Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Nataraja Kunchithapadam Lyrics in Hindi

 Nataraja Kunchita Paada Sahasranama Stotram in Hindi:

॥ श्रीनटराजकुञ्चितपादसहस्रनामस्तोत्रम् ॥
॥ श्रीगुरुभ्यो नमः ॥

॥ श्रीशिवकामसुन्दरीसमेत श्रीनटराजः शरणम् ॥

यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् ।
इदं नमोनटेशाय तस्मै कारुपयर्द्ध्वये ॥ १ ॥

कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् ।
शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ २ ॥

विनयावनता भूत्वा पप्रच्छ परमेश्वरी ।
भगवन्! भव! सर्वज्ञ! भवतापहराव्यय ॥ ३ ॥

त्वत्तः श्रुतं मया देव! सर्वं नामसहस्रकम् ।
नटेशस्यापि नामानि सुश्रुतानि मया प्रभो! ॥ ४ ॥

त्वत्तः श्रेष्ठतमः पादः कुञ्चितः पद्मसन्निभः ।
तस्मात्तन्नाम साहस्रं श्रोतुमिच्छामि शङ्कर! ॥ ५ ॥

असकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि ।
इदानीं कृपया शम्भो! वद वाञ्छाभिपूर्तये ॥ ६ ॥

श्रीशिव उवाच
साधु साधु महादेवि! पृष्टं सर्वजगद्धितम् ।
पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ७ ॥

क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् ।
मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ८ ॥

तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् ।
ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ९ ॥

तुष्टाव विविधैस्त्वतोत्रैर्वेदवेदान्तसम्मितैः ।
वरं वरय हे वत्स! यदिष्टं मनसि स्थितम् ॥ १० ॥

तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः ।
प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ११ ॥

रक्षार्थं सर्वजगतामसुराणा क्षयाय च ।
सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १२ ॥

इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके ।
सञ्चिन्त्यानुत्तम स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ १३ ॥

नटेशकुञ्चिताङ्घ्रेस्तु नामसाहस्रमुत्तमम् ।
लक्षमीकान्ताय भक्ताय उक्तवानस्मि शङ्करि! ॥ १४ ॥

तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ।
सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः ॥ १५ ॥

तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ।
पठनान्मननाद्यस्य नृत्तं दर्शयति प्रभुः ॥ १६ ॥

सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् ॥ १७ ॥

वक्ष्यामि श‍ृणु हे देवि! नामसाहस्रमुत्तमम् ।

अस्य श्री शिवकामसुन्दरीसमेत श्री नटराजराजकुञ्चितपादसहस्रनामस्तोत्र
महामन्त्रस्य सदाशिव ऋषिः, महाविराट् छन्दः,
श्रीशिवकामसुन्दरीसमेतश्रीनटराजराजो देवता । बीजं, शक्तिः,कलिकं,
अङ्गन्यासकरन्यासौ च चिन्तामणि मन्त्रवत् ॥

ॐ श्रीशिवाय नमः इति बीजम् । ॐ अनन्तशक्तये नमः इति शक्तिः ।
महेश्वराय नमः इति कीलकम् । श्रीनटेश्वरप्रसादसिद्ध्यर्थे नामपरायणे
अर्चने विनियोगः ।
ॐ नम्याय नमः अङ्गुष्ठाभ्यां नमः । स्वाहा नमः -तर्जनीभ्यां स्वाहा
(नमः) ॐ वषट्काराय नमः -मध्यमाभ्यां वषट् (नमः) । ॐ हुङ्काराय
नमः -अनामिकाभ्यां हुं (नमः) ॐ वौषट्काराय नमः । कनिष्ठिकष्ठया
वौषट् (नमः) ॐ फट्काराय नमः – करतलकरपृष्ठाभ्यां फट् (नमः)
। ॐ नम्याय नमः – हृदयाय नमः । ॐ स्वाहा नमः शिरसे स्वाहा ।
ॐ वषट्काराय नमः – शिखायै वषट् । ॐ हुङ्काराय नमः – कवचाय
हुम् । ॐ वौषट्काराय नमः – नेत्रत्रयाय वौषट् । ॐ फट्कराय नमः –
अस्त्राय फट् । ॐ भृर्भुवस्सुवरों इति दिग्बन्धः ।

