प्रवस्यथ ॥ ३.५४ ॥
किं शारदाम्भोधरपङ्क्तिरेषा किं चन्द्रिका क्षीरपयोनिधिः किम् ।
कर्पूरराशिः किमितीश्वरस्य प्रभां तनोः सन्दिहतेऽतिशुभ्राम् ॥ ३.५५ ॥
चन्द्रः किं स क्रमात् क्षीणः सूर्यः किं स निशापतिः ।
वह्निः किं स जटानन्द इति सन्दिहते शिवम् ॥ ३.५६ ॥
विष्णुः किं स न संसारी ब्रह्मा किं न स राजसः ।
वैराग्यसंयमस्फारः शिवोयऽयमिति निश्चयः ॥ ३.५७ ॥
समस्त गोपालक बाल बाल समस्त गोपालकबालबाल ।
समस्त गोपालक बाल बाल समस्त गोपालकबालबाल ॥ ३.५८ ॥
स्मेरगौरीयुतां शुभ्रां वीक्ष्य शम्भुतनुम्मुनिः ।
तटिद्रेखान्विताम्मेघरेखां स्मरति शारदीम् ॥ ३.५९ ॥
नायं शिवतनूच्छायानिचयः क्षीरसागरः ।
न कन्धरा विनीलोऽसौ योगनिद्रां गतो हरिः ॥ ३.६० ॥
सम्पूर्णचन्द्रदेहोऽयं न गौरीनाथविग्रहः ।
मध्यस्थं लाञ्छनमिदं न नीलं कन्धरातलम् ॥ ३.६१ ॥
असारे दुस्तरेऽगाधे संसारच्छद्मसागरे ।
निमग्नम्माम्महादेव कृपारज्ज्वा समुद्धर ॥ ३.६२ ॥
भव्यपादो लसच्छङ्गो घनाध्वगतिरुन्नतः ।
अधिकं प्राप्तसन्तानः पातु मामीश्वरस्य गौः ॥ ३.६३ ॥
बलसन्तोषदं श्रीदं गोपालं बुधनायकम् ।
हरिम्महात्मातिशेते नितरां पार्वतीपतिः ॥ ३.६४ ॥
श्रीकण्ठं स्फुटनीरसम्भवदृशं वन्दारुकल्पद्रुमं
रत्नोद्भास्वदहीनकङ्कणधरं ब्रह्मादिभिः संस्तुतम् ।
सत्यं चित्तजवैरिसम्भ्रमहरं तं पार्वतीनायकं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.६५ ॥
लोकेशं बहुराजराजविनुतं पौलस्त्यसन्तोषदं
सीतारम्यपयोधराधिकलसच्छ्रीकुङ्कुमालङ्कृतम् ।
भव्यं साध्वजजातनन्दनपरं कैलासनाथं प्रभुं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.६६ ॥
कौसल्यावरनन्दनं गुणयुतं हंसान्वयोल्लासकं
कल्याणं वरराजशेखरमतिप्रालेयशैलाश्रयम् ।
बाणोत्खातमहागजासुरशिरोभारम्मुनीन्द्रस्तुतं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.६७ ॥
हस्तस्वीकृतबाणमुज्ज्वलतनुं भास्वद्विभूतेर्दधं
नित्यं सद्वृषवाहमन्दकरिपुं रुद्राक्षमालाधरम् ।
नानाशेषसिरः किरीटविलसन्माणिक्यशोभोज्ज्वलं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.६८ ॥
अत्यन्तानिलसूनुवन्दितपदं श्रीचन्दनालङ्कृतं
कान्तम्मोहनवालिनाशनकरं सद्धर्ममार्गाकरम् ।
विश्वामित्रसुयोगवर्धनमतोत्कृष्टप्रभादर्शकं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.६९ ॥
दीव्यद्द्रश्मितमोनुदर्धविलसत्सद्भानुपट्टं विभुं
शान्तं पूर्णनभोंशुकं निजजनाधारं कृपासागरम् ।
