Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Renuka | Sahasranama Stotram Lyrics in Hindi

Shri Renuka Sahasranamastotram Lyrics in Hindi:

॥ श्रीरेणुकासहस्रनामस्तोत्रम् ॥

अथ श्रीरेणुकातन्त्रान्तर्गतं श्रीरेणुकासहस्रनामस्तोत्रम् ।

श्री गणेशाय नमः । श्री रेणुकायै नमः ।
गिरिपृष्ठे समासीनं शङ्करं लोकशङ्करम् ।
प्रणतः परिपप्रच्छ संशयस्थः षडाननः ॥ १ ॥

स्कन्द उवाच —

तात सर्वेश्वरस्त्वं हि सर्वज्ञः सर्वभावनः ।
कथयस्व प्रसादेन रहस्यं सकलार्थदम् ॥ २ ॥

विजयः सङ्कटे घोरे निर्विघ्नं बलमुत्कटम् ।
अन्येऽपि वाञ्छितार्थाश्च सिद्ध्यन्त्याशु विना श्रमम् ॥ ३ ॥

शङ्कर उवाच —

साधु पृष्टं महाबाहो संशयो मास्तु मास्तु ते ।
यदनुष्ठानमात्रेण सर्वान्कामानवाप्स्यसि ॥ ४ ॥

कस्यचिन्नयदाख्यातं तद्रहस्यं वदाम्यहम् ।
स्तोत्रं सहस्रनामाख्यं रेणुकायास्तु सिद्धिदम् ॥ ५ ॥

सद्यः प्रत्ययकामस्त्वं श‍ृणु षण्मुख भक्तितः ।
सर्वदेवाश्च वेदाश्चक्षीणवीर्या युगे युगे ॥ ६ ॥

अक्षीणफलदात्रीयं त्रिसत्यं मम भाषितम् ।
सर्वदेवमयी देवी रेणुका कामदार्चिता ॥ ७ ॥

पुरदाहे मया ध्याता तथैव गरलाशने ।
विष्णुना सागरोन्माथे ब्रह्मणा सृष्टिकर्मणि ॥ ८ ॥

गोत्रभेदे मघवता जगती धारणेऽहिना ।
कामेन शम्बरवधे रत्या तत्प्राप्तये पुनः ॥ ९ ॥

गणाधीशेन सततं विघ्नवारणकर्मणि ।
किं वत्स बहुनोक्तेन हैमवत्या मदाख्यया ॥ १० ॥

ध्यात्वा सर्वार्थदा सा हि सर्वलोकैकसंश्रया ।
महत्कार्योद्यतैरन्यैर्बहुभिश्चिन्तिता शिवा ॥ ११ ॥

धर्मार्थकाममोक्षार्थमवाङ्मनसगोचरा ।
तस्या एव प्रसादात्तां स्तौमि नामावलिच्छलात् ॥ १२ ॥

ऋष्यादिकं च सङ्क्षेपात्कथयामि षडानन ।
त्र्यम्बकश्च ऋषिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥ १३ ॥

एकवीरा महामाया रेणुका दैवतं स्मृतम् ।
सर्वपापक्षयद्वारा प्रीत्यै देव्या मुहुर्मुहुः ॥ १४ ॥

सर्वाभीष्टफलप्राप्तौ विनियोग उदाहृतः ।
रेणुका राममातेति महापुरनिवासिनी ॥ १५ ॥

एकवीरा कालरात्रिरेकला नामभिः क्रमात्
अङ्गुष्ठादि करन्यासो हृदयादि षडङ्गकम् ।
चतुर्थ्यन्तैर्नमोन्तैश्च प्रणवादिभिराचरेत् ॥ १६ ॥

अस्य श्री रेणुका सहस्रनामस्तोत्रमन्त्रस्य त्र्यम्बक ऋषिः
श्रीरेणुका देवता । अनुष्टुप्छन्दः । सर्वपापक्षयद्वारा
श्री जगदम्बा रेणुका प्रीत्यर्थं सर्वाभीष्टफलप्राप्त्यर्थं
च जपे विनियोगः ।
अथ न्यासः – श्रीरेणुकायै नमः अङ्गुष्ठाभ्यां नमः ।
ॐ राममात्रे नमः तर्जनीभ्यां नमः ।
ॐ महापुरवासिन्यै नमः मध्यमाभ्यां नमः ।
ॐ एकवीरायै नमः अनामिकाभ्यां नमः ।
ॐ कालरात्र्यै नमः कनिष्ठिकाभ्यां नमः ।
ॐ एकलायै नमः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि- ॐ रेणुकायै नमः हृदयाय नमः ।
ॐ राममात्रे नमः शिरसे स्वाहा ।
ॐ महापुरवासिन्यै नमः शिखायै वषट् ।
ॐ एकवीरायै नमः कवचाय हुं ।
ॐ कालरात्र्यै नमः नेत्रत्रयाय वौषट् ।
ॐ एकलायै नमः अस्त्राय फट् ।

ध्यानम् —

ध्यायेन्नित्यमपूर्ववेषललितां कन्दर्पलावण्यदां
देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ।
लीलाविग्रहिणीं विराजितभुजां सच्चन्द्रहासादिभि-
र्भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥ १७ ॥