ध्यानम्
ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं
दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् ।
वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां
कल्हारां जपस्रक्षुकां कटिकरां देवीं सभेशं भणे ॥ १ ॥

फाले रत्नत्रिपुण्ड्रं फणिनमपि गले पादपीठे च भूतं
बाह्वोर्वह्निं च ढक्कं वदनसरसिजे सूर्यचन्द्रौ शिखीन्द्रम् ।
ओङ्काराख्यप्रभायां सुरभुवनगणं पार्श्वयोर्वाद्यकारौ यः
कृत्वाऽऽनन्दनृत्तं स्वसदसि कुरुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २ ॥

ऊरुन्याससुडोल – वह्रि – शुकभृद्वामं कराम्भोरुहं
ढक्काच्छाक्षस्रगुत्पलाभयकरं वामं पदं कुञ्चितम् ।
उद्धृत्याधरभूत पृष्ठविलसद्दक्षाङ्घ्रिमर्धाम्बिकं
सामीवस्त्रसुवेणिदृक्कुचभरं ध्यायेन्नटं मेलनम् ॥ ३ ॥

ध्यायेदात्मविमोहसंस्थितपदं रक्तांशुकं शङ्करं
किञ्चित्कुञ्चितवामपादमतुलं व्यालम्बबाहुं त्रिभिः ।
वामे पौण्ड्र धनुश्च पाशदहनौ दक्षे करे चाभयं
पौष्पं मार्गणमङ्कुशं डमरुकं बिभ्राणमच्छच्छविम् ॥ ४ ॥

॥ अथ सहस्रनामस्तोत्रम् ॥

अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः ।
अखण्डानन्दचिद्रूपः परमानन्दताण्डवः ॥ १ ॥

अगम्यमहिमाम्भोधिः अनौपम्ययशोनिधिः ।
अग्रेवधोऽग्रेसम्पूज्यो हन्ता तारो मयोभवः ॥ २ ॥

अघोरोऽद्बुतचारित्र आनन्दवपुरग्रणीः ।
अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ ३ ॥

अतर्क्यस्सुकरस्सारः सत्तामात्रस्सदाशिवः ।
अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिः स्वधा ॥

अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ।
अनर्घरत्नखचितकिरीटो निकटेस्थितः ॥ ५ ॥

अनहङ्कृतिरच्छेद्यस्स्वानन्दैकघनाकृतिः ।
अनावरणविज्ञानो निर्विभागो विभावसुः ॥ ६ ॥

अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ।
अनुत्तमः परोदासो मुक्तिदो मुदिताननः ॥ ७ ॥

अन्नानां पतिरत्युग्रो हरिध्येयोऽद्वयाकृतिः ।
अपरोक्षोऽव्रणोऽलिङ्गोऽप्यद्वेष्टा प्रेमसागरः ॥ ८ ॥

अपर्यन्तोऽपरिच्छेद्योऽगोचरो रुग्विमोचकः ।
अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ ९ ॥

अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः ।
अमानी मदनोऽमन्युरमानो मानदो मनुः ॥ १० ॥

अमूल्यमणिसभास्वत्फणीन्द्रकरकङ्कणः ।
अरुणः शरणः शर्वः शरण्य शर्मदः शिवः ॥ ११ ॥

अवशस्स्ववशस्स्थास्नुरन्तर्यामी शतक्रतुः ।
अशुभक्षयकृज्ज्योतिरनाकाशस्त्वलेपकः ॥ १२ ॥

अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः
अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ १३ ॥

आततावी महारुद्रः क्षेत्राणामधिपोऽक्षदः ।
आतन्वानश्शतानन्दो गृत्सो गृत्सपतिस्मृरः ॥ १४ ॥

आदित्यवर्णस्सञ्ज्योतिस्सम्यग्दर्शनतत्परः ।
आदिभूतो महाभूतस्स्वेच्छाकलितविग्रहः ॥ १५ ॥

आप्तकामोऽनुमन्ताऽऽत्मकामोऽभिन्नोऽनणुर्हरः ।
आभास्वरः परन्तत्वमादिमः पेशलः पविः ॥ १६ ॥

आव्याधिपतिरादित्यः ककुभः कालकोविदः ।
इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ॥ १७ ॥

उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः ।
उदासीनौपद्रष्टा मौनगम्यो मुनीश्वरः ॥ १८ ॥

ऊर्ध्वपादूर्ध्वरेताश्च प्रौढनर्तनलम्पटः ।
ओषधीशस्सतामीशौच्चैर्घोषो विभीषणः ॥ १९ ॥

कन्दर्प कोटिसदृशः कपर्दी कमलाननः ।
कपालमालाभरणाः कङ्कालः कलिनाशनः ॥ २० ॥

कपालमालालङ्कारः कालान्तकवपुर्धरः ।
कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ २१ ॥

कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः ।
कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ २२ ॥

करिचर्माम्बरधरः कपाली कलुषापहः ।
कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ २३ ॥

कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ।
कालकण्ठः कालकालः कालकूटविषाशनः ॥ २४ ॥

कालनेता कालहन्ता कालचक्रप्रवर्तकः ।
कालज्ञः कामदः कान्तः कामारिः कामपालकः ॥ २५ ॥

कालात्मा कालिकानाथः कार्कोटकविभूषणः ।
कालिकानाट्यरसिको निशानटननिश्चलः ॥ २६ ॥

कालीवादप्रियः कालः कालातीतः कलाधरः ।
कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ २७ ॥

कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः ।
कूटस्थः कूर्मपीठस्थः कूश्माण्डग्रहमोचकः ॥ २८ ॥

कूलङ्कषकृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ २९ ॥

कृताकृतः कृशः कृष्णाः शान्तिदः शरभाकृतिः ।
कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ३० ॥

केवलः केशवः केलीकरः केवलनायकः ।
कैलासवासी कामेशः कविः कपटवर्जितः ॥ ३१ ॥

कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ ३२ ॥

गर्वितो गगनावासो ग्रन्थित्रय विभेदनः ।
गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ ३३ ॥

गायको गरुडारूढो गजासुरविमर्दनः ।
गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः ॥ ३४ ॥

गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ।
गूढो गुह्यतरो गोप्यो गोरक्षी गणसेवितः ॥ ३५ ॥

चतुर्भुजश्शततनुः शमिताखिल कौतुकः ।
चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परन्तप ॥ ३६ ॥

चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डरः ।
चिदानन्दनटाधीशः चित्केवलवपुर्धरः ॥ ३७ ॥

चिदेकरससम्पूर्णः ह्रीं शिवश्श्रीमहेश्वरः ।
चैतन्यं चिच्छिद्वैतश्चिन्मात्रश्चित्सभाधिपः ॥ ३८ ॥

जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ ३९ ॥

जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः ।
जवनो जगदाधारो जमदग्निर्जराहरः ॥ ४० ॥

जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ।
णान्तनादिनामयुक्तविष्णुनम्यपदाम्बुजः ॥ ४१ ॥

तत्वावबोधस्तत्वेशस्तत्वभावस्तपोनिधिः ॥

तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्वबोधकः ।
त्रिधामा त्रिज्जगद्धेतुः त्रिमूर्तिस्तिर्यगूर्ध्वगः ॥ ४२ ॥

त्रिमातृकस्त्रिवृद्रूपः तृतीयस्त्रिगुणाधिकः ।
दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४३ ॥

दक्षिणाग्निर्गार्हपत्यो दमनो दानवान्तकः ।
दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः ॥ ४४ ॥

दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ।
दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः ॥ ४५ ॥

दैव्यो भिषक् प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः ।
द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् ॥ ४६ ॥

धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः ।
धूष्णुर्दूतस्तीक्ष्णदम्ष्ट्रस्सुधन्वा सुतदः सुखी ॥ ४७ ॥

ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ।
नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो गुरुः ॥ ४८ ॥

नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् ।
नमदानन्ददो नम्यो नगराजनिकेतनः ॥ ४९ ॥

नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः ।
निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ५० ॥

निरङ्कुशो निराधारो निरपायो निरत्ययः ।
निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः ॥ ५१ ॥

निरंशो निगमानन्दो निरानन्दो निदानभूः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ५२ ॥

निर्विकल्पो निरालम्बो निर्विकारो निरामयः ।
निषङ्गीषुधिमानिन्द्रस्तस्कराणामधीश्वरः ॥ ५३ ॥

निस्पन्दः प्रत्ययानन्दो निर्निमेषो निरन्तरः ।
नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः ॥ ५४ ॥

पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ।
पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः ॥ ५५ ॥

पतञ्जलिप्राणनाश्च परापरविवर्जितः ।
पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ ५६ ॥

पत्तीनामधिपः कृत्स्नवीतो धावंश्च सत्त्वपः ।
परमात्मा परं ज्योतिः परमेष्ठी परात्परः ॥ ५७ ॥

पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः ।
पवित्रः पार्वतीदारः परमापन्निवारकः ॥ ५८ ॥

पाटलाम्शुः पटुतरः पारिजातद्रुमूलगः ।
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ ५९ ॥

पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः ।
पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः ॥ ६० ॥

पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।
पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ६१ ॥

पुलस्त्यः क्षयणो गृह्यो गोष्ठ्यो गोपरिपालकः ।
पुष्टानां पतिरव्यग्रो भवहेतिर्जगत्पतिः ॥ ६२ ॥

प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी ।
प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ६३ ॥

प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ६४ ॥

प्रमाणः प्रणवः प्राज्ञः प्राणदः प्राणनायकः ।
प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ ६५ ॥

बभ्रुर्बहुविधाकारो बलप्रमथनो बली ।
बभ्रुशो भगवान्भाव्यो विव्याधी विगतज्वरः ॥ ६६ ॥

बिल्मी वरूथी दुन्दुभ्याहनन्यौ प्रमृशाभिधः ।
ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः ॥ ६७ ॥

ब्रह्मविद्याप्रदो ब्रह्म बृहद्गर्भो बृहस्पतिः ।
ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः ॥ ६८ ॥

ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मण्यो ब्रह्मचेतनः ।
भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः ॥ ६९ ॥

भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ।
भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः ॥ ७० ॥

भावाभावविनिर्मुक्तो भारूपो भावितो भरः ।
भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ॥ ७१ ॥

भूमा भूतपतिर्भव्यो भूर्भुवोव्याहृतिप्रियः ।
भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् ॥ ७२ ॥

भ्राजिष्णुर्भावनागम्यो भ्रान्तिज्ञानविनाशनः ।
मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ७३ ॥

मनोभर्ता मनोगम्यो मननैकपरायणः ।
मनोवचोभिरग्राह्यो महाबिलकृतालयः ॥ ७४ ॥

मयस्करो महातिर्थ्यः कूल्यः पार्यः पदात्मकः ।
महर्द्धिर्महिमाधारो महासेनगुरुर्महः ॥ ७५ ॥

महाकर्ता महाभोक्ता महासंविन्मयो मधुः ।
महातात्पर्यनिलयः प्रत्यग्ब्रह्मैक्यनिश्चयः ॥ ७६ ॥

महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः ।
महामायो महाग्रासो महावीर्यो महाभुजः ॥ ७७ ॥

महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ।
माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् ॥ ७८ ॥

मायानाटककृन्मायी मायायन्त्रविमोचकः ।
मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ ७९ ॥

मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः ।
मुनिरातार्य आलाद्यः सिकत्यश्च किँशिलः ॥ ८० ॥

मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ।
यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ८१ ॥

यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः ।
योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ८२ ॥

योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
रविमण्डलमध्यस्थो रजोगुणविवर्जितः ॥ ८३ ॥

राजराजेश्वरो रम्यो रात्रिञ्चर विनाशनः ।
रातिर्दातिश्चतुष्पादः स्वात्मबन्धहरः स्वभूः ॥ ८४ ॥

रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः ।
रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः ॥ ८५ ॥

लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ।
वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ ८६ ॥

वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ।
वशी वरेण्यो विततो वज्रभृद्वरुणात्मकः ॥ ८७ ॥

वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ।
वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः ॥ ८८ ॥

विकाररहितो विष्णुर्विराडीशो विराण्मयः ।
विघ्नेश्वरो विघ्ननेता शक्तिपाणिः शरोद्भवः ॥ ८९ ॥

विजिघत्सो विगतभीर्विपिपासो विभावना ।
विदग्धमुग्धवेषाड्यो विश्वातीतो विशोकदः ॥ ९० ॥

विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ।
विद्युत्यो विवहो मेध्यो रेष्मियो वास्तुपो वासः ॥ ९१ ॥

विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ ९२ ॥

विराठृदयपद्मस्थो विधिर्विश्वाधिको विभुः ।
विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः ॥ ९३ ॥

विश्रान्तिभूर्विवसनो विघ्नहन्ता विनोदकः ।
विश‍ृङ्खलो वियद्धेतुर्विषमो विद्रुमप्रभः ॥ ९४ ॥

विश्वस्यायतनो वर्यो वन्दारुजनवत्सल ।
विज्ञानमात्रो विरजा विरामो विबुधाश्रय ॥ ९५ ॥

वीरप्रियो वीतभयो विन्ध्यदर्पविनाशन ।
वीरभद्रो विशालाक्षो विष्णुबाणो विशां पतिः ॥ ९६ ॥

वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्ववञ्चकः ।
वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः ॥ ९७ ॥

वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः ।
वेदान्तकृत्तुर्यपादो वैद्युतः सुकृतोद् भवः ॥ ९८ ॥

वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ।
वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ ९९ ॥

वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः ।
वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः ॥ १०० ॥

वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १०१ ॥

व्याघ्रपादप्रियो व्याघ्रचर्मधृद्वयाधिनाशनः ।
व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः ॥ १०२ ॥

व्युप्तकेशोऽथ विशदो विष्वक्सेनो विशोधकः ।
व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १०३ ॥

व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी ।
शक्तिपातकरः शक्तः शाश्वतः श्रेयसां निधिः ॥ १०४ ॥

शयानः शन्तमः शान्तः शासकः श्यामलाप्रियः ।
शिवङ्करः शिवतरः शिष्टहृष्टः शिवागमः ॥ १०५ ॥

शीघ्रियश्शीभ्य आनन्दः क्षयद्वीरश्शरोऽक्षरः ।
शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः ॥ १०६ ॥

शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ।
शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः ॥ १०७ ॥

शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः ।
श्राव्यः शत्रुहरः शूली श्रुतिस्मृतिविधायकः ॥ १०८ ॥

श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः ।
श्रुत्यः पथ्यस्स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ १०९ ॥

षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११० ॥

सकृद्विभातः संवेत्ता सदसत्कोटिवर्जितः ।
सत्त्वसंस्थः सुषुप्तिस्थः सुतल्पः सत्स्वरूपगः ॥ १११ ॥

सद्योजातः सदाराध्यः सामगः सामसंस्तुतः ।
सनातनः समः सत्यः सत्यवादी समृद्धिदः ॥ ११२ ॥

समदृष्टिः सत्यकामः सनकादिमुनिस्तुतः ।
समस्तभुवनव्यापी समृद्धः सततोदितः ॥ ११३ ॥

सर्वकृत्सर्वजित्सर्वमयः सत्वावलम्बकः ।
सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः ॥ ११४ ॥

सर्वदृक् सर्वभृत्सर्गः सर्वहृत्कोशसंस्थितः ।
सर्वप्रियतमः सर्वदारिद्र्यक्लेशनाशनः ॥ ११५ ॥

सर्वविद्यानामीशान ईश्वराणामधीश्वरः ।
सर्वज्ञः सर्वदः स्थाणुः सर्वेशः समरप्रियः ॥ ११६ ॥

सर्वातीतः सारतरः साम्बः सारस्वतप्रदः ।
सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः ॥ ११७ ॥

सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ।
सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ ११८ ॥

सस्पिञ्जरः पशुपतिस्त्विषीमानध्वनां पतिः ।
सहमानस्सत्यधर्मा निव्याधी नियमो यमः ॥ ११९ ॥

सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ।
सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः ॥ १२० ॥

सिद्धेशः सिद्धिजनकः सिद्धान्तः सिद्धवैभवः ।
सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः ॥ १२१ ॥

सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः ।
सुव्रतः सत्यसङ्कल्पः स्वसंवेद्यः सुखावहः ॥ १२२ ॥

सूतः सदस्पतिः सूरिरहन्त्यो वनपो वरः ।
सूत्रभूतः स्वप्रकाशः समशीलः सदादयः ॥ १२३ ॥

सूत्रात्मा सुलभः स्वच्छः सूदरः सुन्दराननः ।
सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्योटचोऽथ वर्षकः ॥ १२४ ॥

सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः ।
सृकावी मुष्णतां नाथः पञ्चाशद्वर्णरूपभृत् ॥ १२५ ॥

सोममण्डलमध्यस्थः सोमः सौम्यः सुहृद्वरः ।
सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२६ ॥

सम्पन्नः सङ्क्रमः सत्री सन्दाता सकलोर्जितः ।
सम्प्रवृद्धः सन्निकृष्टः संविमृष्टः समग्रदृक् ॥ १२७ ॥

सम्प्रहृष्टः सन्निविष्टः संस्पष्टः सम्प्रमर्दनः ।
संयद्वामः संयमीन्द्रः संशयच्छित् सहस्रदृक् ॥ १२८ ॥

संयमस्थः संहृदिस्थः सम्प्रविष्टः समुत्सुकः ।
संवत्सरः कलापूर्णस्सुरासुरनमस्कृतः ॥ १२९ ॥

संवर्ताग्न्युदरः सर्वान्तरस्थस्सर्वदुर्ग्रहः ।
संशान्तसर्वसङ्कल्पः संसदीशः सदोदितः ॥ १३० ॥

स्फुरङ्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ।
स्वच्छन्दः स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमतः ॥ १३१ ॥

स्वात्मस्थः स्वायुधः स्वामी स्वानन्यः स्वांशिताखिलः ।
स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः ॥ १३२ ॥

हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाशयः ।
हिरण्यबाहुस्सेनानीर्हरिकेशो दिशाम्पतिः ॥ १३३ ॥

हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः ।
हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ॥ १३४ ॥

हेलाविनिर्मितजगद्धेमश्वश्रुर्हिरण्मयः ।
ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽभासकः ॥ १३५ ॥

उत्तर पीठिका ।
इति कुञ्चितपादस्य नटराजस्य सुन्दरम् ।
नाम्नां सहस्रं सम्प्रोक्तं मया देवि त्वदादरात् ॥ १ ॥

सर्वमन्त्रमयं ह्येतत् न प्रकाश्यं कदाचन ।
सच्छिष्याय विनीताय भक्ताय नटनायके ॥ २ ॥

कराङ्गन्याससंयुक्तं प्रोक्तव्यं ध्यानसंयुतम् ।
कन्यार्थी लभते कन्यां धनार्थी धनमाप्नुयात् ॥ ३ ॥

विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
यद्यत् प्रार्थयते मर्त्यः तत्सर्वं लभते धुवम् ॥ ४ ॥

सर्वसिद्धिकरं पुण्यं सर्वविद्याविवर्द्धनम् ।
सर्वसम्पत्प्रदमिदं सर्वापद्घ्नमघापहम् ॥ ५ ॥

आभिचारप्रयोगादिमहाकृत्यानिवारणम् ।
अपस्मारमहाव्याधिज्वरकुष्ठादिनाशनम् ॥ ६ ॥

अत्युत्पातभयक्षोभक्षुद्रवारणकारणम् ।
कूश्माण्डरुद्रवेतालशाकिन्यादिभयापहम् ॥ ७ ॥

स्मरणादेव जन्तूनां ब्रह्महत्यादिनाशनम् ।
अस्मात्परतरं स्तोत्रं नास्ति लोकत्रयेऽम्बिके ॥ ८ ॥

एतन्नामसहस्रस्य पठनात्सकृदेव हि ।
महापातकयुक्तोऽपि शिवसायुज्यमाप्नुयात् ॥ ९ ॥

प्रयोगलक्षणं वक्ष्ये श‍ृणु शैलसुतेऽधुना ।
पञ्चम्यामथवाष्टम्यां दशम्यां वा विशेषतः ॥ १० ॥

स्नात्वा शुभासने स्थित्वा ध्यायन् श्रीनटनायकम् ।
प्रजपेत्द्वादशावृत्या सर्वान्कामानवाप्नुयात् ॥ ११ ॥

आर्द्रायां प्रातरारभ्य नटनाथस्य सन्निधौ ।
आसायं प्रजपेदेतत् एवं संवत्सरत्रयम् ॥ १२ ॥

तस्य भक्तस्य देवेशः नटनं दर्शयेत्प्रभुः ।
बिल्ववृक्षस्य निकटे प्रदोषे प्रजपेदिदम् ॥ १३ ॥

षड्भिर्मासैमहैश्वर्यं लभते नचिरान्नरः ।
अनेन स्तोत्रराजेन मन्त्रितं भस्म धारयेत् ॥ १४ ॥

भस्मावलोकनान्मृत्युर्वश्यो भवति तत्क्षणात् ।
सलिलं प्राशयेद्धीमान्मन्त्रेणानेन मन्त्रितम् ॥ १५ ॥

सर्वविद्यामयो भूत्वा व्याकरोत्यश्रुतादिकम् ।
नाटकादिमहाग्रन्थं कुरुते नात्र संशयः ॥ १६ ॥

चतुर्थ्यन्तं समुच्चार्य नामैकं तु ततो जपेत् ।
पञ्चाक्षरं तथा नाम्रा सहस्रं प्रजपेत्क्रमात् ॥ १७ ॥

एवं त्रिवारं मासानां अष्टाविंशतिके गते ।
निग्रहानुग्रहौ कर्तुं शक्तिरस्योपजायते ॥ १८ ॥

नाम्नामादौ तथान्ते च पञ्चाक्षरमहामनुम् ।
जप्त्वा मध्यस्थितं नाम निर्नमोन्तं सदाऽसकृत् ॥ १९ ॥

चतुर्थ्यन्तं जपेद्धीमान् त्रिवर्षं च त्रिवारकैः ।
अणिमादिमहासिद्धिमचिरात्प्राप्नुयाद्ध्रुवम् ॥ २० ॥

सर्वेष्वपि च लोकेषु सिद्धस्सन्नाचरेन्नरः ।
लक्ष्मीबीजद्वयक्षिप्तमाद्यन्ते नाम यश्शिवे ॥ २१ ॥

वाञ्छितां श्रियमाप्नोति सत्यमुक्तं वरानने ।
हृल्लेखामन्त्रसंयुक्तं पूर्ववत्संयुतं जपेत् ॥ २२ ॥

योगसिद्धिर्भवेत्तस्य त्रिचतुः पञ्चवत्सरैः ।
किमत्र बहुनोक्तेन या या सिद्धिरभीप्सिता ॥ २३ ॥

सा सा सिद्धिर्भवेदस्य सत्यमेव मयोदितम् ।
कण्ठदघ्नजले स्थित्वा त्रिवारं प्रजपेदिदम् ॥ २४ ॥

रिपूनुच्चाटयेच्छीघ्रमेकेनैव दिनेन सः ।
दक्षिणाभिमुखो भूत्वा धृत्वार्द्रवसनं शुचिः ॥ २५ ॥

शत्रुनाम समुच्चार्य मारयेति पदाङ्कितम् ।
पठेदिमं स्तवं क्रोधात्सप्तकृत्वः त्रिभिर्दिनैः ॥ २६ ॥

स रिपुर्मृत्युगेहस्य धुवमातिथ्यभाग्भवेत् ।
हरिद्रया नटाधीशं कृत्वा प्राणान्प्रतिष्ठिपेत् ॥ २७ ॥

पीतपुष्पैस्समभ्यर्च्य स्तोत्रमेतज्जपेन्नरः ।
स्तम्भयेत्सकलान् लोकान् किमिह क्षुद्रमानुषान् ॥ २८ ॥

आकर्षणाय सर्वेषामुत्तराभिमुखो जपेत् ।
वाञ्छिताः योषितस्सर्वास्तथा लोकान्तरस्थिताः ॥ २९ ॥

यक्षाश्च किन्नराश्चापि राजानो वशमाप्नुयुः ।
कुम्भस्थितं जलं स्पृष्ट्वा त्रिवारं प्रजपेदिदम् ॥ ३० ॥

महाग्रहगणग्रस्तानभिषेकं तु कारयेत् ।
जलदर्शनमात्रेण मुच्यते च ग्रहादिभिः ॥ ३१ ॥

अकारादिज्ञकारान्तनामग्रथितमुत्तमम् ।
स्तोत्रमेतज्जपित्वा च पठित्वा श्रियमाप्नुयात् ॥ ३२ ॥

पूजयित्वा नामभिश्च नटेशप्रीतिभाग्भवेत् ।
किमत्र बहुनोक्तेन सिद्ध्यन्त्यखिलसिद्धयः ॥ ३३ ॥

साक्षान्नटेश्वरो देवो वश्यो भवति शैलजे ।
अस्मात्परतरा सिद्धिः का वास्ति कथय प्रिये ॥ ३४ ॥

निष्कामस्त्वचिरादेव ब्रह्मज्ञानमवाप्नुयात् ।
तस्मात्सर्वप्रयत्नेन यतिभिर्ब्रह्मचारिभिः ॥ ३५ ॥

वनस्थैश्च गृहस्थैश्च सर्वैर्जप्यं प्रयत्नतः ।
नित्यकर्मवदेवेदं स्तोत्रं जप्यं सदादरात् ॥ ३६ ॥

ब्रह्मादयोऽपि यन्नामपाठस्यैव प्रसादतः ।
सृष्टिस्थित्यन्तकर्तारो जगतां चिरजीविनः ॥ ३७ ॥

अन्ये च मुनयस्सर्वे हयग्रीवादयः पुरा ।
पठित्वा परमां सिद्धिं पुनरावृत्तिवर्जिताम् ॥ ३८ ॥

लेभिरे तदिदं स्तोत्रं पठ त्वमपि शैलजे ।
अस्मात्परतरं वेद्यं नास्ति सत्यं मयोदितम् ॥ ३९ ॥

॥ श्रीभृङ्गिरिटि संहितायां श्रीशिवकामसुन्दरीसमेत श्री
नटराजराज कुञ्चितपादसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ शिवम् ॥

ततः चिन्तामणिमन्त्रेण अङ्गन्यासं, ध्यायेत्कोटि रविप्रभमिति
फालेरत्नत्रिपुण्ड्रं इति ध्यानं लं पृथिव्यात्मन
इति पञ्च पूजां च कुर्यात् ।
भूर्भुवस्सुवरोमिति दिक्विमोकः इति तु विशेषः ।
चिन्तामणि मन्त्रः सनियमं गुरूपदेशात् ज्ञेयः ॥

यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणान्नित्यं सर्वतो जयमङ्गलम् ॥

॥ महोत्सवयात्राक्रमः ॥

मञ्चे चन्द्रार्कभूतेष्वपि वृषगजराड्राजताद्रिष्वथाश्वैः
सोमास्कन्दस्वरूपस्स्वयमुरुनयने गोरथे मार्गणो यः ।
स्थित्वा ब्रह्मोत्सवेषु त्रिषु च नटपतिः प्रत्यहं वीथियात्रां
कृत्वा स्नात्वा सह स्वं प्रविशति शिवया कुञ्चिताङ्घ्रिं भज्येऽहम् ॥

मङ्गलं चित्सभेशाय महनीयगुणात्मने ।
चक्रवर्तिनुताय श्रीनटराजाय मङ्गलम् ॥

॥ नटराजराजः शुभमातनोतु ॥

Also Read:

1000 Names of Sri Nataraja Kunchithapadam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Nataraja Kunchithapadam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top