Yudhishthira Geetaa in Hindi:
॥ युधिष्ठिरगीता ॥
॥ अथ युधिष्ठिरगीता ॥
अध्याय २९५
जनमेजय उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
प्रतिलभ्य ततः कृष्णां किमकुर्वन्त पाण्डवाः ॥ १ ॥
वैशम्पायन उवाच ।

विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ २ ॥
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ ३ ॥
अनुगुप्त फलाहाराः सर्व एव मिताशनाः ।
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥ ४ ॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ५ ॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥ ६ ॥
अजातशत्रुमासीनं भ्रतृभिः सहितं वने ।
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥ ७ ॥
अरणी सहितं मह्यं समासक्तं वनस्पतौ ।
मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥ ८ ॥
तदादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ ९ ॥
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ १० ॥
ब्राह्मणस्य वचो श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः ।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ११ ॥
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ १२ ॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ १३ ॥
तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ १४ ॥
शीतलछायमासाद्य न्यग्रोधं गहने वने ।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ १५ ॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥ १६ ॥
नास्मिन्कुले जातु ममज्ज धर्मो
न चालस्यादर्थलोपो बभूव ।
अनुत्तराः सर्वभूतेषु भूयः
सम्प्राप्ताः स्मः संशयं केन राजन् ॥ १७ ॥
२९६
युधिष्ठिर उवाच ।
नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ १ ॥
भीम उवाच ।
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ २ ॥
अर्जुन उवाच ।
वाचस्तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्तः स्म संशयम् ॥ ३ ॥
सहदेव उवाच ।
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ ४ ॥
वैशम्पायन उवाच ।
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५ ॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ६ ॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादमम् ।
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ ७ ॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ ८ ॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ ९ ॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ १० ॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातु काकस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ११ ॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ १२ ॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १३ ॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् ॥ १४ ॥
भ्राता चिरायते तात सहदेव तवाग्रजः ।
तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ १५ ॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ १६ ॥
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ १७ ॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥ १८ ॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १९ ॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ।
तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ २० ॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखड्गो मेधावी तत्सरो प्रत्यपद्यत ॥ २१ ॥
यतः पुरुषशार्दूलौ पानीय हरणे गतु ।
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ २२ ॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ २३ ॥
नापश्यत्तत्र किं चित्स भूतं तस्मिन्महावने ।
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ २४ ॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ २५ ॥
कौन्तेय यदि वैशम्पायन उवाच । प्रश्नान्मयोक्तान्प्रतिपत्स्यसे ।
ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ २६ ॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ २७ ॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ २८ ॥
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ ।
अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥ २९ ॥
यक्ष उवाच ।
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब ।
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ ३० ॥
वैशम्पायन उवाच ।
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः ।
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३१ ॥
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ ३२ ॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३३ ॥
भीमसेनस्तथेत्युक्त्वा तां दिशं पत्यपद्यत ।
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ ३४ ॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ ३५ ॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३६ ॥
यक्ष उवाच ।
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३७ ॥
वैशम्पायन उवाच ।
एवमुक्तस्ततो भीमो यक्षेणामित तेजसा ।
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३८ ॥
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः ।
समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ ३९ ॥
अपेतजननिर्घोषं प्रविवेश महावनम् ।
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥ ४० ॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् ।
भ्रमरैरुपगीतं च पक्षिभिश्च महायशः ॥ ४१ ॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सरो श्रीमान्विश्वकर्म कृतं यथा ॥ ४२ ॥
उपेतं नलिनी जालैः सिन्धुवारैश्च वेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ ४३ ॥
२९७
वैशम्पायन उवाच ।
