Templesinindiainfo

Best Spiritual Website

कामाक्षीनामकारणम् – ललितोपाख्यानम्

आद्यापि लक्ष्मीः सर्वेषां पुरतः परमेश्वरी ।

विरिञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत ॥

दृष्टिमात्रे तदा वाणी कमला ते उभे ततः ।

प्रादुर्भूते प्रभापुञ्जपञ्जरान्तरसंस्थिते ॥

श्रीदेवतां नमस्कृत्य बद्धाञ्जलिपुटे उभे ।

जय कामाक्षि कामाक्षीत्युच्चैः स्तुत्वा प्रणेमतुः ॥

मूर्ते च गङ्गायमुने तत्र सेवार्थमागते ।

तिस्रः कोट्योर्धकोटी च या या तीर्थाधिदेवताः ॥

सेवार्थं त्रिपुराम्बायाः तास्तास्सर्वाः समागताः ।

तयोः कराभ्यामादाय चामरे भारतीश्रियोः ॥

श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम् ।

अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते ।

आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ ॥

संवीक्ष्या सर्वजनता विशेषेण विसिस्मये ।

तदा प्रभृति कल्याणी कामाक्षीत्यभिधां दधौ ॥

यदुच्चारणमात्रेण श्रीदेवी सम्प्रसीदति ।

कामाक्षीति त्रयो वर्णाः सर्वमङ्गलहेतवः ॥

ललितोपाख्यानं पञ्चत्रिंशोध्यायः, श्लोकाः 66-74

कामाक्षीनामकारणम् – ललितोपाख्यानम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top