1000 Names of Sri Matangi | Sahasranama Stotram Lyrics in Hindi
Shri Matangisahasranamastotram Lyrics in Hindi: ॥ श्रीमातङ्गीसहस्रनामस्तोत्रम् ॥ अथ मातङ्गीसहस्रनामस्तोत्रम् ईश्वर उवाच शृणु देवि प्रवक्ष्यामि साम्प्रतन्तत्त्वतः परम् । नाम्नां सहस्रम्परमं सुमुख्याः सिद्धये हितम् ॥ सहस्रनामपाठी यः सर्वत्र विजयी भवेत् । पराभवो न तस्यास्ति सभायाव्वा महारणे ॥ यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः । तथा भवति देवेशि साधकः शिव एव सः ॥ अश्वमेधसहस्राणि वाजपेयस्य कोटयः । […]