ॐ रेणुका रामजननी जमदग्निप्रिया सती ।
एकवीरा महामाया कालरात्रिः शिवात्मिका ॥ १८ ॥

महामोहा महादीप्तिः सिद्धविद्या सरस्वती ।
योगिनी चन्द्रिकासिद्धा सिद्धलक्ष्मीः शिवप्रिया ॥ १९ ॥

कामदा कामजननी मातृका मन्त्रसिद्धिदा ।
मन्त्रसिद्धिर्महालक्ष्मी मातृमण्डलवल्लभा ॥ २० ॥

चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिः शुचिस्मिता ।
योगेश्वरी योगनिद्रा योगदात्री प्रभावती ॥ २१ ॥

अनाद्यन्तस्वरूपा श्रीः क्रोधरूपा महागतिः ।
मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसना रसा ॥ २२ ॥

मातृका पतिरुत्क्रोशा चण्डहासा महावरा ।
महावीरा महाशूरा महाचापा रथस्थिता ॥ २३ ॥

बर्हिपत्रप्रिया तन्वी बर्हिपत्रा चतुर्भुजा ।
नादप्रिया नादलुब्धा त्र्यक्षरा मृतजीवनी ॥ २४ ॥

अमृतामृतपानेष्टा सिन्धुपा पात्रशालिनी ।
चण्डहासधरा शूरा वीरा डमरुमालिनी ॥ २५ ॥

शिरोधरा पात्रकरा वरदा वरवर्णिनी ।
त्रिमूर्तिर्वेदजननी वेदविद्या तपोनिधिः ॥ २६ ॥

तपोयुक्ता तपोलक्ष्मीस्तपसः सिद्धिदापरा ।
ललिता सात्विकी शान्ता राजसी रक्तदन्तिका ॥ २७ ॥

एकला रेणुतनया कामाक्षी सत्परायणा ।
ऐन्द्री माहेश्वरी ब्राह्मी वैष्णवी वडवानला ॥ २८ ॥

कावेरी घनदा याम्या याम्याग्नेयी तनुर्निशा ।
ईशानी नैऋतिः सौम्या माहेन्द्री वारुणी समा ॥ २९ ॥

सर्वर्षिध्येयचरणा नृवारणा नरवल्लभा ।
भिल्लीवेषधरा भिल्लीवर्वरालक मण्डिता ॥ ३० ॥

श‍ृङ्गीवादन सुरसा गुञ्जाहार विभूषणा ।
मयूर पिच्छाभरणा श्यामा नीलाम्बरा शिवा ॥ ३१ ॥

कालिका रेणुदुहिता शिवपूज्या प्रियंवदा ।
सृष्टिकृत् स्थितिकृत्क्रुद्धा पृथ्वी नारदसेविता ॥ ३२ ॥

संहारकारिणीन्द्राक्षी रक्षोघ्नी चन्द्रशेखरा ।
हुं फट् वौषट् वषड्रूपा स्वधा स्वाहा नमो मनुः ॥ ३३ ॥

सुषुप्तिर्जाग्रतिर्निद्रा स्वप्ना तुर्या च चक्रिणी ।
तारा मन्दोदरी सीताऽहल्याऽरुन्धतिका दितिः ॥ ३४ ॥

भगीरथी च कावेरी गौतमी नर्मदा मही ।
सरयूर्गौतमी भीमा त्रिवेणी गण्डकी सरी ॥ ३५ ॥

मानसं चन्द्रभागा च रेवा गङ्गा च वेदिका ।
हरिद्वारं मातृपुरं दत्तात्रेयनिवासभूः ॥ ३६ ॥

मातृस्थादिसंस्थाना मातृमण्डलमण्डिता ।
मातृमण्डलसम्पूज्या मातृमण्डलमध्यगा ॥ ३७ ॥

नानास्थानावताराद्या नानास्थानचरित्रकृत् ।
कमला तुलजात्रेयी कोह्लापुरनिवासिनी ॥ ३८ ॥

मन्दाकिनी भोगवती दत्तात्रेयानुसूयका ।
षट्चक्रदेवता पिङ्गा जमदग्नीश्वरार्द्धहृत् ॥ ३९ ॥

इडाख्या च सुषुम्नाख्या चन्द्रसूर्यगतिर्वियत् ।
चन्द्रसूर्यसमाख्याता सर्वस्त्रीनिलयाध्वनिः ॥ ४० ॥

समस्तविद्यातत्त्वज्ञा सर्वरूपा सुखाश्रया ।
पुण्यपापेश्वरी कीर्तिर्भोक्त्री भोगप्रवर्तिनी ॥ ४१ ॥

जमदग्न्यस्य जननी कविशक्तिः कवित्वदा ।
ह्रीङ्काराम्बा तमोरूपा क्लीङ्कारा कामदायिनी ॥ ४२ ॥

वाक्प्रदैङ्काररूपा च मुक्तिदौङ्काररूपिणी ।
श्रीङ्काराखिलदानोक्ता सर्वबीजात्मिकात्मभूः ॥ ४३ ॥

जमदग्नि शिवाङ्कस्था धर्मार्थकाममोक्षदा ।
जमदग्निक्रोधहरा जमदग्निवचःकरी ॥ ४४ ॥

जमदग्नितमोहन्त्री जमदग्निसुखैकभूः ।
जितवीरा वीरमाता वीरभूर्वीरसेविता ॥ ४५ ॥

वीरदीक्षाकरी सौर्यदीक्षिता सर्वमङ्गला ।
कात्यायनी परीवारा कालकाला कलानिधिः ॥ ४६ ॥

