Templesinindiainfo

Best Spiritual Website

Rati Devi Krita Shiva Stotram Lyrics in Sanskrit

Rati Devi Kruta Shiva Stotram in Sanskrit:

॥ श्री शिव स्तोत्रम् (रतिदेवि कृतम्) ॥
नमश्शिवायास्तु निरामयाय
नमश्शिवायास्तु मनोमयाय ।
नमश्शिवायास्तु सुरार्चिताय
तुभ्यं सदा भक्तकृपावराय ॥ १ ॥

नमो भवायास्तु भवोद्भवाय
नमोऽस्तु ते ध्वस्तमनोभवाय ।
नमोऽस्तु ते गूढमहाव्रताय
नमस्स्वमायागहनाश्रयाय ॥ २ ॥

नमोऽस्तु शर्वाय नमश्शिवाय
नमोऽस्तु सिद्धाय पुरान्तकाय ।
नमोऽस्तु कालाय नमः कलाय
नमोऽस्तु ते ज्ञानवरप्रदाय ॥ ३ ॥

नमोऽस्तु ते कालकलातिगाय
नमो निसर्गामलभूषणाय ।
नमोऽस्त्वमेयान्धकमर्दनाय
नमश्शरण्याय नमोऽगुणाय ॥ ४ ॥

नमोऽस्तु ते भीमगुणानुगाय
नमोऽस्तु नानाभुवनादिकर्त्रे ।
नमोऽस्तु नानाजगतां विधात्रे
नमोऽस्तु ते चित्रफलप्रयोक्त्रे ॥ ५ ॥

सर्वावसाने ह्यविनाशनेत्रे
नमोऽस्तु चित्राध्वरभागभोक्त्रे ।
नमोऽस्तु कर्मप्रभवस्य धात्रे
नमस्स धात्रे भवसङ्गहर्त्रे ॥ ६ ॥

अनन्तरूपाय सदैव तुभ्य-
मसह्यकोपाय नमोऽस्तु तुभ्यम् ।
शशाङ्कचिह्नाय नमोऽस्तु तुभ्य-
ममेयमानाय नमोऽस्तु तुभ्यम् ॥ ७ ॥

वृषेन्द्रयानाय पुरान्तकाय
नमः प्रसिद्धाय महौषधाय ।
नमोऽस्तु भक्ताभिमतप्रदाय
नमोऽस्तु सर्वार्तिहराय तुभ्यम् ॥ ८ ॥

चराचराचारविचारवर्य-
माचार्यमुत्प्रेक्षितभूतसर्गम् ।
त्वामिन्दुमौलिं शरणं प्रपन्ना
प्रियाप्रमेयं महतां महेशम् ॥ ९ ॥

प्रयच्छ मे कामयशस्समृद्धिं
पुनः प्रभो जीवतु कामदेवः ॥

वैधव्यहर्त्रे भगवन्नमस्ते
प्रियं विना त्वां प्रियजीवितेषु ॥ १० ॥

त्वत्तो परः को भुवनेष्विहास्ति
प्रभुः प्रियायाः प्रभवः प्रियाणाम् ।
त्वमेव चैको भुवनस्य नाथो
दयालुरुन्मीलितभक्तभीतिः ॥ ११ ॥

इति श्रीमत्स्यपुराणे रतिदेवीकृत शिवस्तोत्रम् ।

Also Read:

Rati Devi Krita Shiva Stotram in Sanskrit | English |  Kannada | Telugu | Tamil

Rati Devi Krita Shiva Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top