Templesinindiainfo

Best Spiritual Website

Shri Ganeshashtakam by Shri Vishnu Lyrics in Hindi | श्रीविष्णुकृतं श्रीगणेशाष्टकम्

श्रीविष्णुकृतं श्रीगणेशाष्टकम् Lyrics in Hindi:

गणेशनामाष्टकम्

नामाष्टकस्तोत्रम् च

श्रीविष्णुरुवाच ।
गणेशमेकदन्तञ्च हेरम्बं विघ्ननायकम् ।
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥

नामाष्टकार्थं पुत्रस्य शृणु मतो हरप्रिये ।
स्तोत्राणां सारभूतञ्च सर्वविघ्नहरं परम् ॥

ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ १॥

एकः शब्दः प्रधानार्थो दन्तश्च बलवाचकः ।
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥ २॥

दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।
पालकं दीनलोकानां हेरम्बं प्रणमाम्यहम् ॥ ३॥ परिपालकं तं दीनानां

विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारन्तं प्रणमे विघ्ननायकम् ॥ ४॥ नमामि

विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम् । लम्बोदरं पुरा
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरञ्च तम् ॥ ५॥

शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ । विघ्नवारणकारणौ
सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥ ६॥ सम्पदास्फालरूपौ

विष्णुप्रसादपुष्पञ्च यन्मूर्ध्नि मुनिदत्तकम् ।
तद्गजेन्द्रमुखं कान्तं गजवक्त्रं नमाम्यहम् ॥ ७॥ तद्गजेन्द्रवक्त्रयुक्तं

गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये । हरगृहे
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥ ८॥

एतन्नामाष्टकं दुर्गे नानाशक्तियुतं परम् ।
पुत्रस्य पश्य वेदे च तदा कोपं वृथा कुरु ॥

एतन्नामाष्टकं स्तोत्रं नामार्थसंयुतं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥

ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥

पुत्रार्थीं लभते पुत्रं भार्यार्थीं विपुलां स्त्रियाम् ।
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥

इति ब्रह्मवैवर्ते विष्णुपदिष्टं गणेशनामाष्टकं
स्तोत्रं सम्पूर्णम् ॥

Shri Ganeshashtakam by Shri Vishnu Lyrics in Hindi | श्रीविष्णुकृतं श्रीगणेशाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top