Templesinindiainfo

Best Spiritual Website

Prithivia Gita Lyrics in Hindi

Prithivia Geeetaa in Hindi:

॥ पृथिवीगीता ॥
मैत्रेय पृथिवीगीता श्लोकाश्चात्र निबोध तान् ।
यानाह धर्मध्वजिने जनकायासितो मुनिः ॥ १ ॥

पृथिव्युवाच —
कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोऽप्यभिविश्वस्तचेतसः ॥ २ ॥

पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ ३ ॥

क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरकम् ॥ ४ ॥

समुद्रावरणं याति मन्मण्डलमथो वशम् ।
कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥ ५ ॥

उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां ममेति विमूढत्वात् जेतुमिच्छन्ति पार्थिवाः ॥ ६ ॥

मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहाः ।
जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ॥ ७ ॥

पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् ।
यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ॥ ८ ॥

दृष्ट्वा ममत्वायतचित्तमेकं विहाय मां मृत्युपथं व्रजन्तम् ।
तस्यान्वयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवः करोति ॥ ९ ॥

पृथ्वी ममैषाशु परित्यजैनं वदन्ति ये दूतमुखैः स्वशत्रुम् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ १० ॥

पराशर उवाच
इत्येते धरणीगीताश्लोका मैत्रेय यैः श्रुतैः ।
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥ ११ ॥

इति पृथिवीगीता समाप्ता ।

Also Read:

Prithivia Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Prithivia Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top