Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gopala 2 | Sahasranama Stotram Lyrics in Hindi

Shri Gopala 2 Sahasranama Stotram Lyrics in Hindi:

॥ श्रीगोपालसहस्रनामस्तोत्रम् २ अथवा बालकृष्णसहस्रनामस्तोत्रम् ॥
नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे अष्टमोऽध्यायः

श्रीपार्वत्युवाच ।
भगवन् सर्वदेवेश ! देवदेव ! जगद्गुरो ।
कथितं कवचं दिव्यं बालगोपालरूपिणम् ॥ १ ॥

श्रुतं मया तव मुखात् परं कौतूहलं मम ।
इदानीं श्रोतुमिच्छामि गोपालस्य परमात्मनः ॥ २ ॥

सहस्रं नाम्नां दिव्यानामशेषेणानुकीर्त्तय ।
तमेव शरणं नाथ त्राहि मां भक्तवत्सल ॥ ३ ॥

यदि स्नेहोऽस्ति देवेश मां प्रति प्राणवल्लभ ।
केन प्रकाशितं पूर्व कुत्र किं वा कदा क्व नु ॥ ३ ॥

पिबतोऽच्युतपीयूषं न मेऽत्रास्ति निरामता ॥ ४ ॥

श्रीमहादेव उवाच ।
श्रीबालकृष्णस्य सहस्रनाम्नः
स्तोत्रस्य कल्पाख्यसुरद्रुमस्य ।
व्यासो वदत्यखिलशास्त्रनिदेशकर्ता
श‍ृण्वन् शुकं मुनिगणेषु सुरर्षिवर्यः ॥ ५ ॥

पुरा महर्षयः सर्वे नारदं दण्डके वने
जिज्ञासान्ति स्म भक्त्या च गोपालस्य परात्मनः ॥ ६ ॥

नाम्नः सहस्रं परमं श‍ृणु देवि ! समासतः ।
श्रुत्वा श्रीबालकृष्णस्य नाम्नः साहस्रकं प्रिये ॥ ७ ॥

व्यपैति सर्वपापानि ब्रह्महत्यादिकानि च ।
कलौ बालेश्वरो देवः कलौ वृन्दावनं वनम् ॥ ८ ॥

कलौ गङ्गौ मुक्तिदात्री कलौ गीता परागतिः ।
नास्ति यज्ञादिकार्याणि हरेर्नामैव केवलम् ।
कलौ विमुक्तये नॄणां नास्त्येव गतिरन्यथा ॥ ९ ॥

विनियोगः –
अस्य श्रीबालकृष्णस्य सहस्रनामस्तोत्रस्य नारद ऋषिः
श्रीबालकृष्णो देवता पुरुषार्थसिद्धये जपे विनियोगः ।

बालकृष्णः सुराधीशो भूतावासो व्रजेश्वरः ।
व्रजेन्द्रनन्दनो नन्दी व्रजाङ्गनविहारणः ॥ १० ॥

गोगोपगोपिकानन्दकारको भक्तिवर्धनः ।
गोवत्सपुच्छसङ्कर्षजातानन्दभरोऽजयः ॥ ११ ॥

रिङ्गमाणगतिः श्रीमानतिभक्तिप्रकाशनः ।
धूलिधूसर सर्वाङ्गो घटीपीतपरिच्छदः ॥ १२ ॥

पुरटाभरणः श्रीशो गतिर्गतिमतां सदा ।
योगीशो योगवन्द्याश्च योगाधीशो यशःप्रदः ॥ १३ ॥

यशोदानन्दनः कृष्णो गोवत्सपरिचारकः ।
गवेन्द्रश्च गवाक्षश्च गवाध्यक्षो गवां गति ॥ १४ ॥

गवेशश्च गवीशश्च गोचारणपरायणः ।
गोधूलिधामप्रियको गोधूलिकृतभूषणः ॥ १५ ॥

गोरास्यो गोरसाशोगो गोरसाञ्चितधामकः ।
गोरसास्वादको वैद्यो वेदातीतो वसुप्रदः ॥ १६ ॥

