Sundarakanda Sarga (Chapter) 67 in Sanskrit
Sundarakanda Sarga (Chapter) 67 : ॥ सुन्दरकाण्ड सप्तषष्टितमः सर्गः (६७) ॥ ॥ सीताभाषितानुवचनम् ॥ एवमुक्तस्तु हनुमान्राघवेण महात्मना । सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ १ ॥ इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ २ ॥ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विददार स्तनान्तरे ॥ ३ ॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज […]