Bhagavan Manasa Pooja Lyrics in Hindi
Bhagavan Manasa Pooja in Hindi: ॥ भगवन्मानसपूजा ॥ भगवन्मानसपूजा हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मुकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयोऽम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन् मणिव्रातभ्राजत्कनकवरपीठं नरहरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥ त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं भजस्वेमं पञ्चामृतरचितमाप्लाव्यमघहन् । द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं जलं तेन स्नानं कुरु […]