Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Jwalamukhi | Sahasranama Stotram Lyrics in Hindi

Shri Jvalamukhi Sahasranama Stotram Lyrics in Hindi:

॥श्रीज्वालामुखीसहस्रनामस्तोत्रम् ॥

श्रीभैरव्युवाच ।
भगवन् सर्वधर्मज्ञ देवानामभयङ्कर ।
पुरा मे यत् त्वया प्रोक्तं वरं कैलाससानुतः ॥ १ ॥

कृपया परया नाथ तं मे दातुं क्षमो भव ।

श्रीभैरव उवाच ।
सत्यमेतत् त्वया प्रोक्तं वरं वरय पार्वति ॥ २ ॥

तं प्रयच्छामि संसिद्ध्यै मनसा यदभीप्सितम् ।

श्रीभैरव्युवाच ।
ज्वालामुख्यास्त्वया देव सहस्राणि च तत्त्वतः ॥ ३ ॥

प्रोक्तानि ब्रूहि मे भक्त्या यदि मे त्वत्कृपा भवेत् ।

श्रीभैरव उवाच ।
प्रवक्ष्यामि महादेवि ज्वालानामानि तत्त्वतः ॥ ४ ॥

सहस्राणि कलौ नॄणां वरदानि यथेप्सितम् ।
अभक्ताय न दातव्यं दुष्टायासाधकाय च । ५ ॥

या सा ज्वालामुखी देवी त्रैलोक्यजननी स्मृता ।
तस्या नामानि वक्ष्यामि दुर्लभानि जगत्त्रये ॥ ६ ॥

विना नित्यबलिं स्तोत्रं न रक्ष्यं साधकोत्तमैः ।
दुर्भिक्षे शत्रुभीतौ च मारणे स्तम्भने पठेत् ॥ ७ ॥

सहस्राख्यं स्तवं देव्याः सद्यः सिद्धिर्भविष्यति ।
विना गन्धाक्षतैः पुष्पैर्धूपैर्दीपैर्विना बलिम् ॥ ८ ॥

न रक्ष्यं साधकेनैव देवीनामसहस्रकम् ।
दत्त्वा बलिं पठेद्देव्या मन्त्री नामसहस्रकम् ।
देवि सत्यं मया प्रोक्तं सिद्धिहानिस्ततोऽन्यथा ॥ ९ ॥

अस्य श्रीज्वालामुखीसहस्रनामस्तवस्य भैरव ऋषिः,
अनुष्टुप् छन्दः, श्रीज्वालामुखी देवता, ह्रीं बीजं, श्रीं शक्तिः,
ॐ कीलकं पाठे विनियोगः ।

॥ अङ्गन्यासः ॥

भैरवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे ।
श्रीज्वालामुखीदेवतायै नमो हृदि ।
ह्रीं बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये ।
ॐ कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु ।
ॐ ह्यामिति षड् दीर्घयुक्तमायया करषडङ्गानि विधाय ध्यायेत् ॥

॥ ध्यानम् ॥

उद्यच्चन्द्रमरीचिसन्निभमुखीमेकादशाराब्जगां
पाशाम्भोजवराभयान् करतलैः सम्बिभ्रतीं सादरात् ।
अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलां
प्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥

ॐ ह्रीं ज्वालामुखी जैत्री श्रीञ्ज्योत्स्ना जयदा जया ।
औदुम्बरा महानीला शुक्रलुप्ता शची श्रुतिः ॥ १ ॥

स्मयदा स्मयहर्त्री च स्मरशत्रुप्रियङ्करी ।
मानदा मोहिनी मत्ता माया बाला बलन्धरा ॥ २ ॥

भगरूपा भगावासा भीरुण्डा भयघातिनी ।
भीतिर्भयानकास्या च भ्रूः सुभ्रूः सुखिनी सती ॥ ३ ॥

शूलिनी शूलहस्ता च शूलिवामाङ्गवासिनी ।
शशाङ्कजननी शीता शीतला शारिका शिवा ॥ ४ ॥

स्रुचिका मधुमन्मान्या त्रिवर्गफलदायिनी ।
त्रेता त्रिलोचना दुर्गा दुर्गमा दुर्गतिर्गतिः ॥ ५ ॥

पूता प्लुतिर्विमर्शा च सृष्टिकर्त्री सुखावहा ।
सुखदा सर्वमध्यस्था लोकमाता महेश्वरी ॥ ६ ॥

