Templesinindiainfo

Best Spiritual Website

Shri Gokuleshashtakam 2 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् २

श्रीगोकुलेशाष्टकम् २ Lyrics in Hindi:

प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितानाम् ।
समस्तसन्तापनिवर्तकं यद्रूपं निजं दर्शय गोकुलेश ॥ १॥

भवद्वियोगोरगदंशभाजां प्रत्यङ्गमुद्यद्विषमूर्च्छितानाम् ।
सञ्जीवनं सम्प्रति तावकानां रूपं निजं दर्शय गोकुलेश ॥ २॥

आकस्मिकत्वद्विरहान्धकारसञ्छादिताशेषनिदर्शनानाम् ।
प्रकाशकं त्वज्जनलोचनानां रूपं निजं दर्शय गोकुलेश ॥ ३॥

स्वमन्दिरास्तीर्णविचित्रवर्णं सुस्पर्शमृद्वास्तरणे निषण्णम् ।
पृथूपधानाश्रितपृष्ठभागं रूपं निजं दर्शय गोकुलेश ॥ ४॥

सन्दर्शनार्थागतसर्वलोकविलोचनासेचनकं मनोज्ञम् ।
कृपावलोकहिततत्प्रसादं रूपं निजं दर्शय गोकुलेश ॥ ५॥

यत्सर्वदा चर्वितनागवल्लीरसप्रियं तद्रसरक्तदन्तम् ।
निजेषु तच्चर्वितशेषदं च रूपं निजं दर्शय गोकुलेश ॥ ६॥

प्रतिक्षणं गोकुलसुन्दरीणामतृप्तिमल्लोचनपानपात्रम् ।
समस्तसौन्दर्यरसौघपूर्णं रूपं निजं दर्शय गोकुलेश ॥ ७॥

क्वचित्क्षणं वैणिकदत्तकर्णं कदाचिदुद्गानकृतावधानम् ।
सहासवाचः क्व च भाषमाणं रूपं निजं दर्शय गोकुलेश ॥ ८॥

श्रीगोकुलेशाष्टकमिष्टदातृश्रद्धान्वितो यः पठितीति नित्यम् ।
पश्यत्पवश्यं स तदीयरूपं निजैकवश्यं कुरुते च हृष्टः ॥ ९॥

इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं समाप्तम् ।

Shri Gokuleshashtakam 2 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top