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्र प्रतिमगौरवान् ॥ १ ॥
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुरः ॥ २ ॥
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः ।
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ ३ ॥
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्य चित् ।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः ।
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥ ४ ॥
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् ।
गन्धार राजरचितं सततं जिह्मबुद्धिना ॥ ५ ॥
यस्य कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥ ६ ॥
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः ।
भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥ ७ ॥
तस्यासीन्न विषेणेदमुदकं दूषितं यथा ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणां इत्यचिन्तयत् ॥ ८ ॥
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ ९ ॥
एतेनाध्यवसायेन तत्तोयमवगाढवान् ।
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ १० ॥
यक्ष उवाच ।
अहं बकः शैवलमत्स्यभक्षो
मया नीताः प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र
न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ ११ ॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ १२ ॥
युधिष्ठिर उवाच ।
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ १३ ॥
हिमवान्पारियात्रश् च विन्ध्यो मलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ १४ ॥
अतीव ते महत्कर्मकृतं बलवतां वर ।
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ।
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ १५ ॥
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥ १६ ॥
येनास्म्युद्विग्नहृदयः समुत्पन्न शिरो ज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ १७ ॥
यक्ष उवाच ।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जले चरः ।
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥ १८ ॥
वैशम्पायन उवाच ।
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् ।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥ १९ ॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ २० ॥
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ।
मेघगन्मीरया वाचा तर्जयन्तं महाबलम् ॥ २१ ॥
यक्ष उवाच ।
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् ।
बलात्तोयं जिहीर्षन्तस्ततो वैशम्पायन उवाच । सूदिता मया ॥ २२ ॥
न पेयमुदकं राजन्प्राणानिह परीप्सता ।
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ २३ ॥
युधिष्ठिर उवाच ।
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् ।
कामनैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ २४ ॥
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो ।
यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ २५ ॥
यक्ष उवाच ।
किं स्विदादित्यमुन्नयति केच तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ २६ ॥
युधिष्ठिर उवाच ।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २७ ॥
यक्ष उवाच ।
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ २८ ॥
युधिष्ठिर उवाच ।
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ २९ ॥
यक्ष उवाच ।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतां इव ।
कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३० ॥
युधिष्ठिर उवाच ।
स्वाध्याय एषां देवत्वं तप एषां सतां इव ।
मरणं मानुषो भावः परिवादोऽसतां इव ॥ ३१ ॥
यक्ष उवाच ।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतां इव ।
कश्चैषां मानुषो भावः किमेषामसतां इव ॥ ३२ ॥
युधिष्ठिर उवाच ।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतां इव ।
भयं वैशम्पायन उवाच । मानुषो भावः परित्यागोऽसतां इव ॥ ३३ ॥
यक्ष उवाच ।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥ ३४ ॥
युधिष्ठिर उवाच ।
प्राणो वैशम्पायन उवाच । यज्ञियं साम मनो वै यज्ञियं यजुः ।
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥ ३५ ॥
यक्ष उवाच ।
किं स्विदापततां श्रेष्ठं बीजं निपततां वरम् ।
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥ ३६ ॥
युधिष्ठिर उवाच ।
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥ ३७ ॥
यक्ष उवाच ।
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ३८ ॥
युधिष्ठिर उवाच ।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३९ ॥
यक्ष उवाच ।
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् ।
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥ ४० ॥
युधिष्ठिर उवाच ।
माता गुरुतरा भूमेः पिता उच्चरतश्च खात् ।
मनो शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥ ४१ ॥
यक्ष उवाच ।
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति ।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्घते ॥ ४२ ॥
युधिष्ठिर उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदीवेगेन वर्धते ॥ ४३ ॥
यक्ष उवाच ।
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः ।
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥ ४४ ॥
युधिष्ठिर उवाच ।
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषन्मित्रं दानं मित्रं मरिष्यतः ॥ ४५ ॥
यक्ष उवाच ।
किं स्विदेको विचरति जातः को जायते पुनः ।
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥ ४६ ॥
युधिष्ठिर उवाच ।
सूर्य एको विचरति चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥ ४७ ॥
यक्ष उवाच ।
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः ।
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥ ४८ ॥
युधिष्ठिर उवाच ।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ ४९ ॥