लोकेष्टा वरदा स्तुत्या स्तुतिर्द्रुतगतिर्नुतिः ।
नयदा नयनेत्रा च नवग्रहनिषेविता ॥ ७ ॥

अम्बा वरूथिनी वीरजननी वीरसुन्दरी ।
वीरसूर्वारुणी वार्ता वराऽभयकरा वधूः ॥ ८ ॥

वानीरतलगा वाम्या वामाचारफलप्रदा ।
वीरा शौर्यकरी शान्ता शार्दूलत्वक् च शर्वरी ॥ ९ ॥

शलभी शास्त्रमर्यादा शिवदा शम्बरान्तका ।
शम्बरारिप्रिया शम्भुकान्ता शशिनिभानना ॥ १० ॥

शस्त्रायुधधरा शान्तिर्ज्योतिर्दीप्तिर्जगत्प्रिया ।
जगती जित्वरा जारी मार्जारी पशुपालिनी (१००) ॥ ११ ॥

मेरुमध्यगता मैत्री मुसलायुधधारिणी ।
मान्या मन्त्रेष्टदा माध्वी माध्वीरसविघूर्णिता ॥ १२ ॥

मोदकाहारमत्ता च मत्तमातङ्गगामिनी ।
महेश्वरप्रियोन्मत्ता दार्वी दैत्यविमर्दिनी ॥ १३ ॥ var महेश्वरप्रियोन्नत्ता
देवेष्टा साधकेष्टा च साध्वी सर्वत्रगाऽसमा ।
सन्तानकतरुश्छायासन्तुष्टाऽध्वश्रमापहा ॥ १४ ॥

शारदा शरदब्जाक्षी वरदाब्जनिभानना । var वरदाऽब्जनिभानना
नम्राङ्गी कर्कशाङ्गी च वज्राङ्गी वज्रधारिणी ॥ १५ ॥

वज्रेष्टा वज्रकङ्काला वानरीं वायुवेगिनी ।
वराकी कुलका काम्या कुलेष्टा कुलकामिनी ॥ १६ ॥

कुन्ता कामेश्वरी क्रूरा कुल्या कामान्तकारिणी ।
कुन्ती कुन्तधरा कुब्जा कष्टहा वगलामुखी ॥ १७ ॥

मृडानी मधुरा मूका प्रमत्ता बैन्दवेश्वरी ।
कुमारी कुलजाऽकामा कूवरी नडकूबरी ॥ १८ ॥ var कूबरी
नगेश्वरी नगावासा नगपुत्री नगारिहा ।
नागकन्या कुहूः कुण्ठी करुणा कृपयान्विता ॥ १९ ॥

ककारवर्णरूपाढ्या ह्रीर्लञ्जा श्रीः शुभाशुभा ।
खेचरी खगपत्री च खगनेत्रा खगेश्वरी ॥ २० ॥

खाता खनित्री खस्था च जप्या जाप्याऽजरा धुतिः ।
जगती जन्मदा जम्भी जम्बुवृक्षतलस्थिता ॥ २१ ॥

जाम्बूनदप्रिया सत्या सात्त्विकी सत्त्ववर्जिताम् ।
सर्वमाता समालोका लोकाख्यातिर्लयात्मिका ॥ २२ ॥ var लोका ख्यातिर्लयात्मिका
लूता लता रतिर्लज्जा वाजिगा (२००) वारुणी वशा । var लतारतिर्लज्जा
कुटिला कुत्सिता ब्राह्मी ब्रह्मणि । ब्रह्मदायिनी ॥ २३ ॥

व्रतेष्टा वाजिनी वस्तिर्वामनेत्रा वशङ्करी ।
शङ्करी शङ्करेष्टा च शशाङ्ककृतशेखरा ॥ २४ ॥

कुम्भेश्वरी कुरुघ्नी च पाण्डवेष्टा परात्परा ।
महिषासुरसंहर्त्री माननीया मनुप्रिया ॥ २५ ॥

दषिणा दक्षजा दक्षा द्राक्षा दूती द्युतिर्धरा ।
धर्मदा धर्मराजेष्टा धर्मस्था धर्मपालिनी ॥ २६ ॥

धनदा धनिका धर्म्या पताका पार्वती प्रजा ।
प्रजावती पुरी प्रज्ञा पूः पुत्री पत्रिवाहिनी ॥ २७ ॥

