Templesinindiainfo

Best Spiritual Website

Srikantesha Stotram Lyrics in Marathi | Shiva Mantras

Srikantesha Stotram in Marathi:

॥ श्रीकण्ठेश स्तोत्रम ॥
आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥

द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।
मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥ 2 ॥

प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय ।
धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ 3 ॥

आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम ।
आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥ 4 ॥

बाणार्चने भगवतः परमेश्वरस्य
प्रीतिर्भवेन्निरुपमेति यतः पुराणैः ।
संबोध्यते परशिवस्य यथान्धकं ततः करोति
बाणार्चनं जगति भक्तियुता जनाळिः ॥ 5 ॥

यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कऋपाब्धे ।
तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥ 6 ॥

इति श्रीकण्ठेशस्तोत्रं संपूर्णम ॥

Also Read:

Srikantesha Stotram Lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Srikantesha Stotram Lyrics in Marathi | Shiva Mantras

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top