Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Moola Mantra Stava Lyrics in Sanskrit

Sri Subramanya Moola Mantra Stava Sanskrit Lyrics:

श्री सुब्रह्मण्य मूलमन्त्र स्तवः
अथातः सम्प्रवक्ष्यामि मूलमन्त्रस्तवं शिवम् ।
जपतां शृण्वतां नॄणां भुक्तिमुक्तिप्रदायकम् ॥ १ ॥

सर्वशत्रुक्षयकरं सर्वरोगनिवारणम् ।
अष्टैश्वर्यप्रदं नित्यं सर्वलोकैकपावनम् ॥ २ ॥

शरारण्योद्भवं स्कन्दं शरणागतपालकम् ।
शरणं त्वां प्रपन्नस्य देहि मे विपुलां श्रियम् ॥ ३ ॥

राजराजसखोद्भूतं राजीवायतलोचनम् ।
रतीशकोटिसौन्दर्यं देहि मे विपुलां श्रियम् ॥ ४ ॥

वलारिप्रमुखैर्वन्द्य वल्लीन्द्राणीसुतापते ।
वरदाश्रितलोकानां देहि मे विपुलां श्रियम् ॥ ५ ॥

नारदादिमहायोगिसिद्धगन्धर्वसेवितम् ।
नववीरैः पूजिताङ्घ्रे देहि मे विपुलां श्रियम् ॥ ६ ॥

भगवन् पार्वतीसूनो स्वामिन् भक्तार्तिभञ्जन ।
भवत्पादाब्जयोर्भक्तिं देहि मे विपुलां श्रियम् ॥ ७ ॥

वसु धान्यं यशः कीर्तिं अविच्छेदं च सन्ततेः ।
शत्रुनाशनमद्याशु देहि मे विपुलां श्रियम् ॥ ८ ॥

इदं षडक्षरं स्तोत्रं सुब्रह्मण्यस्य सन्ततम् ।
यः पठेत्तस्य सिद्ध्यन्ति सम्पदश्चिन्तिताधिकाः ॥ ९ ॥

हृदब्जे भक्तितो नित्यं सुब्रह्मण्यं स्मरन् बुधः ।
यो जपेत् प्रातरुत्थाय सर्वान्कामानवाप्नुयात् ॥ १० ॥

इति कुमारतन्त्रार्गतं श्रीसुब्रह्मण्य मूलमन्त्र स्तवः ।

Also Read:

Sri Subrahmanya Moola Mantra Stava lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Moola Mantra Stava Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top