पत्रिहस्ता च मातङ्गी पत्रिका च पतिव्रता ।
पुष्टिः प्लक्षा श्मशानस्था देवी धनदसेविता ॥ २८ ॥

दयावती दया दूरा दूता निकटवासिनी ।
नर्मदाऽनर्मदा नन्दा नाकिनी नाकसेविता ॥ २९ ॥

नासा सङ्क्रान्तिरीड्या च भैरवी च्छिन्नमस्तका ।
श्यामा श्यामाम्बरा पीता पीतवस्त्रा कलावती ॥ ३० ॥

कौतुकी कौतुकाचारा कुलधर्मप्रकाशिनी ।
शाम्भवी गारुडी विद्या गरुडासनसंस्थिता ॥ ३१ ॥ var गारुडीविद्या
विनता वैनतेयेष्टा वैष्णवी विष्णुपूजिता ।
वार्तादा वालुका वेत्री वेत्रहस्ता वराङ्गना ॥ ३२ ॥

विवेकलोचना विज्ञा विशाला विमला ह्यजा ।
विवेका प्रचुरा लुप्ता नौर्नारायणपूजिता ॥ ३३ ॥

नारायणी (३००) च सुमुखी दुर्जया दुःखहारिणी ।
दौर्भाग्यहा दुराचारा दुष्टहन्त्री च द्वेषिणी ॥ ३४ ॥

वाङ्मयी भारती भाषा मषी लेखकपूजिता ।
लेखपत्री च लोलाक्षी लास्या हास्या प्रियङ्करी ॥ ३५ ॥

प्रेमदा प्रणयज्ञा च प्रमाणा प्रत्ययाङ्किता ।
वाराही कुब्जिका कारा काराबन्धनमोक्षदा ॥ ३६ ॥

उग्रा चोग्रतरोग्रेष्टा नृमान्या नरसिंहिका ।
नरनारायणस्तुत्या नरवाहनपूजिता ॥ ३७ ॥

नृमुण्डा नूपुराढ्या च नृमाता त्रिपुरेश्वरी ।
दिव्यायुधोग्रतारा च त्र्यक्षा त्रिपुरमालिनी ॥ ३८ ॥

त्रिनेत्रा कोटराक्षी च षट्चक्रस्था क्रीमीश्वरी ।
क्रिमिहा क्रिमियोनिश्च कला चन्द्रकला चमूः ॥ ३९ ॥

चमाम्बग च चार्वङ्गी चञ्चलाक्षी च भद्रदा ।
भद्रकाली सुभद्रा च भद्राङ्गी प्रेतवाहिनी ॥ ४० ॥

सुषमा स्त्रीप्रिया कान्ता कामिनी कुटिलालका ।
कुशब्दा कुगतिर्मेधा मध्यमाङ्का च काश्यपी ॥ ४१ ॥

दक्षिणाकालिका काली कालभैरवपूजिता ।
क्लीङ्कारी कुमतिर्वाणी बाणासुरनिसूदिनी ॥ ४२ ॥

निर्ममा निर्ममेष्टा च निरयोनिर्निराश्रया । var निरर्योनिर्निराश्रया
निर्विकारा निरीहा च निलया नृपपुत्रिणी ॥ ४३ ॥

नृपसेव्या विरिञ्चीष्टा विशिष्टा विश्वमातृका ।
मातृकाऽर्णविलिप्ताङ्गी मधुस्त्राता मधुद्रवा ॥ ४४ ॥

शुक्रेष्टा शुक्रसन्तुष्टा शुक्रस्नाता कृशोदरी ।
वृषा वृष्टिरनावृष्टिर्लभ्या लोभविवर्जिता ॥ ४५ ॥

अब्धिश्च (४००) ललना लक्ष्या लक्ष्मी रामा रमा रतिः ।
रेवा रम्भोर्वशी वश्या वासुकिप्रियकारिणी ॥ ४६ ॥

शेषा शेषरता श्रेष्ठा शेषशायिनमस्कृता ।
शय्या शर्वप्रिया शस्ता प्रशस्ता शम्भुसेविता ॥ ४७ ॥

आशुशुक्षणिनेत्रा च क्षणदा क्षणसेविता ।
क्षुरिका कर्णिका सत्या सचराचररूपिणी ॥ ४८ ॥

चरित्री च धरित्री च दितिर्दैत्येन्द्रपूजिता ।
गुणिनी गुणरूपा च त्रिगुणा निर्गुणा घृणा ॥ ४९ ॥

घोषा गजाननेष्टा च गजाकारा गुणिप्रिया ।
गीता गीतप्रिया तथ्या पथ्या त्रिपुरसुन्दरी ॥ ५० ॥

पीनस्तनी च रमणी रमणीष्टा च मैथुनी ।
पद्मा पद्मधरा वत्सा धेनुर्मेरुधरा मघा ॥ ५१ ॥

मालती मधुरालापा मातृजा मालिनी तथा ।
वैश्वानरप्रिया वैद्या चिकित्सा वैद्यपूजिता ॥ ५२ ॥

वेदिका वारपुत्री च वयस्या वाग्भवी प्रसूः ।
क्रीता पद्मासना सिद्धा सिद्धलक्ष्मीः सरस्वती ॥ ५३ ॥

सत्त्वश्रेष्ठा सत्त्वसंस्था सामान्या सामवायिका ।
साधकेष्टा च सत्पत्नी सत्पुत्री सत्कुलाश्रया ॥ ५४ ॥

समदा प्रमदा श्रान्ता परलोकगतिः शिवा ।
घोररूपा घोररावा मुक्तकेशी च मुक्तिदा ॥ ५५ ॥

मोक्षदा बलदा पुष्टिर्मुक्तिर्बलिप्रियाऽभया ।
तिलप्रसूननासा च प्रसूना कुलशीर्षिणी ॥ ५६ ॥

परद्रोहकरी (५००) पान्था पारावारसुता भगा ।
भर्गप्रिया भर्गशिखा हेला हैमवतीश्वरी ॥ ५७ ॥

हेरुकेष्टा वटुस्था च वटुमाता वटेश्वरी ।
नटिनी त्रोटिनी त्राता स्वसा सारवती सभा ॥ ५८ ॥

सौभाग्या भाग्यदा भाग्या भोगदा भूः प्रभावती ।
चन्द्रिका कालहत्रीं च ज्योत्स्नोल्काऽशनिराह्निका ॥ ५९ ॥

ऐहिकी चौष्मिकी चोष्मा ग्रीष्मांशुद्युतिरूपिणी ।
ग्रीवा ग्रीष्मानना गव्या कैलासाचलवासिनी ॥ ६० ॥

मल्ली मार्तण्डरूपा च मानहर्त्री मनोरमा ।
मानिनी मानकर्त्री च मानसी तापसी तुटिः ॥ ६१ ॥ var त्रुटिः
पयःस्था तु परब्रह्मस्तुता स्तोत्रप्रिया तनुः ।
तन्वी तनुतरा सूक्ष्मा स्थूला शूरप्रियाऽधमा ॥ ६२ ॥

उत्तमा मणिभूषाढ्या मणिमण्डपसंस्थिता ।
माषा तीक्ष्णा त्रपा चिन्ता मण्डिका चर्चिका चला ॥ ६३ ॥

चण्डी चुल्ली चमत्कारकर्त्री हर्त्री हरीश्वरी ।
हरिसेव्या कपिश्रेष्ठा चर्चिता चारुरूपिणी ॥ ६४ ॥

चण्डीश्वरी चण्डरूपा मुण्डहस्ता मनोगतिः ।
पोता पूता पवित्रा च मज्जा मेध्या सुगन्धिनी ॥ ६५ ॥

सुगन्धा पुष्पिणी पुष्पा प्रेरिता पवनेश्वरी ।
प्रीता क्रोधाकुला न्यस्ता न्यक्कारा सुरवाहिनी ॥ ६६ ॥

स्रोतस्वती मधुमती देवमाता सुधाम्बरा (६००) ।
मत्स्या मत्स्येन्द्रपीठस्था वीरपाना मदातुरा ॥ ६७ ॥ var भत्स्या
पृथिवी तैजसी तृप्तिर्मूलाधारा प्रभा पृथुः ।
नागपाशधराऽनन्ता पाशहस्ता प्रबोधिनी ॥ ६८ ॥ var नागपाशधरानन्ता
प्रसादना कलिङ्गाख्या मदनाशा मधुद्रवा ।
मधुवीरा मदान्धा च पावनी वेदना स्मृतिः ॥ ६९ ॥

बोधिका बोधिनी पूषा काशी वाराणसी गया ।
कौशी चोज्जयिनी धारा काश्मीरी कुङ्कुमाकुला ॥ ७० ॥