विपुलांशो रिपुहरो विक्षरो जयदो जयः ।
जगद्वन्द्यो जगन्नाथो जगदाराध्यपादकः ॥ १७ ॥

जगदीशो जगत्कर्ता जगत्पूज्यो जयारिहा ।
जयतां जयशीलश्च जयातीतो जगद्बलः ॥ १८ ॥

जगद्धर्ता पालयिता पाता धाता महेश्वरः ।
राधिकानन्दनो राधाप्राणनाथो रसप्रदः ॥ १९ ॥

राधाभक्तिकरः शुद्धो राधाराध्यो रमाप्रियः ।
गोकुलानन्ददाता च गोकुलानन्दरूपधृक् ॥ २० ॥

गोकुलेश्वरकल्याणो गोकुलेश्वरनन्दनः ।
गोलोकाभिरितिः स्रग्वी गोलोकेश्वरनायकः ॥ २१ ॥

नित्यं गोलोकवसतिर्नित्यं गोगोपनन्दनः ।
गणेश्वरो गणाध्यक्षो गणानां परिपूरकः ॥ २२ ॥

गुणा गुणोत्करो गण्यो गुणातीतौ गुणाकरः ।
गुणप्रियो गुणाधारो गुणाराध्यो गणाग्रणी ॥ २३ ॥

गणनायको विघ्नहरो हेरम्बः पार्वतीसुतः ।
पर्वताधिनिवासी च गोवर्धनधरो गुरुः ॥ २४ ॥

गोवर्धनपतिः शान्तो गोवर्धनविहारकः ।
गोवर्धनो गीतगतिर्गवाक्षो गोवृक्षेक्षणः ॥ २५ ॥

गभस्तिनेमिर्गीतात्मा गीतगम्यो गतिप्रदः ।
गवामयो यज्ञनेमिर्यज्ञाङ्गो यज्ञरूपधृक् ॥ २६ ॥

यज्ञप्रियो यज्ञहर्ता यज्ञगम्यो यजुर्गतिः ।
यज्ञाङ्गो यज्ञगम्यश्च यज्ञप्राप्यो विमत्सरः ॥ २७ ॥

यज्ञान्तकृत् यज्ञगुणो यज्ञातीतो यजुःप्रियः ।
मनुर्मन्वादिरूपी च मन्वन्तरविहारकः ॥ २८ ॥

मनुप्रियो मनोर्वंशधारी माधवमापतिः ।
मायाप्रियो महामायो मायातीतो मयान्तकः ॥ २९ ॥

मायाभिगामी मायाख्यो महामायावरप्रदः ।
महामायाप्रदो मायानन्दो मायेश्वरः कविः ॥ ३० ॥

करणं कारणं कर्ता कार्यं कर्म क्रिया मतिः ।
कार्यातीतो गवां नाथो जगन्नाथो गुणाकरः ॥ ३१ ॥

विश्वरूपो विरूपाख्यो विद्यानन्दो वसुप्रदः ।
वासुदेवो विशिष्टेशो वाणीशो वाक्यतिर्महः ॥ ३२ ॥

वासुदेवो वसुश्रेष्ठो देवकीनन्दनोऽरिहा
वसुपाता वसुपतिर्वसुधापरिपालकः । ३३ ॥

कंसारिः कंसहन्ता च कंसाराध्यो गतिर्गवाम् ।
गोविन्दो गोमतां पालो गोपनारीजनाधिपः ॥ ३४ ॥

गोपीरतो रुरुनखधारी हारी जगद्गुरुः ।
जानुजङ्घान्तरालश्च पीताम्बरधरो हरिः ॥ ३५ ॥

हैयङ्गवीनसम्भोक्ता पायसाशो गवां गुरुः ।
ब्रह्मण्यो ब्रह्यणाऽऽराध्योनित्यं गोविप्रपालकः ॥ ३६ ॥

भक्तप्रियो भक्तलभ्यो भक्त्यातीतो भुवां गतिः ।
भूलोकपाता हर्ता च भूगोलपरिचिन्तकः ॥ ३७ ॥

नित्यं भूलोकवासी च जनलोकनिवासकः ।
तपोलोकनिवासी च वैकुण्ठो विष्टसस्रवाः ॥ ३८ ॥

विकुण्ठवासी वैकुण्ठवासी हासी रसप्रदः ।
रसिकागोपिकानन्ददायको बालघृग्वपुः ॥ ३९ ॥

यशस्वी यमुनातीरपुलिनेऽतीवमोहनः ।
वस्त्रहर्ता गोपिकानां मनोहारी वरप्रदः ॥ ४० ॥

दधिभक्षो दयाधारो दाता पाता हृताहृतः ।
मण्डपो मण्डलाधीशो राजराजेश्वरो विभुः ॥ ४१ ॥

विश्वधृक् विश्वभुक् विश्वपालको विश्वमोहनः ।
विद्वत्प्रियो वीतहव्यो हव्यगव्यकृताशनः ॥ ४२ ॥

कव्यभुक् पितृवर्ती च काव्यात्मा कव्यभोजनः ।
रामो विरामो रतिदो रतिभर्ता रतिप्रियः ॥ ४३ ॥

प्रद्युम्नोऽक्रूरदम्यश्च क्रूरात्मा कूरमर्दनः ।
कृपालुश्च दयालुश्च शयालुः सरितां पतिः ॥ ४४ ॥

नदीनदविधाता च नदीनदाविहारकः ।
सिन्धुः सिन्धुप्रियोदान्तः शान्तः कान्तः कलानिधिः ॥ ४५ ॥

संन्यासकृत्सतां भर्ता साधूच्छिष्टकृताशनः ।
साधुप्रियः साधुगम्यो साध्वाचारनिषेवकः ॥ ४६ ॥

जन्मकर्मफलत्यागी योगी भोगी मृगीपतिः ।
मार्गातीतो योगमार्गो मार्गमाणो महोरविः ॥ ४७ ॥

रविलोचनो रवेरङ्गभागी द्वादशरूपधृक् ।
गोपालो बालगोपालोबालकानन्ददायकः ॥ ४८ ॥

बालकानां पतिः श्रीशो विरतिः सर्वपापिनाम् ।
श्रीलः श्रीमान् श्रीयुतश्च श्रीनिवासः श्रियः पतिः ॥ ४९ ॥

श्रीदः श्रीशः श्रियःकान्तो रमाकान्तो रमेश्वरः ।
श्रीकान्तो धरणीकान्त उमाकान्तप्रियः प्रभुः ॥ ५० ॥

इष्टऽभिलाषी वरदो वेदगम्यो दुराशयः ।
दुःखहर्ता दुःखनाशो भवदुःखनिवारकः ॥ ५१ ॥

यथेच्छाचारनिरतो यथेच्छाचारसुरप्रियः ।
यथेच्छालाभसन्तुष्टो यथेच्छस्य मनोऽन्तरः ॥ ५२ ॥

नवीननीरदाभासो नीलाञ्जनचयप्रभः ।
नवदुर्दिनमेघाभो नवमेघच्छविः क्वचित् ॥ ५३ ॥

स्वर्णवर्णो न्यासधारो द्विभुजो बहुबाहुकः ।
किरीटधारी मुकुटी मूर्तिपञ्जरसुन्दरः ॥ ५४ ॥

मनोरथपथातीतकारको भक्तवत्सलः ।
कण्वान्नभोक्ता कपिलो कपिशो गरुडात्मक ॥ ५५ ॥

सुवर्णवर्णो हेमामः पूतनान्तक इत्यापिः ।
पूतनास्तनपाता च प्राणान्तकरणो रिपुः ॥ ५६ ॥

वत्सनाशो वत्सपालो वत्सेश्वरवसूत्तमः ।
हेमाभो हेमकण्ठश्च श्रीवत्सः श्रीमतां पतिः ॥ ५७ ॥

सनन्दनपथाराध्यो पातुर्धातुमतां पतिः ।
सनत्कुमारयोगात्मा सनेकश्वररूपधृक् ॥ ५८ ॥

सनातनपदो दाता नित्यं चैव सनातनः ।
भाण्डीरवनवासी च श्रीवृन्दावननायकः ॥ ५९ ॥

वृन्दावनेश्वरीपूज्यो वृन्दारण्यविहारकः ।
यमुनातीरगोधेनुपालको मेघमन्मथः ॥ ६० ॥

कन्दर्पदर्पहरणो मनोनयननन्दनः ।
बालकेलिप्रियः कान्तो बालक्रीडापरिच्छदः ॥ ६१ ॥

बालानां रक्षको बालः क्रीडाकौतुककारकः ।
बाल्यरूपधरो धन्वी धानुष्की शूलधृक् विभुः ॥ ६२ ॥

अमृतांशोऽमृतवपुः पीयूषपरिपालकः ।
पीयूषपायी पौरव्यानन्दनो नन्दिवर्धनः ॥ ६३ ॥

श्रीदामांशुकपाता च श्रीदामपरिभूषणः ।
वृन्दारण्यप्रियः कृष्णः किशोर कान्तरूपधृक् ॥ ६४ ॥

