Templesinindiainfo

Best Spiritual Website

Paduka Ashtakam Lyrics in Sanskrit

Paduka Ashtakam in Sanskrit:

॥ पादुकाष्टकम् ॥
श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरं
भेदवर्जितमप्रमेयमनन्तमुझ्झितकल्मषम् ।
निर्मलं निगमान्तमद्भुतमप्यतर्क्यमनुत्तमं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १ ॥

नादबिन्दुकलात्मकं दशनादवेदविनोदितं
मन्त्रराजपराजितं निजमण्डलान्तरभासितम् ।
पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २ ॥

हन्तचारुमखण्डनादमनेकवर्णमरूपकं
शब्दजालमयं चराचरजन्तुदेहनिरासिनम् ।
चक्रराजमनाहतोद्भवमेघवर्णमतत्परं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३ ॥

बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं
निश्चयं निरतप्रकाशमनेकसद्रुचिरूपकम् ।
पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४ ॥

पञ्च पञ्च हृषीकदेहमनश्चतुष्क परस्परं
पञ्चभूतनिकामषट्कसमीरशब्दमभीकरम् ।
पञ्चकोशगुणत्रयादिसमस्तधर्मविलक्षणं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ५ ॥

पञ्चमुद्रसुलक्ष्यदर्शनभावमात्रनिरूपणं
विद्युदादिदगद्धगितविनोदकान्ति विवर्तनम् ।
चिन्मयत्रयवर्तिनं सदसद्विवेकममायिकं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ६ ॥

पञ्चवर्णशुकं समस्तरुचिर्विचित्रविचारिणं
चन्द्रसूर्यचिदाग्निमण्डलमण्डितं घनचिन्मयम् ।
चित्कलापरिपूर्णमण्डलचित्समाधिनिरीक्षितं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ७ ॥

स्थूलसूक्ष्मसकारणान्तर खेलनं परिपालनं
विश्वतैजपप्राज्ञचेतसमन्तरात्मनिजस्थितिम् ।
सर्वकारणमीश्वरं निटलान्तरालविहारिणं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ८ ॥

तप्तकाञ्चनदीप्यमान महानुरूपमरूपकं
चन्द्रकान्तरतारकैरवमुज्ज्वलं परमं पदम् ।
नीलनीरदमध्यमस्थितविद्युदाभविभासितं
प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ९ ॥

इति पादुकाष्टकम् ।

Also Read:

Paduka Ashtakam Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Paduka Ashtakam Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top