देवेशं गुहमानसाम्बुजदिनाधीशं प्रियं शङ्करं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.७० ॥
कामं लक्ष्मणहस्तपङ्कजकृतप्रेमादिपूजादृतं
सानन्दं भरतप्रमोदनिलयं धीरं समन्त्राधिपम् ।
हर्तारं खरदूषणाहृतिपदं साकेतवासादरं
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.७१ ॥
पादाक्रान्तविभीषणं रणमुखे सद्रत्नसिंहासना-
रूढं भीमधनुःप्रभञ्जनवरश्रीकीर्तिमालाधरम् ।
कुन्दानन्दनमन्दहासमतुलं श्रीरामचन्द्रं सदा
नित्यम्मानसवासमीश्वरमहं रामाकृतिं भावये ॥ ३.७२ ॥
धराधरसुतानाथश्चन्द्रमाश्च शुचिः सदा ।
प्रभासतेऽमृतकरः परमानन्ददायकः ॥ ३.७३ ॥
परिशुद्धामृतमयी शीतला शिरसि स्थिता ।
शङ्करं स्वर्णदी चन्द्रकला चालङ्करोत्वलम् ॥ ३.७४ ॥
सम्प्रेक्ष्य लज्जिता शम्भोर्महिमानम्महोन्नतम् ।
सम्प्राप्तमुखवैवर्ण्याब्रह्मविष्णुपुरन्दराः ॥ ३.७५ ॥
उत्फुल्लमल्लीकुसुमनिकुरुम्भप्रभायुता ।
मूर्तिर्मम मनस्यष्टमूर्तेस्तिष्ठतु साम्प्रतम् ॥ ३.७६ ॥
प्रवदन्ति वृथा कथाः सदा शिवमाहात्म्यमपास्य ये जनाः ।
अमृतं प्रविहाय जिह्वया भुवने मूत्रजलं पिबन्ति ते ॥ ३.७७ ॥
सत्यां सधर्मादिसमस्तकामप्रधानशक्तौ परमेश्वरभक्तौ ।
वृथैव चिन्तामणिकामधेनुसुरद्रुमाणां भुवने प्रतिष्ठा ॥ ३.७८ ॥
शङ्करस्य शरीरेण सौम्यं प्राप्तुं सुधाकरः ।
असमर्थः सेवते तं भूत्वा चूडामणिः सदा ॥ ३.७९ ॥
स्वाङ्गेषु मस्तप्रमुखेषु नित्यं ये पूरुषाः शङ्करसम्मतानि ।
बध्नन्ति रुद्राक्षविभूषणानि प्रारब्धबन्धा न भवन्त्यमीषाम् ॥ ३.८० ॥
दूरतः शिवभक्तस्य वचनश्रवणेन च ।
यमस्य हृदयं भिन्नं भवत्यत्यन्तकम्पितम् ॥ ३.८१ ॥
यः श्रीकरं बालममन्त्रतन्त्रं क्रीडादरात् स्वं परिपूरयन्तम् ।
शिवः कृतार्थं कृतवांस्तथैनमयं किमात्मीयमुपेक्ष्यते माम् ॥ ३.८२ ॥
यो जनः शिवकथामृतं सदाजिह्वया श्रुतियुगेन वा मुहुः ।
वेदवेदशिरसां गणाच्च्युतं स्वीकरोति शिव एव स ध्रुवम् ॥ ३.८३ ॥
यदोपदिष्टा श्रवणे शिवस्य पञ्चाक्षरी गर्गमुनीश्वरेण ।
निर्याय भूपस्य तथैव गात्रात् काकात्मना पापचयः प्रदग्धः ॥ ३.८४ ॥
पुरुषस्य प्रणश्यन्ति महापातककोटयः ।
वाक्पादपद्मयुग्मस्य स्मरणात् पार्वतीपतेः ॥ ३.८५ ॥
ये पूजयन्ति शिवपादयुगं भवन्ति
तेषां गृहेषु नवरत्नचयाः सधान्याः ।
रौप्यं सुवर्णममितं च गजा हयाश्च
भव्याम्बराणि च बहुश्रुतपुत्रपौत्राः ॥ ३.८६ ॥
नीचेषु देहेष्वगृहीतजन्मा मुहुः परस्त्रीष्वविलोलचित्तः ।
अधेनुपालः प्रलयोऽप्यनाशो विभाति विष्णोरधिको महेशः ॥ ३.८७ ॥
अहो महद्भिर्दुरितैरनेकजन्मार्जितैः साकमनेकवारम् ।
साष्टाङ्गमीशं नमतां नराणां पतन्त्यधः स्वेदलवास्तमभ्यः ॥ ३.८८ ॥
विना स्नानं सन्ध्यां जपमपि हुतं तर्पणविधिं
पितॄणां स्वाध्यायं नियतमपि नैमित्तिकमपि ।
स्थिन्तिं क्षेत्रे दानं श्रवणमनने कारणमहो
श्रितश्रीकण्ठानाम्भवति फलमेषां समुदितम् ॥ ३.८९ ॥
अतितरे यमभीषणभाषणेऽप्यरिषु काममुखेषु दृढेष्वपि ।
भयमुपैति न किञ्चिदपि स्फुरत्पुरजिदङ्घ्रिसरोजयुगाश्रितः ॥ ३.९० ॥
पतिभक्त्या विना योषित् सौन्दर्यं न विराजते ।
जन्म पुंसो विना भक्त्या पार्वतीहृदयेशितुः ॥ ३.९१ ॥
तामसाल्लोकसंहारहेतोरुग्रात्प्रजायते ।
शान्तिर्विचित्रं महतीजगत्पालनशालिनी ॥ ३.९२ ॥
नामामृतरसैः पुंसः शाङ्करैः कर्णसङ्गतैः ।
तूलवत्परिदह्यन्ते पातकानि बहून्यपि ॥ ३.९३ ॥
प्रमदेन वञ्चयितुमेत्य सत्वरं परमं शिवं सशरचापभीषणः ।
स्वयमेव तन्निटलनेत्रवह्निना भवदाशु दग्धवपुरिन्दिरासुतः ॥ ३.९४ ॥
समस्तलोकाधिपतिर्माहात्मा क्व त्वं क्व चाहं कुमतिः कुमर्त्यः ।
इदं महद्वाञ्छितमीश मे यत् प्रकामये त्वत्पदपद्मसेवाम् ॥ ३.९५ ॥
परमाल्पस्वरूपेऽपि निजभक्तस्य मानसे ।
वर्तते सततं देवो महीयानम्बिकापतिः ॥ ३.९६ ॥
मर्त्यलोकेऽतिविस्तारे वर्तमाने भयाकुलम् ।
मामल्पमेकं हे शम्भो समुद्धर कृपा (निधे) रसात् ॥ ३.९७ ॥
देहेश्रितान्यशेषाणि निर्दग्धुं पातकानि मे ।
देहं सिञ्चाम्यहं शम्भोरभिषेकोदबिन्दुभिः ॥ ३.९८ ॥
शैवं शिरः कान्तिमुपैति पूर्णचन्द्रस्य नित्यं कलया समेतम् ।
चान्द्रीकला शैवशिरःप्रतिष्ठां प्रपद्य संयाति नितान्तशोभाम् ॥ ३.९९ ॥
प्रोक्षितं शुचिकणैर्बहिरङ्गे भूतभर्तुरभिषेकजलस्य ।
अन्तरङ्गमचिराय जनानां निर्मलं भवति साधु विचित्रम् ॥ ३.१०० ॥
मूलप्रमाणरहितोनिर्गुणो निष्कलो विभुः ।
अनाथो भोगविधुरो नावाच्यं दैवतं शिवः ॥ ३.१०१ ॥
तटिन्निभजटाकान्तिग्रहणात् स्वर्णदीपिता ।
सरस्वतीव संरेजे शङ्करस्य शिरोगता ॥ ३.१०२ ॥
कुत्रास्ते शङ्करो नित्यं कैलासे भक्तहृद्यपि ।
कुत्रास्ते पार्वती नित्यं वामाङ्गेऽनङ्गवैरिणः ॥ ३.१०३ ॥
वेदशास्त्रपुराणानि सेतिहासस्मृतीन्यहम् ।
जानामि सद्भ्यः सर्वेषां तात्पर्यं साम्बशङ्करे ॥ ३.१०४ ॥
कं दर्पदमनं वक्ति पुराणाममरद्विषाम् ।
कामाशां कृतवान् व्यर्थां क्षणात् कोपेन शङ्करः ॥ ३.१०५ ॥
कः सर्वेशः पार्वतीशो न ब्रह्मा न हरिस्तथा ।
भुक्तिमुक्तिप्रदा शीघ्रं का भक्तिः साम्बशङ्करे ॥ ३.१०६ ॥
सर्वस्य सत्सर्वमनोरथानां दाता महेशो न सुरद्रुमौघः ।