भूमिः सिन्धुः प्रभासा च गङ्गा गोरी शुभाश्रया ।
नानाविद्यामयी वेत्रवती गोदावरी गदा ॥ ७१ ॥

गदहर्त्री गजारूढा इन्द्राणी कुलकौलिनी ।
कुलाचारा कुरूपा च सुरूपा रूपवर्जिता ॥ ७२ ॥

चन्द्रभागा च यमुना यामी यमक्षयङ्करी ।
काम्भोजी सरयूश्चित्रा वितस्तैरावती झषा ॥ ७३ ॥

चषिका पथिका तन्त्री वीणा वेणुः प्रियंवदा ।
कुण्डलिनी निर्विकल्पा गायत्री नरकान्तका ॥ ७४ ॥

कृष्णा सरस्वती तापी पयोर्णा शतरुद्रिका ।
कावेरी शतपत्राभा शतबाहुः शतह्रदा ॥ ७५ ॥

रेवती रोहिणी क्षिप्या क्षीरपा क्षोणी क्षमा क्षया । var क्षिप्रा
क्षान्तिर्भ्रान्तिर्गुरुर्गुवी गरिष्ठा गोकुला नदी ॥ ७६ ॥

नादिनी कृषिणी कृष्या सत्कुटी भूमिका (७००) भ्रमा ।
विभ्राजमाना तीर्थ्या च तीर्था तीर्थफलप्रदा ॥ ७७ ॥

तरुणी तामसी पाशा विपाशा प्राशधारिणी ।
पशूपहारसन्तुष्टा कुक्कुटी हंसवाहना ॥ ७८ ॥

मधुरा विपुलाऽकाङ्क्षा वेदकाण्डी विचित्रिणी ।
स्वप्नावती सरित् सीताधारिणी मत्सरी च मुत् ॥ ७९ ॥

शतद्रूर्भारती कद्रूरनन्तानन्तशाखिनी । var कद्रूरनन्ताऽनन्तशाखिनी
वेदना वासवी वेश्या पूतना पुष्पहासिनी ॥ ८० ॥

त्रिशक्तिः शक्तिरूपा चाक्षरमाता क्षुरी क्षुधा ।
मन्दा मन्दाकिनी मुद्रा भूता भूतपतिप्रिया ॥ ८१ ॥

भूतेष्टा पञ्चभूतघ्नी स्वक्षा कोमलहासिनी ।
वासिनी कुहिका लम्भा लम्बकेशी सुकेशिनी ॥ ८२ ॥

ऊर्ध्वकेशी विशालाक्षी घोरा पुण्यपतिप्रिया ।
पांसुला पात्रहस्ता च खर्परी खर्परायुधा ॥ ८३ ॥

केकरी काकिनी कुम्भी सुफला केकराकृतिः ।
विफला विजया श्रीदा श्रीदसेव्या शुभङ्करी ॥ ८४ ॥

शैत्या शीतालया शीधुपात्रहस्ता कृपावती ।
कारुण्या विश्वसारा च करुणा कृपणा कृपा ॥ ८४ ॥

प्रज्ञा ज्ञाना च षड्वर्गा षडास्या षण्मुखप्रिया ।
क्रौञ्ची क्रौञ्चाद्रिनिलया दान्ता दारिद्र्यनाशिनी ॥ ८६ ॥

शाला चाभासुरा साध्या साधनीया च सामगा ।
सप्तस्वरा सप्तधरा सप्तसप्तिविलोचना ॥ ८७ ॥

स्थितिः क्षेमङ्करी स्वाहा वाचाली (८००) विविषाम्बरा ।
कलकण्ठी घोषधरा सुग्रीवा कन्धरा रुचिः ॥ ८८ ॥

शुचिस्मिता समुद्रेष्टा शशिनी वशिनी सुदृक् ।
सर्वज्ञा सर्वदा शारी सुनासा सुरकन्यका ॥ ८९ ॥

सेना सेनासुता श‍ृङ्गी श‍ृङ्गिणी हाटकेश्वरी ।
होटिका हारिणी लिङ्गा भगलिङ्गस्वरूपिणी ॥ ९० ॥

भगमाता च लिङ्गाख्या लिङ्गप्रीतिः कलिङ्गजा ।
कुमारी युवती प्रौढा नवोढा प्रौढरूपिर्णा ॥ ९१ ॥

रम्या रजोवती रज्जु रजोली राजसी घटी ।
कैवर्ती राक्षसी रात्री रात्रिञ्चरक्षयङ्करी ॥ ९२ ॥