कामराजः कलातीतो योगिनां परिचिन्तकः ।
वृषेश्वरः कृपापालो गायत्रीगतिवल्लभः ॥ ६५ ॥

निर्वाणदायको मोक्षदायी वेदविभागकः ।
वेदव्यासप्रियो वैद्यो वैद्यानन्दप्रियः शुभः ॥ ६६ ॥

शुकदेवो गयानाथो गयासुरगतिप्रदः ।
विष्णुर्जिष्णुर्गरिष्ठश्च स्थविष्टाश्च स्थवीयसाम् ॥ ६७ ॥

वरिष्ठश्च यविष्ठश्च भूयिष्ठश्च भुवः पतिः ।
दुर्गतेर्नाशको दुर्गपालको दुष्टनाशकः ॥ ६८ ॥

कालीयसर्पदमनो यमुनानिर्मलोदकः ।
यमुनापुलिने रम्ये निर्मले पावनोदके ॥ ६९ ॥

वसन्तुबालगोपालरूपधारी गिरां पतिः ।
वाग्दाता वाक्प्रदो वाणीनाथो ब्राह्मणरक्षकः ॥ ७० ॥

ब्रह्मण्ये ब्रह्मकृद्ब्रह्म ब्रह्मकर्मप्रदायकः ।
व्रह्मण्यदेवो ब्रह्मण्यदायको ब्राह्मणप्रियः ॥ ७१ ॥

स्वस्तिप्रियोऽस्वस्थधरोऽस्वस्थनाशो धियां पतिः ।
क्वणन्नूपुरधृग्विश्वरूपी विश्वेश्वरः शिवः ॥ ७२ ॥

शिवात्मको बाल्यवपुः शिवात्मा शिवरूपधृक् ।
सदाशिवप्रियो देवः शिववन्द्यो जगत्शिवः ॥ ७३ ॥

गोमध्यवासी गोवासी गोपगोपीमनोऽन्तरः ।
धर्मो धर्मधुरीणश्च धर्मरूपो धराधरः ॥ ७४ ॥

स्वोपार्जितयशाः कीर्तिवर्धनो नन्दिरूपकः ।
देवहूतिज्ञानदाता योगसाङ्ख्यनिवर्तकः ॥ ७५ ॥

तृणावर्तप्राणहारी शकटासुरभञ्जनः ।
प्रलम्बहारी रिपुहा तथा धेनुकमर्दनः ॥ ७६ ॥

अरिष्टानाशनोऽचिन्त्यः केशिहा केशिनाशनः ।
कङ्कहा कंसहा कंसनाशनो रिपुनाशनः ॥ ७७ ॥

यमुनाजलकल्लोलदर्शी हर्षी प्रियंवदः ।
स्वच्छन्दहारी यमुनाजलहारी सुरप्रियः ॥ ७८ ॥

लीलाधृतवपुः केलिकारको धरणीधरः ।
गोप्ता गरिष्ठो गदिदो गतिकारी गयेश्वरः ॥ ७९ ॥

शोभाप्रियः शुभकरो विपुलश्रीप्रतापनः ।
केशिदैत्यहरो दात्री दाता धर्मार्थसाधन ॥ ८० ॥

त्रिसामा त्रिक्कृत्सामः सर्वात्मा सर्वदीपनः ।
सर्वज्ञः सुगतो बुद्धो बौद्धरूपी जनार्दनः ॥ ८१ ॥

दैत्यारिः पुण्डरीकाक्षः पद्मनाभोऽच्युतोऽसितः ।
पद्माक्षः पद्मजाकान्तो गरुडासनविग्रहः ॥ ८२ ॥

गारुत्मतधरो धेनुपालकः सुप्तविग्रहः ।
आर्तिहा पापहानेहा भूतिहा भूतिवर्धनः ॥ ८३ ॥

वाञ्छाकल्पद्रुमः साक्षान्मेधावी गरुडध्वजः ।
नीलश्वेतः सितः कृष्णो गौरः पीताम्बरच्छदः ॥ ८४ ॥

भक्तार्तिनाशनो गीर्णः शीर्णो जीर्णतनुच्छदः ।
बलिप्रियो बलिहरो बलिबन्धनतत्परः ॥ ८५ ॥

वामनो वामदेवश्च दैत्यारिः कञ्जलोचनः ।
उदीर्णः सर्वतो गोप्ता योगगम्यः पुरातनः ॥ ८६ ॥