महीधराधीशसुतादिनाथो दीनेषु सर्वेषु सदा दयावान् ॥ ३.१०७ ॥
अभक्तता मूर्खजने अभानां स्याद्दिवाविधौ ।
गदाहतिर्युद्धतले नेषद्दीने शिवं श्रिते ॥ ३.१०८ ॥
मूर्दन्यलीके च गले च गङ्गां वह्निं विषं शम्भुरहो दधाति ।
हिताहितानां सततं जनानामानन्ददुःखे विदधाति नित्यम् ॥ ३.१०९ ॥
यदृच्छया बिल्वदलं समर्प्य पुमान् सुबुद्धिः परमेश्वराय ।
गृह्णाति मुक्तिं परमां हिरण्यगर्भादिकाम्यामचिराय तस्मात् ॥ ३.११० ॥
नवोत्तमाङ्गानि समर्प्य भक्त्या पुरारये स्वानि सुरासुराद्यैः ।
अवध्यतां तामवमां ययाचे तं मुक्तिदं रावणनामरक्षः ॥ ३.१११ ॥
लोकातीतं भक्तिपूर्वं तपः स्वं गोरीदेवी भूतभर्त्रे समर्प्य ।
तद्वाल्लभ्यं स्वीचकाराद्वयं श्रीवाणीमुख्यस्त्रीकदम्बाभिनुत्यम् ॥ ३.११२ ॥
सृजति रक्षति नाशयति स्फुटं भुवनजालमभीप्सितमैहिकम् ।
दिशति मुक्तिमपि स्मरतामघं हरति भाति जयत्यपि शङ्करः ॥ ३.११३ ॥
शमं दमं च वैराग्यमैश्वर्यं करुणाधियम् ।
शौर्यं धैर्यं च गाम्भीर्यं सदा वहति शङ्करः ॥ ३.११४ ॥
शिवोऽथवा शिवा सर्वलोकानां परिरक्षणम् ।
विधातुं कल्पते नित्यं दयया परिपूर्णया ॥ ३.११५ ॥
मनुष्या जन्तुषूत्कृष्टा ब्राह्मणास्तेषु तेष्वपि ।
देवतोपासकास्तेषु शिवोपास्तिपरायणाः ॥ ३.११६ ॥
ताण्डवायाससञ्जाताः शिवाङ्गे स्वेदबिन्दवः ।
शिरस्तः स्रस्तगङ्गाम्भो बिन्दुजालैस्तिरोहिताः ॥ ३.११७ ॥
परयोः सुन्दरतरयोः सुरशुभकरयोरुमामहेश्वरयोः ।
अनुरूपतमं योगं मन्ये त्रिभुवनतलश्लाघ्यम् ॥ ३.११८ ॥
स्नानेन दानेन जपेन भक्त्या विभूतिरुद्राक्षकृतेश्च नित्यम् ।
प्रदोषपूजास्तुतिभावनाभिः शिवः प्रसादः कुरुते जने स्वम् ॥ ३.११९ ॥
जन्मालङ्कुरुते सम्पत् तां पात्रप्रतिपादनम् ।
तच्छिवार्चिता बुद्धिः तां भक्तिरुद्भुवनत्रये ॥ ३.१२० ॥
किं पत्युस्तव नामेति पृष्टा सख्यागनन्दना ।
हस्तेन स्तनकस्तूरीं तस्या लिप्तवती गले ॥ ३.१२१ ॥
नीलकण्ठस्य संलिप्ता कण्ठे गौर्या रहस्यलम् ।
कस्तूरी संवृता ज्ञाता गन्धतः प्रमथादिभिः ॥ ३.१२२ ॥
महात्मा सहते कष्टं परेषां हितकारणात् ।
पार्वतीरमणः कण्ठे कालकूटं बिभर्ति हि ॥ ३.१२३ ॥
तपसा परितोषितः शिवोऽवृततादृङ्नियमेऽपि पार्वतीम् ।
भुवनेषु महाजना नृणां सुगुणैराशु वशंवदाः सदा ॥ ३.१२४ ॥
अविद्यां मलिनां नित्यं श्लिष्यन्नपि परः शिवः ।
अगृह्णं स्तन्मलिनतां भाति शुद्धतरः स्वयम् ॥ ३.१२५ ॥
त्वद्दासदासस्य पदं कदाचित् स्पृष्ट्वा भवत्याशु पुमान् कृतार्थः ।