महोग्रा मुदिता भिल्ली भल्लहस्ता भयङ्करी ।
तिलाभा दारिका द्वाःस्था द्वारिका मध्यदेशगा ॥ ९३ ॥

चित्रलेखा वसुमती सुन्दराङ्गी वसुन्धरा ।
देवता पर्वतस्था च परभूः परमाकृतिः ॥ ९४ ॥

परमूतिर्मुण्डमाला नागयज्ञोपवीतिनी ।
श्मशानकालिका श्मश्रुः प्रलयात्मा प्रलोपिनी ॥ ९५ ॥

प्रस्थस्था प्रस्थिनी प्रस्था धूम्रार्चिर्धूम्ररूपिणी ।
धूम्राङ्गी धूम्रकेशा च कपिला कालनाशिनी ॥ ९६ ॥

कङ्काली कालरूपा च कालमाता मलिम्लुची ।
शर्वाणी रुद्रपत्नी च रौद्री रुद्रस्वरूपिणी ॥ ९७ ॥

सन्ध्या त्रिसन्ध्या सम्पूज्या सर्वैश्वर्यप्रदायिनी ।
कुलजा सत्यलोकेशा सत्यवाक् सत्यवादिनी ॥ ३८ ॥

सत्यस्वरा सत्यमयी हरिद्वारा हरिन्मयी ।
हरिद्रतन्मयी राशि (९००) र्ग्रहतारातिथितनुः ॥ ९९ ॥

तुम्बुरुस्त्रुटिका त्रोटी भुवनेशी भयापहा ।
राज्ञी राज्यप्रदा योग्या योगिनी भुवनेश्वरी ॥ १०० ॥

तुरी तारा महालक्ष्मीर्भीडा भार्गी भयानका ।
कालरात्रिर्महारात्रिर्महाविद्या शिवालया ॥ १०१ ॥

शिवासङ्गा शिवस्था च समाधिरग्निवाहना ।
अग्नीश्वरी महाव्याप्तिर्बलाका बालरूपिणी ॥ १०२ ॥ var महीव्याप्ति
बटुकेशी विलासा च सदसत्पुरभैरवी ।
विघ्नहा खलहा गाथा कथा कन्था शुभाम्बरा ॥ १०३ ॥

क्रतुहा ॠतुजा क्रान्ता माधवी चामरावती ।
अरुणाक्षी विशालाक्षी पुण्यशीला विलासिनी ॥ १०४ ॥

सुमाता स्कन्दमाता च कृत्तिका भरणी बलिः ।
जिनेश्वरी सुकुशला गोपी गोपतिपूजिता ॥ १०५ ॥

गुप्ता गोप्यतरा ख्याता प्रकटा गोपितात्मिका ।
कुलाम्नायवती कीला पूर्णा स्वर्णाङ्गदोत्सुका ॥ १०६ ॥

उत्कण्ठा कलकण्ठी च रक्तपा पानपाऽमला ।
सम्पूर्णचन्द्रवदना यशोदा च यशस्विनी ॥ १०७ ॥

आनन्दा सुन्दरी सर्वानन्दा नन्दात्मजा लया ।
विद्युत् खद्योतरूपा च सादरा जविका जविः ॥ १०८ ॥ var जीवका
जननी जनहर्त्री च खर्परा खञ्जनेक्षणा ।
जीर्णा जीमूतलक्ष्या च जटिनी जयवर्धिनी ॥ १०९ ॥

जलस्था च जयन्ती च जम्भारिवरदा तथा ।
सहस्रनामसम्पूर्णा देवी ज्वालामुखी स्मृता (१०००) ॥ ११० ॥

इति नाम्नां सहस्रं तु ज्वालामुख्याः शिवोदितम् ।
चतुर्वर्गप्रदं नित्यं बीजत्रयप्रकाशितम् ॥ १११ ॥

मोक्षैकहेतुमतुलं भुक्तिमुक्तिप्रदं नृणाम् ।
स्तुत्यं च साधनीयं च सर्वस्वं सारमुत्तमम् ॥ ११२ ॥

महामन्त्रमयं विद्यामयं विद्याप्रदं परम् ।
परब्रह्मस्वरूपं च साक्षादमृतरूपणम् ॥ ११३ ॥

अद्वैतरूपणं नाम्नां सहस्रं भैरवोदितम् ।
यः पठेत् पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ ११४ ॥

भक्त्या युतो महादेवि स भवेद्भैरवोपमः ।
शिवरात्र्यां च सङ्क्रान्तौ ग्रहणे जन्मवासरे ॥ ११५ ॥

भैरवस्य बलिं दत्त्वा मूलमन्त्रेण मान्त्रिकः ।
पठेन्नामसहस्रं च ज्वालामुख्याः सुदुर्लभम् ॥ ११६ ॥

अनन्तफलदं गोप्यं त्रिसन्ध्यं यः पठेत् सुधीः ।
अणिमादिविभूतीनामीयरो धार्मिको भवेत् ॥ ११७ ॥

अर्धरात्रे समुत्थाय शून्यगेहे पठेदिदम् ।
नाम्नां सहस्रकं दिव्यं त्रिवारं साधकोत्तमः ॥ ११८ ॥

कर्मणा मनसा वाचा ज्वालामुख्याः सुतो भवेत् ।
मध्याह्ने प्रत्यहं गत्वा प्रेतभूमि विधानवित् ॥ ११९ ॥

नरमांसवलिं दत्त्वा पठेत् सहस्रनामकम् ।
दिव्यदेहधरो भूत्वा विचरेद्भुवनत्रयम् ॥ १२० ॥

शनिवारे कुजेऽष्टम्यां पठेन्नामसहस्रकम् ।
दत्त्वा क्षीरबलिं तस्यै करस्थाः सर्वसिद्धयः ॥ १२१ ॥

विना नैवेद्यमात्रेण न रक्ष्यं साधकोत्तमैः ।
कुजवारे सदा देवि दत्त्वाऽऽसवबलिं नरः ॥ १२२ ॥ var दत्त्वासवबलिं
पठेत् साधक एवाशु लभेद् दर्शनमुत्तमम् ।
शनिवारे सदा विद्यां जप्त्वा दत्त्वा बलिं प्रिये ॥ १२३ ॥

कपोतस्य महेशानि पठेन्नामसहस्रकम् ।
तद्गृहे वर्धते लक्ष्मीर्गोकर्णमिव नित्यशः ॥ १२४ ॥

शतावर्तं चरेद्रात्रौ साधको दर्शनं लभेत् ।
वन्ध्या वा काकवन्ध्या वा कुङ्कुमेन लिखेदिदम् ॥ १२५ ॥

स्वस्तन्येन च शुक्रेण भूर्जे नामसहस्रकम् ।
गले वा वामबाहौ वा धारयेत् प्रत्यहं प्रिये ॥ १२६ ॥

वन्ध्याऽपि लभते पुत्रात्र्शूरान् विद्याधरोपमान् । var वन्ध्यापि
इदं धृत्वा सव्यबाहौ गत्वा रणधरां प्रति ॥ १२७ ॥

निर्जित्य शत्रुसङ्घातान् सुखी याति स्वकं गृहम् ।
वारत्रयं पठेन्नित्यं शत्रुनाशाय पार्वति ॥ १२८ ॥

बारद्वयं पठेल्लक्ष्म्यै मुक्त्यै तु शतधा पठेत् ।
वश्यार्थे दशधा नित्यं मारणार्थे च विंशतिम् ॥ १२९ ॥

स्तम्भनार्थे पठेन्नित्यं सप्तधा मान्त्रिकोत्तमः ।
भूम्यर्थे त्रिंशतिं देवि पठेन्नामसहस्रकम् ॥ १३० ॥

प्रत्यहमेकवारं तु मृतो मोक्षमवाप्नुयात् ।
अप्रकाश्यमदातव्यमवक्तव्यमभक्तिषु ॥ १३१ ॥

अशाक्तायाकुलीनाय कुपुत्राय दुरात्मने ।
गुरुभक्तिविहीनाय दीक्षाहीनाय पार्वति ॥ १३२ ॥

दत्त्वा कुष्ठी भवेल्लोके परत्र नरकं व्रजेत् ।
श्रद्धायुक्ताय भक्ताय साधकाय महात्मने ।
साचाराय सुशीलाय दत्त्वा मोक्षमवाप्नुयात् ॥ १३३ ॥

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये
श्रीज्वालामुखीसहस्रनामस्तोत्रं समाप्तम् ॥

Also Read 1000 Names of Shri Jwalamukhi:

1000 Names of Sri Jwalamukhi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Jwalamukhi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top