नारायणो नरवपुः कृष्णार्जुनवपुर्धरः ।
त्रिनाभिस्त्रिवृतां सेव्यो युगातीतो युगात्मकः ॥ ८७ ॥

हंसो हंसी हंसवपुर्हंसरूपी कृपामयः ।
हरात्मको हरवपुर्हरभावनतत्परः ॥ ८८ ॥

धर्मरागो यमवपुस्त्रिपुरान्तकविग्रहः ।
युधिष्ठिरप्रियो राज्यदाता राजेन्द्रविग्रहः ॥ ८९ ॥

इन्द्रयज्ञहरो गोवर्धनधारी गिरां पतिः ।
यज्ञभुग्यज्ञकारी च हितकारी हितान्तकः ॥ ९० ॥

अक्रूरवन्द्यो विश्वध्रुगश्वहारी हयास्यकः ।
हयग्रीवः स्मितमुखो गोपीकान्तोऽरुणध्वधः ॥ ९१ ॥

निरस्तसाम्यातिशयः सर्वात्मा सर्वमण्डनः ।
गोपीप्रीतिकरो गोपीमनोहारी हरिर्हरिः ॥ ९२ ॥

लक्ष्मणो भरतो रामः शत्रुघ्नो नीलरूपकः ।
हनूमज्ज्ञानदाता च जानकीवल्लभो गिरिः ॥ ९३ ॥

गिरिरूपो गिरिमखो गिरियज्ञप्रवर्त्तकः ॥ ९४ ॥

भवाब्धिपोतः शुभकृच्छ्रुभभुक् शुभवर्धनः ।
वारारोही हरिमुखो मण्डूकगतिलालसः ॥ ९५ ॥

नेत्रवद्धक्रियो गोपबालको बालको गुणः ।
गुणार्णवप्रियो भूतनाथो भूतात्मकश्च सः ॥ ९६ ॥

इन्द्रजिद्भयदाता च यजुषां परिरप्पतिः ।
गीर्वाणवन्द्यो गीर्वाणगतिरिष्टोगुरुर्गतिः ॥ ९७ ॥

चतुर्मुखस्तुतिमुखो ब्रह्मनारदसेवितः ।
उमाकान्तधियाऽऽराध्यो गणनागुणसीमकः ॥ ९८ ॥

सीमान्तमार्गो गणिकागणमण्डलसेवितः ।
गोपीदृक्पद्ममधुपो गोपीदृङ्मण्डलेश्वरः ॥ ९९ ॥

गोप्यालिङ्गनकृद्गोपीहृदयानन्दकारकः ।
मयूरपिच्छशिखरः कङ्कणाङ्कदभूषणः ॥ १०० ॥

स्वर्णचम्पकसन्दोलः स्वर्णनूपुरभूषणः ।
स्वर्णताटङ्ककर्णश्च स्वर्णचम्पकभूषितः ॥ १०१ ॥

चूडाग्रार्पितरत्नेन्द्रसारः स्वर्णाम्बरच्छदः ।
आजानुबाहुः सुमुखो जगज्जननतत्परः ॥ १०२ ॥

बालक्रीडाऽतिचपलो भाण्डीरवननन्दनः ।
महाशालः श्रुतिमुखो गङ्गाचरणसेवनः ॥ १०३ ॥

गङ्गाम्बुपादः करजाकरतोयाजलेश्वरः ।
गण्डकीतीरसम्भूतो गण्डकीजलमर्दनः ॥ १०४ ॥

शालग्रामः शालरूपी शशिभूषणभूषणः ।
शशिपादः शशिनखो वरार्हो युवतीप्रियः ॥ १०५ ॥

प्रेमपदः प्रेमलभ्यो भक्त्यातीतो भवप्रदः ।
अनन्तशायी शवकृच्छयनो योगिनीश्वरः ॥ १०६ ॥

पूतनाशकुनिप्राणहारको भवपालकः ।
सर्वलक्षणलक्षण्यो लक्ष्मीमान् लक्ष्मणाग्रजः ॥ १०७ ॥

सर्वान्तकृत्सर्वगुह्य सर्वातीतोऽऽसुरान्तकः ।
प्रातराशनसम्पूर्णो धरणीरेणुगुण्ठितः ॥ १०८ ॥

इज्यो महेज्य सर्वेज्य इज्यरूपीज्यभोजनः ।
ब्रह्मार्पणपरो नित्यं ब्रह्माग्निप्रीतिलालसः ॥ १०९ ॥