अये पुरारे किमुत त्रिसन्ध्यं भवत्पदाम्भोरुहपादयुग्मसेवी ॥ ३.१२६ ॥
अपारसंसारसमुद्रमग्नः कठोरतापत्रयपीडितोऽहम् ।
चलेन्द्रियाकृष्टमना महेश शम्भो भवन्तं हृदि विस्मरामि ॥ ३.१२७ ॥
न बिभेमि यमादतिभीषणवाक्पटुहुङ्कृतिकिङ्करकोटियुतान् ।
यमशासननाम वदामिकदाप्यवशादपि भक्तभयोन्मथनम् ॥ ३.१२८ ॥
श्रीपार्वतीरमणपूजनतत्पराणां नित्यं भवन्ति भवनानि महोज्ज्वलानि ।
रङ्गन्मतङ्गजतुरङ्गमपुङ्गवालीव्याप्ताजिराणि धनधान्यसमन्वितानि ॥ ३.१२९ ॥
वर्णयन्ति परं शम्भोर्गणा गुणकदम्बकम् ।
पिबन्ति मधुरं क्षीरं पयोधेरमृतं सुराः ॥ ३.१३० ॥
समर्थं शाङ्करं नाम पापानां नाशने नृणाम् ।
शक्तं प्राभाकरं बिम्बं विध्वंसे तमसां दिशाम् ॥ ३.१३१ ॥
कामः स्वदेहं दहतः शिवस्य तिरस्कृतौ शक्त्ययुतोऽग्निकीलैः ।
वाहोद्भवैर्म्लानि बलैः स्वकीयैः फलद्रुमं तस्य वनं चकार ॥ ३.१३२ ॥
व्यापृते पुरुषे पुण्यैर्भवबन्धविमोचने ।
दीनबन्धोर्महेशस्य प्रससार दया हठात् ॥ ३.१३३ ॥
पुरत्रये गिरीशेन प्रदग्धे तूलराशिवत् ।
एकदैव हृतोऽलोको व्यानशे भुवनेऽभितः ॥ ३.१३४ ॥
स्वर्गे भुवि च पाताले रवौ योगिमनस्सु च ।
एकधावस्थितं धाम शैवमेकं प्रियं मम ॥ ३.१३५ ॥
प्रारब्धभोगनिलये देहे सत्यपि सेवितुः ।
प्रदातुं परमां मुक्तिं समर्थः साम्बशङ्करः ॥ ३.१३६ ॥
कैलासशिखरस्थस्य पार्वतीशस्य पादयोः ।
समीपे सन्ति मे प्राणाः मनसश्चानलं सदा ॥ ३.१३७ ॥
को विवादस्त्वया मूर्ख न परं दैवतं शिवात् ।
तथापि ब्रह्मविष्ण्वादीन् सेवन्ते तान् सदा न तम् ॥ ३.१३८ ॥
कार्या त्वया शिवार्चेति वचनं न वदामि ते ।
दारिद्र्यकष्टानुभवात्तुष्टचित्तो भवान् ध्रुवम् ॥ ३.१३९ ॥
किञ्चिद्धितं शिवाभक्त कथयामि तव (हि ते) श्रुणु ।
मद्विशेषोक्तितः किं त्वं वेत्सि दुःखं भवोद्भवम् ॥ ३.१४० ॥
एषोऽग्निः स जलान् नष्टः सूर्योऽसौ स तमोवृतः ।
चन्द्रोसौ स क्षयीत्यन्ते विदन्ति मुनयः शिवम् ॥ ३.१४१ ॥
शिवे मां भज हे स्थाणो लक्ष्म्या कार्यं न मे प्रिये ।
किं न जानासि मे वाणीं ब्रह्माणी ते कुतः शिव ॥ ३.१४२ ॥
मयि नास्ति तव प्रीतिर्हर गङ्गाधर प्रभो ।
त्वयि नास्ति शिवे प्रीतिः किं मृषा भाषसे वृथा ॥ ३.१४३ ॥
सर्वविद्यानिधिर्लक्ष्मीपूजितः पापसंहरः ।
मृत्युञ्जयः कृपाशाली पातु (स्वा)मामीश्वरः सदा ॥ ३.१४४ ॥
मुमुक्षो मद्वचः श्रुत्वा कैलासस्थं भवं भज ।
विषयानुभवैकश्री सदानन्दो भवं भज ॥ ३.१४५ ॥
किं चञ्चलस्वभावाले भ्रमस्यल्पसुमालिषु ।
अस्ति ते निस्तुलं पद्मं त्वन्मनोभीष्टदं सदा ॥ ३.१४६ ॥