अष्टसिद्धिप्रदा क्रूरा क्रूरग्रहविनाशिनी ।
साकारा च निराकाराहङ्काराकारणा कृतिः ॥ ४७ ॥

सम्मता विषमघ्नी च विषहन्त्री विषाशना ।
व्यालाभरणसंहृष्टा व्यालमण्डनमण्डिता ॥ ४८ ॥

अणुरूपा पराणुश्च सद्रूपा च महापरा ।
ह्रस्वा ह्रस्वपरा दीर्घा परदीर्घा परात्परा ॥ ४९ ॥

अद्वयाद्वयरूपा च प्रपञ्चरहिता पृथुः ।
स्थूलसूक्ष्मा निरीहा च स्नेहाञ्जनविवर्जिता ॥ ५० ॥

ब्रह्मसूता महानिद्रा योगनिद्रा हरिस्तुता ।
हिरण्यगर्भरूपा च परब्रह्मस्वरूपिणी ॥ ५१ ॥

ब्रह्मशक्तिर्ब्रह्मविद्या विश्वबीजा निरञ्जना ।
अतुला कर्मरूपा च श्यामला परिघायुधा ॥ ५२ ॥

नारायणी विष्णुशक्तिः अवाङ्मनसगोचरा ।
घृतमारी पुण्यकरी पुण्यशक्तिरमाम्बिका ॥ ५३ ॥

रक्तबीजवधोद्रिक्ता रक्तचन्दनचर्चिता ।
सुरक्तपुष्पाभरणा रक्तदंष्ट्राभयप्रदा ॥ ५४ ॥

तीक्ष्णरक्तनखारक्ता निशुम्भप्राणकृन्तिनी ।
शुम्भप्राणनिहन्त्री च महामृत्युविनाशिनी ॥ ५५ ॥

सर्वदेवमहाशक्तिर्महालक्ष्मी सुरस्तुता ।
अष्टादशभुजार्च्यांशा दशदोर्दण्डमण्डिता ॥ ५६ ॥

निष्कलाष्टभुजा धात्री कल्पातीता मनोहरा ।
कल्पना रहितार्च्याद्या दारिद्र्यवनदाहिनी ॥ ५७ ॥

कौस्तुभा पारिजाता च हाहादिरूपधारिणी ।
तिलोत्तमाप्सरोरूपा नवनागस्वरूपिणी ॥ ५८ ॥

निधिरूपा समाधिस्था खड्गरूपा शवस्थिता ।
महिषासुरदत्तांघ्रिः सिंहगा सिंहगामिनी ॥ ५९ ॥

त्रिशूलधारिणी प्रौढा बाला मुग्धा सुधर्मिणी ।
शङ्खभृच्चक्रभृत्पाशा गदाभृत्पाशमण्डिता ॥ ६० ॥

कालशक्तिः कृपासिन्धुर्मृगारिवरवाहना ।
गणराजमहाशक्तिः शिवशक्तिः शिवस्तुता ॥ ६१ ॥

हरिप्रिया श्राद्धदेवी प्रधाना गुहरूपिणी ।
गुहप्रीता गणेट्प्रीता कामप्रीता गुहस्थिता ॥ ६२ ॥

सर्वार्थदायिनी रौद्री नीलागतिरलोलुपा ।
चामुण्डा चित्रघण्टा च विश्वयोनिर्निरन्तरम् ॥ ६३ ॥

श्रावणी श्रमहन्त्री च संसारभ्रमनाशिनी ।
संसारफलसम्पन्ना संसारमतिरुच्चगा ॥ ६४ ॥

उच्चासनसमारूढा विमानवरगामिनी ।
विमानस्था विमानघ्नी पाशघ्नी कालनाशिनी ॥ ६५ ॥

कालचक्रभ्रमभ्रान्ता कालचक्रप्रवर्तिनी ।
चेतना चापिनी भव्या भव्याभव्यविनाशिनी ॥ ६६ ॥

सिंहासनसुखाविष्टा क्षीरसागरकन्यका ।
वणिक्कन्या क्षेमकरी मुकुटेशावनिस्थिता ॥ ६७ ॥

श्रुतिज्ञा च पुराणज्ञा स्मृतिज्ञा वेदवादनी ।
वेदवेदार्थतत्त्वज्ञा हिङ्गुला कालशालिनी ॥ ६८ ॥

इतिहासार्थविद्धर्म्या ध्येया हन्त्री शिशुप्रिया ।
स्तन्यदा स्तन्यधारा च वनस्था पार्वतीशिवा ॥ ६९ ॥

मेना मैनाकभगिनी सुरभिर्जलभुक्तडित् ।
सर्वबीजान्तरस्थात्री सकलागमदेवता ॥ ७० ॥

स्थलस्थला जलस्था च वनस्था वनदेवता ।
क्षयहन्त्री निहन्त्री च निरातङ्कामरप्रिया ॥ ७१ ॥

त्रिकालज्ञा त्रिरूपा च लीलाविग्रहधारिणी ।
समाधिः पुण्यधिः पुण्या पापाज्ञानविनाशिनी ॥ ७२ ॥

दृश्या दृग्विषया दृष्टिः पापहन्त्री शमस्थिता ।
विरथा रथनिष्ठा च वरूथरथसंस्थिता ॥ ७३ ॥

मधुकैटभहन्त्री च सर्वदेवशरीरभृत् ।
त्रिपुरा पुण्यकीर्तिश्च नृपवश्यप्रदायिनी ॥ ७४ ॥

सांख्यविद्या त्रयीविद्या योगविद्या रविस्थिता ।
स्थावरा जङ्गमा क्षान्तिर्बलिशक्तिर्बलिप्रिया ॥ ७५ ॥

महिषासुरनिर्णाशी दैत्यसैन्यपरान्तकृत् ।
डमड्डमरुडाङ्कारा वीरश्रीर्जनदेवता ॥ ७६ ॥

उद्गीथोद्गीथमर्यादा क्षीरसागरशायिनी ।
वीरलक्ष्मीर्वीरकान्ता शिवदूती सनातनी ॥ ७७ ॥

शक्रादिसंस्तुता हृष्टा चण्डमुण्डविनाशिनी ।
पञ्चवक्त्रैकरूपा च त्रिनेत्रावलिमोहिनी ॥ ७८ ॥

धूम्रलोचननिर्नाशाहङ्कारोद्गारभाषिणी ।
एकमूर्तिस्त्रिधामूर्तिः त्रिलोकानन्ददायिनी ॥ ७९ ॥

भवानी दशमूर्तिश्च पञ्चमूर्तिर्जयन्तिका ।
दक्षिणा दक्षिणामूर्तिः अनेकैकादशाकृतिः ॥ ८० ॥

एकचक्षुरनन्ताक्षी विश्वाक्षी विश्वपालिनी ।
चतुर्विंशतितत्त्वाद्या चतुर्विंशतितत्त्ववित् ॥ ८१ ॥

सोऽहं हंसाविशेषज्ञा निर्विशेषा निराकृतिः ।
यमघण्टामृतकला जयघण्टा जयध्वनिः ॥ ८२ ॥

पाञ्चजन्यस्फुरच्छक्तिर्हनुमच्छक्तिरास्तिका ।
शीलातरणशक्तिश्च रामशक्तिर्विराट्तनुः ॥ ८३ ॥

लङ्काप्रज्वलना वेला सागरक्रमणक्रमात् ।
नरनारायणप्रीतिर्लोकनीतिरघौघकृत् ॥ ८४ ॥

विपाशा पाशहस्ता च विश्वबाहुस्त्रिलिङ्गिका ।
प्राची प्रतीची विदिशा दक्षिणा दक्षकन्यका ॥ ८५ ॥

शिवलिङ्गप्रतिष्ठात्री शिवलिङ्गप्रतिष्ठिता ।
अज्ञाननाशिनी बुद्धिस्तत्त्वविद्या सुचेतना ॥ ८६ ॥

प्रकाशा स्वप्रकाशा च द्वयाद्वयवर्जिता ।
असद्रूपा च सद्रूपा सदसद्रूपशालिनी ॥ ८७ ॥

कैलासनिलया गौरी वृषगा वृषवाहना ।
सोमसूर्याग्निनयना सोमसूर्याग्निविग्रहा ॥ ८८ ॥

विषमेक्षणदुर्धर्षा लङ्कादाहकरी दितिः ।
वैकुण्ठविलसन्मूर्तिः वैकुण्ठनिलयानिला ॥ ८९ ॥

नमोमूर्तिस्तमोमूर्तिस्तेजोमूर्तिरमेयधीः ।
सूर्यमूर्तिश्चन्द्रमूर्तिः यजमानशरीरिणी ॥ ९० ॥

आप्यमूर्तिरिलामूर्तिः नरनारायणाकृतिः ।
विषयाज्ञानभिन्ना च विषयाज्ञाननिर्वृतिः ॥ ९१ ॥

सुखवित्सुखिनी सौख्या वेदवेदाङ्गपारगा ।
स्रुक् स्रुवा च वसोर्धारा यागशक्तिरशक्तिहृत् ॥ ९२ ॥

यज्ञकृत् प्राकृतिर्यज्ञा यज्ञरागविवर्धिनी ।
यज्ञभोक्त्री यज्ञभागा सौभाग्यवरदायिनी ॥ ९३ ॥

व्यापिनी दशदिग्बाहुर्दिगन्ता बलिदायिनी ।
कृपा विश्वेश्वरी स्वङ्गा शताक्षी कामदेवता ॥ ९४ ॥

कामचारप्रिया कामा कामाचारपरायणा ।
चिकित्सा वेदविद्या च वैद्यमातामहौषधिः ॥ ९५ ॥

महौषधिरसप्रीता विकराला कलातिगा ।
मेघशक्तिर्महावृष्टिः सुवृष्टिः शिवशर्मदा ॥ ९६ ॥

रुद्राणी रुद्रवदना रुद्रपूज्यान्नपूर्णिका ।
अन्नदानरसान्नाद्या तृप्तिदा भोजनप्रिया ॥ ९७ ॥

कर्मपाशप्रदा पङ्क्तिः पाकशक्तिः पचिक्रिया ।
सुपक्वफलदा वाञ्छा वाञ्छाधिकफलप्रदा ॥ ९८ ॥

सर्वयन्त्रमयी पूर्णा सर्वभूताश्रयाम्बिका ।
ब्राह्मणी ब्रह्मशक्तिश्च चराचरविभाविनी ॥ ९९ ॥

चराचरगतिर्जैत्री लक्षालक्षेश्वरार्द्धहृत् ।
गुहशक्तिर्गणेट् शक्तिर्नारसिंही सहस्रदृक् ॥ १०० ॥

सर्पमालोत्तरीया च सर्प सर्वाङ्गभूषणा ।
वाराही च सहस्राक्षी कूर्मशक्तिः शुभालया ॥ १०१ ॥

शेषरूपा शेषशक्तिः शेषपर्यङ्कशायिनी ।
वराहदंष्ट्रा वलिधिः कामधीः काममोहिनी ॥ १०२ ॥

मायिनी चित्तसदना कामिकामप्रवर्धिनी ।
सर्वलक्षणसम्पूर्णा सर्वलक्षणनाशिनी ॥ १०३ ॥

नादरूपा बिन्दुरूपा कृतकर्मफलप्रदा ।
ध्रुवशक्तिः ध्रुवारोहा ध्रुवाटोपा ध्रुवार्थदा ॥ १०४ ॥

ध्रुवाकाराग्निहोत्राढ्या ध्रुवाचारा ध्रुवस्थितिः ।
ध्रुवाध्रुवमयी ध्रौव्या चिद्रूपानन्दरूपिणी ॥ १०५ ॥

हृद्रूपा बगला कृष्णा नीलग्रीवा कुधीहरा ।
पवित्रदृष्टिः पावित्र्यकारिणी ऋषिवत्सला ॥ १०६ ॥

शिशूत्सङ्गधरासङ्गा सङ्गरागप्रवर्धिनी ।
निःसङ्गा सङ्गबहुला चतुराश्रमवासिनी ॥ १०७ ॥

चतुर्वर्णपरिष्वङ्गा चतुर्वर्णबहिस्थिता ।
निराश्रया रागवती रागिमानससंश्रया ॥ १०८ ॥

ब्राह्मणी राजदुहिता वैश्या शूद्रा परासुरा ।
गृहाश्रमसमासीना गृहधर्मनिरूपिणी ॥ १०९ ॥

गृहधर्मा विषादघ्नी ब्रह्मचर्यनिषेविणी ।
वानप्रस्थाश्रमस्था च यतिधर्मा स्फुरत्तनुः ॥ ११० ॥

संस्थितिः प्रलया सृष्टिः सर्गस्थित्यन्तखेलकृत् ।
ज्ञानशक्तिः क्रियाशक्तिः छायाशक्तिरपूर्वकृत् ॥ १११ ॥

नानावादविशेषज्ञा नानावादनिरङ्गता ।
शून्यवादनिराकारा धर्मवादनिरूपिणी ॥ ११२ ॥

नवचण्डी क्रियाहेतुः सङ्कल्पाकल्पनातिगा ।
निर्विकल्पा विकल्पाद्या सङ्कल्पाकल्पभूरुहा ॥ ११३ ॥

सृष्टिघ्नी च स्थितिघ्नी च विनाशघ्नी त्रिरूपभृत् ।
अयोध्या द्वारका काशी मथुरा काञ्च्यवन्तिका ॥ ११४ ॥

विशोका शोकमार्तण्डी पाञ्चाली शोकनाशिनी ।
शमनियमशक्तिश्च धर्मशक्तिर्जयध्वजा ॥ ११५ ॥

मुक्तिः कुण्डलिनी भुक्तिर्विषदृष्टिः समेक्षणा ।
कृपेक्षणा कृपार्द्राङ्गी कृपार्चिता कृपाश्रुतिः ॥ ११६ ॥

महापुराद्रिनिलया महापुरकृतस्थितिः ।
अज्ञानकल्पनानन्ता प्रपञ्जकलनातिगा ॥ ११७ ॥

साम्यदृष्टिः देहपुष्टिः कृतसृष्टिर्हृताखिला ।
वेणुपुण्यपरीपाकाऽयोनिजा वह्निसम्भवा ॥ ११८ ॥

महापुरसुखासीना डमड्डमरुदर्पिता ।
महापुरमहादेवी डमरुप्रीतिवल्गिता ॥ ११९ ॥

भद्रकाली पितृशक्तिर्ह्यालसा भुवनेश्वरी ।
गायत्री च चतुर्वक्त्रा त्रिपुरा वीरवन्दिता ॥ १२० ॥

यमाम्बा त्रिगुणानन्दा कैवल्यपददायिनी ।
वडवा सदया भूस्था शाक्तसर्गप्रवर्तिनी ॥ १२१ ॥

इन्द्रादि देवजननी एलाम्बा कोलरूपिणी ।
कुम्भदर्पहरा दोला दोलाक्रीडनलालसा ॥ १२२ ॥

शीतला विष्णुमाया च चतुर्वक्त्रनमस्कृता ।
मातङ्गी विष्णुजननी प्रेतासननिवासिनी ॥ १२३ ॥

गरुत्मत्गमनानीला ब्रह्मास्त्रा ब्रह्मभूषिता ।
सिद्धिः पाशुपतास्त्रा च नीलेन्दीवरलोचना ॥ १२४ ॥

रुक्मा शङ्करजननी कर्मनाशा च शाम्भवी ।
त्रिगा वामनशक्तिश्च हिरण्यगर्भभूसुरा ॥ १२५ ॥

वाग्वादिनी च वर्णा च शङ्करार्धशरीरिणी ।
दारुणा मोहरात्रिश्च भ्रमादिगणरूपिणी ॥ १२६ ॥

दीपिका क्रीडवरदा मोहिनी गरलाशना ।
कपर्दार्चितसर्वाङ्गी कपर्दाभरणप्रिया ॥ १२७ ॥

सावित्री भैरवीविघ्ना पीतापीताम्बरप्रभुः ।
दशवक्त्रानवद्याङ्गी त्रिंशल्लोचनभूषिता ॥ १२८ ॥

दशांघ्रिर्दशदोर्दण्डा स्फुरद्दंष्ट्रातिभीषणा ।
कर्पूरकान्तिवदना नीलबाहुरनुत्तमा ॥ १२९ ॥

ब्रह्मगेया मुनिध्येया ह्रीङ्कारा कामविग्रहा ।
षड्बीजा नवबीजा च नवाक्षरतनुः खगा ॥ १३० ॥

दशार्णा द्वादशार्णाढ्या षोडशार्णाविबीजगा ।
मालामन्त्रमयी जय्या सर्वबीजैकदेवता ॥ १३१ ॥

जपमाला च जयदा जपविघ्नविनाशिनी ।
जपकर्त्री जपस्तोत्रा मन्त्रयन्त्रफलप्रदा ॥ १३२ ॥

मन्त्रावरणरूपैका यन्त्रावरणदेवता ।
पद्मिनी पद्मपत्राक्षी शमी यज्ञाङ्गदेवता ॥ १३३ ॥

यज्ञसिद्धिः सहस्राक्षी सहस्राक्षपदप्रदा ।
रेणुवशावताराढ्या महिषान्तकरी समित् ॥ १३४ ॥

ऋग्वेदा च यजुर्वेदा सामवेदा त्रयीपरा ।
अभिचारप्रियाथर्वा पञ्चतन्त्राधिदेवता ॥ १३५ ॥

अभिचारक्रिया शान्तिः शान्तिमन्त्राधिदेवता ।
अभिचारोपशमनी सर्वानन्दविधायिनी ॥ १३६ ॥

अथर्वपाठसम्पन्ना लेखनी लेखकस्थिता ।
भूमलेख्या वर्णशक्तिः सर्वशक्तिः प्रसिद्धिदा ॥ १३७ ॥

कीर्तिकामा कलाकामा कामाक्षी सर्वमङ्गला ।
शूलेश्वरी कुशूलघ्नी चिन्ताशोकविनाशिनी ॥ १३८ ॥

चिन्तादिदेवता भूतनायका नलकूबरी ।
करालीत्यूर्ध्वकेशी च श्रीधरी च विनायकी ॥ १३९ ॥

कामेश्वरी च कौवेरी पद्मावत्यभिधागतिः ।
ज्वालामुखी च कौवेरी विजया मेघवाहना ॥ १४० ॥

महाबला महोत्साहा महाभयनिवारिणी ।
कामिनी शाङ्करी काष्ठा सहस्रभुजनिग्रहा ॥ १४१ ॥

प्रभा प्रभाकरी भाषा सप्ताश्वरथसंस्थिता ।
अलकापुरसंस्थाना मृडानी विन्ध्यनिश्चला ॥ १४२ ॥

हिमाचलकृतक्रीडा पीडापापनिवारिणी ।
अर्धमात्राक्षरा सन्ध्या त्रिमात्रा भारती धृतिः ॥ १४३ ॥

वेदमाता वेदगर्भा कौशिकी त्र्यम्बका स्वरा ।
अम्बालिका क्षुधा तृष्णा धूम्रा रौद्रा दुरत्यया ॥ १४४ ॥

पानपात्रकरा जातिः श्रद्धावार्ता चितास्थिता ।
दुर्गाणी रक्तचामुण्डावृतिः सोमावतंसिनी ॥ १४५ ॥

शरण्यार्या दुर्गापरा सारा ज्योस्ला महास्मृतिः । ज्योत्स्ना
जगत्प्रतिष्ठा कल्याणी छाया तुष्टिश्च तामसी ॥ १४६ ॥

तृष्णा वाग्धीश्च नद्धा च गदिनी चक्रधारिणी ।
लज्जा सहस्रनयना महिषासुरमर्दिनी ॥ १४७ ॥

भीमा भद्रा भगवती नवदुर्गाऽपराजिता ।
मेघाष्टादश दोर्दण्डा दुर्गा कात्यायनी रतिः ॥ १४८ ॥

सर्वतः पाणिपादोरुर्भ्रामरी चन्द्ररूपिणी ।
इन्द्राणी च महामारी सर्वतोऽक्षिशिरोमुखा ॥ १४९ ॥

सप्ताधिसंश्रया सत्ता सप्तद्वीपाब्धिमेखला ।
सूर्यदीप्तिर्वज्रपंक्तिः पानोन्मत्ता च पिङ्गला ॥ १५० ॥

सर्वज्ञा विश्वमाता च भक्तानुग्रहकारिणी ।
विश्वप्रिया प्राणशक्तिरनन्तगुणनामधीः ॥ १५१ ॥

सर्वकल्याणनिलया शारदा त्र्यम्बिका सुधा ॥ १५२ ॥

श्री शङ्कर उवाच —

दिव्यं नामसहस्रं ते रेणुकाया मयेरितम् ।
सर्वकामसमृद्ध्यर्थमनेन भज षण्मुख ॥ १५३ ॥ समृद्धि अर्थं अनेन

भुक्तिदो मुक्तिश्चापि भजतां कल्पपादपः ।
जयप्रदो विशेषेण नानेन सदृशो मनुः ॥ १५४ ॥

पुरश्चरणमुद्दिष्टं सहस्रं नवकं शुभम् ।
विजयार्थं विशेषेण प्रयोगं साधयेत्ततः ॥ १५५ ॥

हस्तयोर्भाजनं कृत्वा प्रसादं याचयेन्मुहुः ।
लब्धप्रसादो भक्तेभ्यश्चिन्तयेधृदि रेणुकाम् ॥ १५६ ॥ चिन्तयेत् हृदि

भक्तितो योगिनीवृन्दं पूजयेत्तोषयेन्मुदा ।
तत्पात्रं पूरयेदन्नैः पूजयित्वोपचारकैः ॥ १५७ ॥

श‍ृङ्गिनादं समाकर्ण्य प्रार्थयेदुदयाशिषम् ।
सर्वेभ्यश्चाशिषो लब्ध्वा भुञ्जीत सहबान्धवैः ॥ १५८ ॥

नानाजातिभवान्भक्तान् प्रीयतां रेणुकेति च ।
उत्सर्गादिप्रसादेन तोषयेच्च मुहुर्मुहुः ॥ १५९ ॥

दीपकाडमरुध्वानैरुदयोद्दामकीर्तनैः ।
गोदोहसमये कुर्याद्गोदोहजमहोत्सवम् ॥ १६० ॥

जगदम्बामयं पश्यन् सकलं दृष्टिगोचरम् ।
दीपिकाडमरूत्साहं भक्तैः सह निशां नयेत् ॥ १६१ ॥

अवर्षणे धराकम्पे संक्षोभे सागरस्य च ।
आवर्तनसहस्रेण निश्चिते जायते शुभम् ॥ १६२ ॥

दुष्टोत्पाते महाघोरे सङ्कटे दुरतिक्रमे ।
अयुतावर्तनान्नूनमसाध्यमपि साधयेत् ॥ १६३ ॥

निशीथे वा प्रदोषे वा जगदम्बालये शुचिः ।
नवरात्रं जपेद्यस्तु प्रत्यहं नववारकम् ॥ १६४ ॥

नामभिः पूजनं होमं प्रत्ययं कुरुते व्रती ।
प्रसन्नास्मै महामाया प्रत्यक्षं भवति ध्रुवम् ॥ १६५ ॥

त्रिवारं नियतं जप्त्वा षण्मासं व्रतवान् शुचिः ।
दारिद्र्यार्णवमुत्तीर्य विपुलां श्रियमाप्नुयात् ॥ १६६ ॥

विशेषसाधनं कुर्यात्पुरश्चर्यां पुनः सुधीः ।
साधयेत्सकलान्कामान् सत्वरं नात्र संशयः ॥ १६७ ॥

पुष्पाज्यपायसतिलैर्हरिद्रामधुचन्दनैः ।
नानापरिमलद्रव्यैर्भक्तियुक्तो यजेन्मुदा ॥ १६८ ॥

इदं पठति यो भक्त्या श‍ृणुयाद्वापि नित्यशः ।
निर्विघ्नं लभतेऽभीष्टं जीवेच्च शरदां शतम् ॥ १६९ ॥

शुक्लपक्षेऽथवा कृष्णे भूताधः षष्ठिकादिनात् ।
साधकः साङ्गविधिना साधयेत्स्तोत्रमन्त्रवित् ॥ १७० ॥

इषे शुक्लनवम्यन्तमारभ्य प्रतिपत्तिथिम् ।
नवरात्रोक्तविधिना कलशं पूजयेन्मुदा ॥ १७१ ॥

सङ्कटे सत्वरे कृत्ये विधिनावर्तयेत् स्थितिम् ।
प्राप्नोति वाञ्छितं सद्यः सर्वविघ्नविनाशकृत् ॥ १७२ ॥

घृतद्वीपद्वयं कृत्वा दक्षिणोत्तरभागयोः ।
नानाभोगोपचारैश्च तोषयेज्जगदम्बिकाम् ॥ १७३ ॥

कुङ्कुमागरुकस्तूरीचन्दनाभिरर्चयेत् ।
कुमारीं पूजयेत्भक्त्या ब्राह्मणांश्च सुवासिनीम् ॥ १७४ ॥

षड्रसैः स्वादु पक्वान्नैर्भोजयेच्च चतुर्विधैः ।
शक्तितो दक्षिणां दद्याद्वासोधान्यं गवादिकम् ॥ १७५ ॥

वित्तशाठ्यं न कुर्वीत सर्वकार्यसमृद्धये ।
प्रणमेत् प्रणमेद्भक्त्या प्रोच्यतामुदयोस्त्वतिः ॥ १७६ ॥

भूषितो मङ्गलस्नानैः स्वालेप्याम्बरमाल्यवान् ।
विभूष्याङ्गं कपर्दैश्च प्रज्वाल्य घृतदीपिकाम् ॥ १७७ ॥

यद्यदारभ्यते कार्यं तदादौ च समापने ।
सम्पूज्याम्बां कुमारींश्च पूजयेज्जपपूर्वकम् ॥ १७८ ॥

भूताष्टम्यां नवम्यां च भौमे च नियतः पठेत् ।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥ १७९ ॥

भूता रक्षः पिशाचाद्या वैरिणो दस्यवोपि च ।
पठ्यतेऽनुदिनं यत्र तद्गृहं न विशन्ति च ॥ १८० ॥

अब्धिसञ्चरणे पोते लङ्घने गिरिरोहणे ।
चित्तक्षोभे प्रसादे च विषादे वा पठेदिदम् ॥ १८१ ॥

दुःस्वप्नदर्शने मार्गे विड्वरे कलहागमे ।
यात्राकाले पठेदेतत् सर्वमाङ्गलिकागमे ॥ १८२ ॥

निष्कामो वा सकामो वा पुरुषार्थप्रदं यतः ।
त्रैवर्णिकः पठेदेतदितरः पाठयेत् सदा ॥ १८३ ॥

सौभाग्यं लभते नारी कन्या सर्वोत्तमं वरम् ।
मृतवत्सा लभेत्पुण्यमायुष्मत्सन्ततिं शुभाम् ॥ १८४ ॥

असूतिर्लभते सूतिं सुसूतिं कष्टसूतिका ।
उदासीना लभेत्प्रीतिं पतिबालप्रियङ्करी ॥ १८५ ॥

न वैधव्यमवाप्नोति न सपत्नीं लभेत्क्वचित् ।
सुरूपा सुभगा धन्या विरहं नाप्नुयात्क्वचित् ॥ १८६ ॥

च्यवद्गर्भवती या च दृढगर्भवती भवेत् ।
वित्तापत्यपरीवारा पतिमण्डितविग्रहा ॥ १८७ ॥

सहस्रनामकं स्तोत्रं पठ्यते यत्र वेश्मनि ।
ग्रहाः कालग्रहाः पीडां नैव कुर्वन्ति कर्हिचित् ॥ १८८ ॥

यद्गृहे पूजितं ह्येतत् पुस्तकं वा सुभक्तितः ।
शक्तितो हवनं कुर्याद् विघ्नस्तत्र विनश्यति ॥ १८९ ॥

गर्भिणी स्रावयेन्नित्यं गर्भदोषान्निवर्तते ।
सूतिकायतने प्रोक्तं सूतिकाबालसौख्यदम् ॥ १९० ॥

सर्वं मन्त्राधिकमिदं भक्त्या यः सर्वदा पठेत् ।
श्रावयेत् पाठयेद्वापि सर्वत्र लभते जयम् ॥ १९१ ॥

पुस्तकानि प्रदेयानि विप्रेभ्यो नवभक्तितः ।
सोपचाराणि विधिना रेणुका तुष्टिहेतवे ॥ १९२ ॥

पुत्रकामी शुभान् पुत्रान् धनार्थी विपुलं धनम् ।
कन्यार्थी लभते कन्यां कुलशीलादिमण्डिताम् ॥ १९३ ॥

विद्याकामो लभेद्विद्यां कवित्वं कविताप्रियः ।
प्रज्ञातिशयमासाद्य समर्थो ग्रन्थधारणे ॥ १९४ ॥

मुच्यते निगडाबद्धः स्खलद्गीः स्पष्टवाग्भवेत् ।
कामुकः काममाप्नोति भूपालं वशमानयेत् ॥ १९५ ॥

कुष्ठापस्माररहितो ज्वररोगविवर्जितः ।
रोगी रोगविनिर्मुक्तः शत्रुसङ्घाज्जयो भवेत् ॥ १९६ ॥

शीतलो जायते वह्निर्विषं स्यादमृतोपमम् ।
शस्त्राण्युत्पलतां यान्ति पठनादस्य भक्तितः ॥ १९७ ॥

अन्धो दृष्टिमवाप्नोति बधिरः श्रुतिमान् भवेत् ।
मूको वाचालतामेति रेणुकायाः प्रसादतः ॥ १९८ ॥

रेणुकेत्येकनामेदं धर्मार्थकाममोक्षदम् ।
फलं नामसहस्रस्य समर्थो वक्तुमस्ति कः ॥ १९९ ॥

रेणुकास्मरणान्नूनं विषं नाक्रमेत् तनौ ।
सर्वपीडोपशान्तिश्च सकलार्थसुखोदयः ॥ २०० ॥

नारायणः श्रिया युक्तः सावित्रीसहितो विधिः ।
अहं भवानीसहितो रेणुकार्चनतोऽर्चिता ॥ २०१ ॥

सर्वं यज्ञफलं तस्य पारायणफलं तथा ।
साङ्गयोगफलं तस्य रेणुका येन पूजिता ॥ २०२ ॥

उच्यते बाहुमुद्धृत्य बहुनोक्तेन षण्मुख ।
सेव्यते रेणुका यैस्ते सेव्यन्ते त्रिदशैरपि ॥ २०३ ॥

इति श्री पद्मपुराणे मायोपाख्याने रेणुकाप्रस्तावे
रेणुकाप्रकृतिभावे शङ्करषण्मुखसंवादे
शङ्करप्रोक्तं रेणुकासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Shri Renuka:

1000 Names of Sri Renuka | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Renuka | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top