मदनो मदनाराध्यो मनोमथनरूपकः ।
नीलाञ्चिताकुञ्चितको बालवृन्दविभूषितः ॥ ११० ॥

स्तोकक्रीडापरो नित्यं स्तोकभोजनतत्परः ।
ललिताविशखाश्यामलतावन्दिपादकः ॥ १११ ॥

श्रीमतीप्रियकारी च श्रीमत्या पादपूजितः ।
श्रीसंसेवितपादाब्जो वेणुवाद्यविशारदः ॥ ११२ ॥

श‍ृङ्गवेत्रकरो नित्यं श‍ृङ्गवाद्यप्रियः सदा ।
बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥ ११३ ॥

हलायधुः पीतवासा नीलाम्बरपरिच्छदः ।
गजेन्द्रवक्त्रो हेरम्बो ललनाकुलपालकः ॥ ११४ ॥

रासक्रीडाविनोदश्च गोपीनयनहारकः ।
बलप्रदो वीतभयो भक्तार्तिपरिनाशनः ॥ ११५ ॥

भक्तिप्रियो भक्तिदाता दामोदर इभस्पतिः ।
इन्द्रदर्पहरोऽनन्तो नित्यानन्दश्चिदात्मकः ॥ ११६ ॥

चैतन्यरूपश्चैतन्यश्चेतनागुणवर्जितः ।
अद्वैताचारनिपुणोऽद्वैतः परमनायकः ॥ ११७ ॥

शिवभक्तिप्रदो भक्तो भक्तानामन्तराशयः ।
विद्वत्तमो दुर्गतिहा पुण्यात्मा पुण्यपालकः ॥ ११८ ॥

ज्येष्ठः श्रेष्ठः कनिष्ठश्च निष्ठोऽतिष्ठ उमापतिः ।
सुरेन्द्रवन्द्यचरणो गोत्रहा गोत्रवर्जितः ॥ ११९ ॥

नारायणप्रियो नारशायी नारदसेवितः ।
गोपालबालसंसेव्यः सदानिर्मलमानसः ॥ १२० ॥

मनुमन्त्रो मन्त्रपतिर्धाता धामविवर्जितः ।
धराप्रदो धृतिगुणो योगीन्द्र कल्पपादपः ॥ १२१ ॥

अचिन्त्यातिशयानन्दरूपी पाण्डवपूजितः ।
शिशुपालप्राणहारी दन्तवक्रनिसूदनः ॥ १२२ ॥

अनादिशादिपुरुषो गोत्री गात्रविवर्जितः ।
सर्वापत्तारकोदुर्गो दृष्टदैत्यकुलान्तकः ॥ १२३ ॥

निरन्तरः शुचिमुखो निकुम्भकुलदीपनः ।
भानुर्हनूर्द्धनुः स्थाणुः कृशानुः कृतनुर्धनुः ॥ १२४ ॥

अनुर्जन्मादिरहितो जातिगोत्रविवर्जितः ।
दावानलनिहन्ता च दनुजारिर्बकापहा ॥ १२५ ॥

प्रह्लादभक्तो भक्तेष्टदाता दानवगोत्रहा ।
सुरभिर्दुग्धयो दुग्धहारी शौरिः शुचां हरिः ॥ १२६ ॥

यथेष्टदोऽतिसुलभः सर्वज्ञः सर्वतोमुखः ।
दैत्यारिः कैटभारिश्च कंसारिः सर्वतापनः ॥ १२७ ॥

द्विभुजः षड्भुजो ह्यन्तर्भुजो मातलिसारथिः ।
शेषः शेषाधिनाथश्च शेषी शेशान्तविग्रहः ॥ १२८ ॥

केतुर्धरित्रीचारित्रश्चतुर्मूर्तिश्चतुर्गतिः ।
चतुर्धा चतुरात्मा च चतुर्वर्गप्रदायकः ॥ १२९ ॥

कन्दर्पदर्पहारी च नित्यः सर्वाङ्गसुन्दरः ।
शचीपतिपतिर्नेता दाता मोक्षगुरुर्द्विजः ॥ १३० ॥

हृतस्वनाथोऽनाथस्य नाथः श्रीगरुडासनः ।
श्रीधरः श्रीकरः श्रेयः पतिर्गतिरपां पतिः ॥ १३१ ॥