अभिनन्द्य तपोधिष्ठं वितीर्याभीप्सितं वरम् ।
शिवेन दयया भक्त्या बहवः परिरक्षिताः ॥ ३.१४७ ॥
सकृद्यो वक्ति नामैशं महादेवेति जिह्वया ।
पुरुषस्य क्षणात्तस्य ब्रह्महत्यापि नश्यति ॥ ३.१४८ ॥
कैलासशैलशिखरे विद्यमाने महेश्वरे ।
वैवर्ण्यमधिकं जातं ब्रह्मादीनां मुखेष्वपि ॥ ३.१४९ ॥
सदा पश्यति सर्वत्र शिवे सोमे कृपानिधौ ।
किमाश्चर्यं तवात्यन्तं के दीना भुवनान्तरे ॥ ३.१५० ॥
कथं श्लाघ्यः शिवः स्वेषां संसारसुखनाशकः ।
भूतिधारीप्रलयकृत् साक्षात् कामविघातकः ॥ ३.१५१ ॥
महती भाग्यसम्पत्तिरभक्तानामुमापतेः ।
भजन्ति बहुजन्मानि पुत्रादिसुखदानि ये ॥ ३.१५२ ॥
भक्तिभावाच्चित्तशुद्धिश्चित्तशुद्ध्यावबोधनम् ।
बोधात् साक्षात्कृतिः शम्भोः साक्षात्कृत्या भवो भवेत् ॥ ३.१५३ ॥
शिवो भवेत् परं ब्रह्म यदेष प्रलयोऽपि सन् ।
शिवो(वे)ऽमृतं न चेदस्य परमानन्दता कुतः ॥ ३.१५४ ॥
आशांशुकः कुशाशाली मृगयुक्तस्तमोपहः ।
परिशुद्धतनुः शम्भुर्लोकानाह्लादयत्यलम् ॥ ३.१५५ ॥
दमेन प्रशमो भाति प्रशमेन विरक्तता ।
वैराग्येण तपो नित्यं तपसा साम्बशङ्करः ॥ ३.१५६ ॥
इनः शुचिः शीतरुचिस्तापहारी लघुर्गुरुः ।
सद्गतिर्विक्रमी श्रीदः प्राक्सद्रव्यः शिवोऽवतु ॥ ३.१५७ ॥
पुरा मातृकुक्षौ ततो दारुगेहे
ततः प्रेमभूमौ ततो धर्मपुर्याम् ।
महासङ्कटेऽनेकदुःखप्रपूर्णे
जनस्तिष्ठति श्रीमहेशाभिपूर्णः ॥ ३.१५८ ॥
जनस्य सदने यस्मिन् प्रागलक्ष्मीः स्थिता ततः ।
शिवपूजाविधानेन लक्ष्मीः तत्रैव संस्थिता ॥ ३.१५९ ॥
गच्छन्तं मन्दमन्दं मधुरतररणत्कन्दराकिङ्किणीकं
लाङ्गूलं चालयन्तं मुहुरवनितलं संलिखन्तं खुराग्रैः ।
धुन्वन्तं भव्यरुक्माभरणभरितयोः शृङ्गयोर्मण्डलं सत्-
तुङ्गं प्रेम्णाधिरूढं वृषभमधिवसत्वीश्वरो मे हृदब्जम् ॥ ३.१६० ॥
रजतार्कमणिस्फारां मौक्तिकीं जपमालिकाम् ।
दिव्याममृतभाण्डं च चिन्मुद्रां दधतं करैः ॥ ३.१६१ ॥
भुजङ्गविलसत्कक्षं चन्द्रमः खण्डमण्डितम् ।
त्रिलोचनमुमानाथं नागाभरणशोभितम् ॥ ३.१६२ ॥
प्रसन्नवदनं शान्तं सर्वविद्यानिधिं सुरैः ।
संस्तुतं दक्षिणामूर्तिं सदाशिवमहं भजे ॥ ३.१६३ ॥
श्रीकरी पठतामेषा शिवकर्णामृतस्तुतिः ।
शिवानन्दकरी नित्यं भूयादाचन्द्रतारकम् ॥ ३.१६४ ॥
इति श्रीमदप्पय्यादीक्शितविरचितं श्रीशिवकर्णामृतं समाप्तम् ।
इति शम् ॥
Also Read Trishati Shri Shivakarnamritam :
Sri Siva Karnamrutham | Shiva Karnamritam in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil