Templesinindiainfo

Best Spiritual Website

Yamunashtakam 5 Lyrics in Hindi | River Yamunashtaka

River Shri Yamuna Ashtakam 5 Lyrics in Hindi:

या गोकुलागमनसम्भ्रमदत्तमार्गा
कृष्णाय शौरिमुदकैरविभावयन्ती ।
स्रष्टुं तदङ्घ्रिकमलेऽभवदुत्तरङ्गा
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ १॥

या नन्दसूनुमुरलीरवलीलयोद्यद्-
भावप्रभावगलदश्रुपरागमङ्घ्रिम् ।
उन्मीलिताब्जनयनाऽस्पृशदूर्मिदोर्भिः
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ २॥

या गोकुलेशमुषितांशुकलज्जितान्त-
राकण्ठमग्ननवनन्दकुमारिकाणाम् ।
कम्पोद्गमं विदधती न विलम्बमैच्छत्
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ३॥

या राधिकाऽधरपयोधरकामुकाय
तस्मै निकुञ्चनिलयं स्वकरैश्चकार ।
स्वच्छोचितातिमृदुवालुकभूवितानं
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ४॥

या रासकेलिजनितश्रमहारिवारि-
क्रीडासु घोषवनितोच्छलदम्बुराशिः ।
नन्दात्मजं सुखयति स्म कृताभिषेकं
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ५॥

या चञ्चदञ्चलदृशः सभयं व्रजस्त्रीः
पीनोन्नतस्तनतटीः परिरभ्य मन्दम् ।
पारे नयन्तमुपलक्ष्य हरिं समासीत्
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ६॥

या विभ्रमद्भ्रमरपङ्क्तितदङ्गसङ्ग-
लग्नाङ्गरागरुचिरद्युतिदामनेत्री ।
तत्पादपङ्कजरजोपचिताङ्गदात्री
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ७॥

या सेविताऽनिशमशेषजनैर्व्रजेश-
पादाम्बुजेऽतिरतिमाशु ददाति तेभ्यः ।
संस्तूयते शिवविरञ्चिमुनीन्द्रवर्यैः
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ८॥

उक्तं मयाऽष्टकमिदं तव सूरसूते
यः सादरं त्वयि मनः प्रपठेन्निधाय ।
तस्याचला व्रजपतौ रतिराविरास्तां
नित्यं प्रसीद मयि देवकिनन्दनेऽपि ॥ ९॥

इति श्रीदेवकीनन्दनकृतं यमुनाष्टकं सम्पूर्णम् ।

Yamunashtakam 5 Lyrics in Hindi | River Yamunashtaka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top