अशेषवन्द्यो गीतात्मा गीतागानपरायणः ।
गायत्रीधामशुभदो वेलामोदपरायणः ॥ १३२ ॥

धनाधिपः कुलपतिर्वसुदेवात्मजोऽरिहा ।
अजैकपात् सहस्राक्षो नित्यात्मा नित्यविग्रहः ॥ १३३ ॥

नित्यः सर्वगतः स्थाणुरजोऽग्निर्गिरिनायकः ।
गोनायकः शोकहन्ताः कामारिः कामदीपनः ॥ १३४ ॥

विजितात्मा विधेयात्मा सोमात्मा सोमविग्रहः ।
ग्रहरूपी ग्रहाध्यक्षो ग्रहमर्दनकारकः ॥ १३५ ॥

वैखानसः पुण्यजनो जगदादिर्जगत्पतिः ।
नीलेन्दीवरभो नीलवपुः कामाङ्गनाशनः ॥ १३६ ॥

कामवीजान्वितः स्थूलः कृशः कृशतनुर्निजः ।
नैगमेयोऽग्निपुत्रश्च षाण्मातुरः उमापतिः ॥ १३७ ॥

मण्डूकवेशाध्यक्षश्च तथा नकुलनाशनः ।
सिंहो हरीन्द्रः केशीन्द्रहन्ता तापनिवारणः ॥ १३८ ॥

गिरीन्द्रजापादसेव्यः सदा निर्मलमानसः ।
सदाशिवप्रियो देवः शिवः सर्व उमापतिः ॥ १३९ ॥

शिवभक्तो गिरामादिः शिवाराध्यो जगद्गुरूः ।
शिवप्रियो नीलकण्ठः शितिकण्ठः उषापतिः ॥ १४० ॥

प्रद्युम्नपुत्रो निशठः शठः शठधनापहा ।
धूपाप्रियो धूपदाता गुग्गुल्वगुरुधूपितः ॥ १४१ ॥

नीलाम्बरः पीतवासा रक्तश्वेतपरिच्छदः ।
निशापतिर्दिवानाथो देवब्राह्मणपालकः ॥ १४२ ॥

उमाप्रियो योगिमनोहारी हारविभूषितः ।
खगेन्द्रवन्द्यपादाब्जः सेवातपपराङ्मुखः ॥ १४३ ॥

परार्थदोऽपरपतिः परात्परतरो गुरुः ।
सेवाप्रियो निर्गुणश्च सगुणः श्रुतिसुन्दरः ॥ १४४ ॥

देवाधिदेवो देवेशो देवपूज्यो दिवापतिः ।
दिवः पतिर्वृहद्भानुः सेवितेप्सितदायकः ॥ १४५ ॥

गोतमाश्रमवासी च गोतमश्रीनिषेवितः ।
रक्ताम्बरधरो दिव्यो देवीपादाब्जपूजितः ॥ १४६ ॥

सेवितार्थप्रदाता च सेवासेव्यगिरीन्द्रजः ।
धातुर्मनोविहारी च विधीता धातुरुत्तमः ॥ १४७ ॥

अज्ञानहन्ता ज्ञानेन्द्रवन्द्यो वन्द्यधनाधिपः ।
अपां पतिर्जलनिधिर्धरापतिरशेषकः ॥ १४८ ॥

देवेन्द्रवन्द्यो लोकात्मा त्रिलोकात्मा त्रिलोकपात् ।
गोपालदायको गन्धद्रदो गुह्यकसेवितः ॥ १४९ ॥

निर्गुणः पुरुषातीतः प्रकृतेः पर उज्ज्वलः ।
कार्तिकेयोऽमृताहर्ता नागारिर्नागहारकः ॥ १५० ॥

नागेन्द्रशायी धरणीपतिरादित्यरूपकः ।
यशस्वी विगताशी च कुरुक्षेत्राधिपः शशी ॥ १५१ ॥

शशकारि शुभचारो गीर्वाणगणसेवितः ।
गतिप्रदो नरसखः शीतलात्मा यशः पतिः ॥ १५२ ॥

विजितारिर्गणाध्यक्षो योगात्मा योगपालकः ।
देवेन्द्रसेव्यो देवन्द्रपापहारी यशोधनः ॥ १५३ ॥

अकिञ्चनधनः श्रीमानमेयात्मा महाद्रिधृक् ।
महाप्रलयकारी च शचीसुतजयप्रदः ॥ १५४ ॥

जनेश्वरः सर्वविधिरूपी ब्राह्मणपालकः ।
सिंहासननिवासी च चेतनारहितः शिवः ॥ १५५ ॥

शिवप्रदो दक्षयज्ञहन्ता भृगुनिवारकः ।
वीरभद्रभयावर्तः कालः परमनिर्व्रणः ॥ १५६ ॥

उदूखलनिबद्धश्च शोकात्मा शोकनाशनः ।
आत्मयोनिष स्वयञ्जातो वैखानः पापहारकः ॥ १५७ ॥

कीर्तिप्रदः कीर्तिदाता गजेन्द्रभुजपूजितः ।
सर्वान्तरात्मा सर्वात्मा मोक्षरूपी निरायुधः ॥ १५८ ॥

उद्धवज्ञानदाता च यमलार्जुनभञ्जनः ।

फलश्रुतिः ।
इत्येतत्कथितं देवी सहस्रं नाम चोत्तमम् ॥ १५९ ॥

आदिदेवस्य वै विष्णोर्बालकत्वमुपेयुषः ।
यः पठेत् पाठयेद्वापि श्रुणयात् श्रावयीत वा ॥ १६० ॥

किं फलं लभते देवि वक्तुं नास्ति मम प्रिये ।
शक्तिर्गोपालनाम्जश्च सहस्रस्य महेश्वरि ॥ १६१ ॥

ब्रह्महत्यादिकानीह पापानि च महान्ति च ।
विलयं यान्ति देवेशि ! गोपालस्य प्रसादतः ॥ १६२ ॥

द्वादश्यां पौर्णमास्यां वा सप्तम्यां रविवासरे ।
पक्षद्वये च सम्प्राप्य हरिवासनमेव वा । १६३ ॥

यः पठेच्छृणुयाद्वापि न जनुस्तस्य विद्यते ।
सत्यं सत्यं महेशानि सत्यं सत्यं न संशयः ॥ १६४ ॥

एकादश्यां शुचिर्भूत्वा सेव्या भक्तिर्हरेः शुभाः ।
श्रुत्वा नाम सहस्राणि नरो मुच्येत पातकात् ॥ १६५ ॥

न शठाय प्रदातव्यं न धर्मध्वजिने पुनः ।
निन्दकाय च विप्राणां देवानां वैष्णवस्य च । १६६ ॥

गुरुभक्तिविहीनाय शिवद्वेषरताय च ।
राधादुर्गाभेदमतौ सत्यं सत्यं न संशयः ॥ १६७ ॥

यदि निन्देन्महेशानि गुरुहा भवेद्ध्रुवम् ।
वैष्णवेषु च शान्तेषु नित्यं वैराग्यरागिषु ॥ १६८ ॥

ब्राह्मणाय विशुद्धाय सन्ध्यार्चनरताय च ।
अद्वैताचारनिरते शिवभक्तिरताय च । १६९ ॥

गुरुवाक्यरतायैव नित्यं देयं महेश्वरि ।
गोपितं सर्वतन्त्रेषु तव स्नेहात्प्रकीर्तितम् ॥ १७० ॥

नातः परतरं स्तोत्रं नातः परतरो मनुः ।
नातः परतरो देवो युगेष्वपि चतुर्ष्वपि ॥ १७१ ॥

हरिभक्तेः परा नास्ति मोक्षश्रेणी नगेन्द्रजे ।
वैष्णवेभ्यः परं नास्ति प्राणेभ्योऽपि प्रिया मम ॥ १७२ ॥

वैष्णवेषु च सङ्गो मे सदा भवतु सुन्दरि ! ।
यस्य वंशे क्वचिद्देवात्वैष्णवो रागवर्जितः ॥ १७३ ॥

भवेत्तद्वंशके ये ये पूर्वे स्यः पितरस्तथा ।
भवन्ति निर्मलास्ते हि यान्ति निर्वाणतां हरेः ॥ १७४ ॥

बहुना किमिहोक्तेन वैष्णवानान्तु दर्शनात् ।
निर्मलाः पापरहिताः पापिनः स्युर्न संशयः ॥ १७५ ॥

कलौ बालेश्वरो देवः कलौ गङ्गेव केवला ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ १७६ ॥

॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे
गोपालसहस्रनामस्तोत्रमष्टमोऽध्यायः ॥

Also Read 1000 Names of Shri Gopala 2:

1000 Names of Sri Gopala 2 | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gopala 2 | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top