Templesinindiainfo

Best Spiritual Website

Vasishta Krita Parameshwara Stuti Lyrics in Sanskrit

Vasishta Kruta Parameshwara Stuti in Sanskrit:

॥ श्री परमेश्वर स्तुतिः (वसिष्ठ कृतम्) ॥
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं परमं ब्रह्म वसिष्ठोन्यश्च शङ्करात् ॥ १ ॥

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय व्योमलिङ्गाय वै नमः ॥ २ ॥

नमस्सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ ३ ॥

नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ४ ॥

नमस्सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥ ५ ॥

नमोहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ ६ ॥

नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।
नमोरजोऽर्धलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥ ७ ॥

नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमो नागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ ८ ॥

नमो वायूर्ध्वलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमस्ते धर्मलिङ्गाय सामलिङ्गाय वै नमः ॥ ९ ॥

नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने ॥ १० ॥

दिश नः परमं योगमपत्यं मत्समं तथा ।
ब्रह्म चैवाक्षयं देव शमं चैव परं विभो ।
अक्षयत्वं च वम्शस्य धर्मे च मतिमक्षयाम् ॥ ११ ॥

अग्निरुवाच –
वसिष्ठेन स्तुतश्शम्भुस्तुष्टश्श्रीपर्वते पुरा ।
वसिष्ठाय वरं दत्वा तत्रैवान्तरधीयत ॥ १२ ॥

इति श्रीमहापुराणे आग्नेये अग्निवसिष्ठसंवादे वसिष्ठकृत परमेश्वरस्तुतिर्नाम सप्तदशाधिकद्विशततमोध्यायः ॥

Also Read:

Vasishta Krita Parameshwara Stuti Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Vasishta Krita Parameshwara Stuti Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top