Templesinindiainfo

Best Spiritual Website

Shri Gokulesha Ashtakam 3 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् ३

श्रीगोकुलेशाष्टकम् ३ Lyrics in Hindi:

यतिवशधरणीशे धर्मलोपप्रवृत्ते
हरिचरणसहायो यः स्वधर्मं जुगोप ।
विहितभजनभारो धर्मरक्षावतारः
स जगति जयति श्रीवल्लभो गोकुलेशः ॥ १॥

असदुदितविदारी वेदवादानुसारी
यदुचितहितकारी भक्तिमार्गप्रचारी ।
रुचिरतिलकधारी मालधारी तुलस्याः
स जयति जयति श्रीवल्लभो गोकुलेशः ॥ २॥

बहुविधिजननर्मप्रोक्तिबाणैरधर्मः
प्रकटमयति मर्मस्फोटमाराद्विधाय ।
वपुषि भजनवर्म प्राप्य कल्याणधर्मः
स जयति नवकर्मा गोकुले गोकुलेशः ॥ ३॥

निगमजनितधर्मद्रोहिणि क्षोणिनाथे
सकलसहजवेशस्तत्समीपं समेत्य ।
तदुचितमदमत्या दत्तवानुत्तरं यः
स जयति जनचित्तानन्दको गोकुलेशः ॥ ४॥

अधिकृतयुगधर्मे वर्धमाने समन्ता-
दनितशरणोऽसौ वेदधर्मो सदाभूऽत् । check
तदिह शरणमागाद्यः सदैकः शरण्यं
स जयति जनवन्द्यो गोकुले गोकुलेशः ॥ ५॥

कलिवृषलभयाप्तौ तत्कलिं सन्निगृह्य
क्षितिपतिरविताऽऽसीद्यस्य पूर्वं परीक्षित् ।
इह हि नृपतिभीतौ तस्य धर्मस्य नित्यं
स जयति भुवि गोप्ता गोकुले गोकुलेशः ॥ ६॥

प्रथममिह परीक्षिद्रक्षितो वर्णधर्मः
पुनरपि कलिकल्पक्षुद्रभिक्षुक्षतोऽभूत् ।
अभयपदमिदं यं शाश्वतं चाभ्युपेतः
स जयति निजभक्ताह्लादको गोकुलेशः ॥ ७॥

य इह सकललोके केवलं न स्वकीये
प्रभुजननबलेन स्थापयामास धर्मम् ।
सकलसुखविधाता गोकुलानन्ददाता
स जयति निजताताराधको गोकुलेशः ॥ ८॥

श्रीवल्लभाष्टकमिदं पठति प्रपन्नो
यः कृष्णरायकृतमित्युषसि स्वचित्तः ।
सोऽयं सुदुर्लभतमानपि निश्चयेन
प्राप्नोति वै विनिहितानखिलान् पदार्थान् ॥ ९॥

इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ।

Shri Gokulesha Ashtakam 3 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् ३

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top