यक्ष उवाच ।
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा ।
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥ ५० ॥
युधिष्ठिर उवाच ।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ५१ ॥
यक्ष उवाच ।
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् ।
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥ ५२ ॥
युधिष्ठिर उवाच ।
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥ ५३ ॥
यक्ष उवाच ।
कश्च धर्मः परो लोके कश्च धर्मः सदा फलः ।
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ५४ ॥
युधिष्ठिर उवाच ।
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदा फलः ।
अनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥ ५५ ॥
यक्ष उवाच ।
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति ।
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ५६ ॥
युधिष्ठिर उवाच ।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वार्थवान्भवति लोभं हित्वा सुखू भवेत् ॥ ५७ ॥
यक्ष उवाच ।
मृतं कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राधं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥ ५८ ॥
युधिष्ठिर उवाच ।
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञो त्वदक्षिणः ॥ ५९ ॥
यक्ष उवाच ।
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ६० ॥
युधिष्ठिर उवाच ।
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ६१ ॥
यक्ष उवाच ।
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप ।
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥ ६२ ॥
युधिष्ठिर उवाच ।
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ६३ ॥
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वैशम्पायन उवाच । सर्वधनी नरः ॥ ६४ ॥
यक्ष उवाच ।
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥ ६५ ॥
युधिष्ठिर उवाच ।
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः ।
व्यूढोरस्को महाबाहुरङ्कुलो यक्ष जीवतु ॥ ६६ ॥
यक्ष उवाच ।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ६७ ॥
यस्य नागसहस्रेण दश सङ्ख्येन वैशम्पायन उवाच । बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ६८ ॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ६९ ॥
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ ७० ॥
युधिष्ठिर उवाच ।
आनृशंस्य परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ७१ ॥
धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ७२ ॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ७३ ॥
यक्ष उवाच ।
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
अस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ७४ ॥
२९८
वैशम्पायन उवाच ।
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः ।
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ १ ॥
युधिष्ठिर उवाच ।
रसस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ २ ॥
वसूनां वा भवानेको रुद्राणामथ वा भवान् ।
अथ वा मरुतां श्रेष्ठो वर्जी वा त्रिदशेश्वरः ॥ ३ ॥
मम हि भ्रातर इमे सहस्रशतयोधिनः ।
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ ४ ॥
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ ५ ॥
यक्ष उवाच ।
अहं ते जनकस्तात धर्मो मृदु पराक्रम ।
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ६ ॥
यशो सत्यं दमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ७ ॥
अहिंसा समता शान्तिस्तपो शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ ८ ॥
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥ ९ ॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वमिहागतः ।
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ १० ॥
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ११ ॥
युधिष्ठिर उवाच ।
अरणी सहितं यस्य मृग आदाय गच्छति ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ १२ ॥
धर्म उवाच ।
अरणी सहितं तस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ १३ ॥
वैशम्पायन उवाच ।
ददानीत्येव भवगानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ १४ ॥
युधिष्ठिर उवाच ।
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्व चित् ॥ १५ ॥
वैशम्पायन उवाच ।
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयो चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ १६ ॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ १७ ॥
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूर्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ १८ ॥
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ १९ ॥
अरिणी सहितं चेदं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ २० ॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांश भाक् ॥ २१ ॥
युधिष्ठिर उवाच ।
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ २२ ॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ २३ ॥
धर्म उवाच ।
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव ।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ २४ ॥
वैशम्पायन उवाच ।
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ २५ ॥
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ २६ ॥
इदं समुत्थान समागमं महत्
पितुश्च पुत्रस्य च कीर्तिवर्धनम् ।
पठन्नरः स्याद्विजीतेन्द्रियो वशी
सपुत्रपौत्रः शतवर्ष भाग्भवेत् ॥ २७ ॥
न चाप्यधर्मे न सुहृद्विभेदने
परस्वहारे परदारमर्शने ।
कदर्य भावे न रमेन्मनो सदा
नृणां सदाख्यानमिदं विजानताम् ॥ २८ ॥
२९९
२९५

सहदेव उवाचा ।

Also Read:
Yudhishthira Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil