Sri Shanmukha Bhujanga Stuti Lyrics in Sanskrit
Sri Shanmukha Bhujanga Stuti Sanskrit Lyrics: श्री षण्मुख भुजङ्ग स्तुतिः ह्रिया लक्ष्म्या वल्ल्या सुरपृतनयाऽऽलिङ्गिततनुः मयूरारूढोऽयं शिववदनपङ्केरुहरविः । षडास्यो भक्तानामचलहृदिवासं प्रतनवै इतीमं बुद्धिं द्रागचलनिलयः सञ्जनयति ॥ १ ॥ स्मितन्यक्कृतेन्दुप्रभाकुन्दपुष्पं सिताभ्रागरुप्रष्ठगन्धानुलिप्तम् । श्रिताशेषलोकेष्टदानामरद्रुं सदा षण्मुखं भावये हृत्सरोजे ॥ २ ॥ शरीरेन्द्रियादावहम्भावजातान् षडूर्मीर्विकारांश्च शत्रून्निहन्तुम् । नतानां दधे यस्तमास्याब्जषट्कं सदा षण्मुखं भावये हृत्सरोजे ॥ ३ ॥ अपर्णाख्यवल्लीसमाश्लेषयोगात् पुरा स्थाणुतो […]